पर्युषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्युषित¦ त्रि॰ परिहृस स्वकालमतिक्रम्य उषितम् वम--क्त। (वासि) कालातिक्रान्ते गतरातिकालके द्रव्ये। देवेभ्यःपर्युषितपुष्पदानं निषिन्नं यथानारसिंहे
“अपर्युषितनिश्छिद्रेः प्रोक्षितैर्जन्तुवर्जितैः। स्त्रीयारामोद्भवैर्वापि पुष्यैः संपूजयेल्लरिम्” योगिनीतन्त्रेतत्प्रसवः
“विल्वपत्रञ्च माध्यञ्च तमालामलकीदलम्। कह्णारतुलसी चैव षद्मञ्च मुनिपुष्पकम्। एतत् पर्यु-षितं न स्यात् यच्चान्यत् कलिकात्मकम्”। पर्युषितान्ना-[Page4268-a+ 38] दिभक्षणनिषेधो यथा
“शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टंपतितेक्षितम्। उदक्यास्पृष्टसंथुष्टं पर्य्याचान्तञ्च वर्ज-येत्” गरुडपु॰
“यातयामं गतरसं पूति पर्युषितञ्च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्” गीता।
“शुक्तं पर्युषितञ्चैव शूद्रोच्छिष्टन्तथैव च” मनुः। अत्र प्रतिप्रसवः पर्युषितं रात्र्यान्तरितं तत्तु स्नेहाक्तंभक्ष्यमाह सनुः
“यत्किञ्चित् स्नेहसंयुक्तं भक्ष्यभोज्य-मगर्हितम्। तत् पर्युषितमप्याद्यं हविःशेषञ्च यद्भ-वेत्” विशेषमाह सएव
“चिरसंस्थितमप्याद्यं सुस्नेहाक्त-मपि द्विजैः” श्रा{??}त॰
“मन्त्राभिमन्त्रितं शस्तं न चपर्युषितं नृप!। अन्यत्र फलशाकेभ्यः शुष्कशाकालिका-त्ततः। तद्वद्वदरिकाभ्यस गुडपक्वेभ्य एव” आह्नित॰
“ग्रहे पर्युषितञ्च यत्” स्मृत्युक्तनिषेधविषये प्रतिप्रसवः उपरागशब्दे दृश्यः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्युषित [paryuṣita], a. Stale, not fresh; शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् Y.1.167; Ms.4.211; Bg.17.1; cf. अपर्युषित.

Insipid.

Stupid.

Vain.

Having passed the night.

Having stood for a time or in some place. -Comp. -भोजिन् m. the eater of stale food. -वाक्यम् a word that has not been strictly kept.

"https://sa.wiktionary.org/w/index.php?title=पर्युषित&oldid=282738" इत्यस्माद् प्रतिप्राप्तम्