सामग्री पर जाएँ

पलाण्डु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाण्डुः, पुं, (पलस्य मांसस्य अण्डमिवाचर- तीति । “मृगय्वादयश्च ।” उणां १ । ३८ । इति कुप्रत्ययात् साधुः ।) मूलविशेषः । पेयाज् इति भाषा । तत्पर्य्यायः । सुकन्दकः २ । इत्य- मरः । २ । ४ । १४७ ॥ लोहितकन्दः ३ । इति रत्नमाला ॥ तीक्ष्णकन्दः ४ उष्णः ५ मुख- दूषणः ६ शूद्रप्रियः ७ कृमिघ्नः ८ दीपनः ९ मुखगन्धकः १० बहुपत्त्रः ११ विश्वगन्धः १२ रोचनः १३ पलाण्डूः १४ सुकुन्दकः १५ । इति शब्दरत्नावली ॥ अस्य गुणाः । कटुत्वम् । बल्यत्वम् । कफपित्तवान्तिदोषनाशित्वम् । गुरुत्वम् । वृष्यत्वम् । रोचनत्वम् । स्निग्धत्वञ्च । इति राजनिर्घण्टः ॥ यथा, भावप्रकाशे । “पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः । पलाण्डुस्तु गुणैर्ज्ञेयो रसोनसदृशो गुणैः ॥ स्वादुपाकरसोऽनुष्णः कफकृन्नातिपित्तलः । हरते केवलं वातं बलवीर्य्यकरो गुरुः ॥” पलाण्डुभक्षणे दोषो यथा, -- “पलाण्डुं विड्वराहञ्च छत्त्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनञ्चैव जग्ध्वा चान्द्रायणञ्चरेत् ॥” इति प्रायश्चित्तविवेके याज्ञवल्क्यः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाण्डु पुं।

पलाण्डुः

समानार्थक:पलाण्डु,सुकन्दक

2।4।147।2।3

प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः। पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः॥

 : हरितपलाण्डुः, लशुनम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाण्डु¦ पु॰ पलस्य मांसस्याण्डमिवाचरति अण्ड + आ-चारे क्विप् न्यङ्क्वा॰ कु। मूलकभेदे (पेयाज)
“पला-ण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः। पलाण्डुलु गुणै-र्ज्ञेयो रसोनसदृशैर्गुणैः। स्वादुपाकरसोऽनुष्णः कफ-कृन्नातिपित्तलः। हरते केवलं वातं बलवीर्य्यकरो गुरुः” भावप्र॰। तद्भक्षणे दोषः
“पलाण्डुं विडवराहञ्चछत्राकं ग्रामकुक्कुटम्। लशुनं गृञ्जनञ्चैव जग्ध्वा चः-न्द्रायणञ्चरेत्” प्रा॰ वि॰। एतज्ज्ञानतः सकृत्। अत्र चपुनरुपयनेमित्याह विष्णुः
“लशुनपलास्तुमृञ्जनतद्ग-[Page4272-a+ 38] न्धिविड्वराहग्रामकुक्कुटनरगोमांसभक्षणे सर्वेष्वेतेषुद्विजातीनां प्रायश्चित्तान्ते भूयः संस्कारं कुर्य्यात्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाण्डु¦ m. (-ण्डुः) An onion. E. पल् to preserve (from disease,) अण्डु aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाण्डु [palāṇḍu], m., n. An onion; लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च । अभक्ष्याणि द्विजातीनाममेध्यप्रभवाणि च ॥ Ms.5.5; Y.1.176.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलाण्डु m. (rarely n. )an onion Mn. MBh. Sus3r. etc. (See. Un2. i , 38 Sch. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a श्रुतऋषि. Br. II. ३३. 6.

"https://sa.wiktionary.org/w/index.php?title=पलाण्डु&oldid=432400" इत्यस्माद् प्रतिप्राप्तम्