पवमानः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवमानः, पुं, (पवते शोधयतीति । पूङ् शोधने + “पूङ्यजोः शानच् ।” ३ । २ । १ । ८ । इति शानच् । “आने मुक् ।” ७ । २ । ८२ । इति मुमागमः ।) वायुः । इत्यमरः । १ । १ । ६६ ॥ (यथा, रघुः । ८ । ९ । “न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव । स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ॥” अग्नेः स्वाहायां जातः पुत्त्रः । यथा, मार्क- ण्डेये । ५२ । २७-२८ ॥ “योसावग्निरभीमानी ब्रह्मणस्तनयोऽग्रजः । तस्मात् स्वाहा सुतान् लेभे त्रीनुदारौजसो द्बिज ! ॥ पावकं पवमानञ्च शुचिञ्चापि जलाशिनम् । तेषान्तु सन्ततावन्ये चत्वारिंशच्च पञ्च च ॥”) निर्मथ्याग्निः । स च गार्हपर्याग्निः । यथा, -- “अथ यः पवमानस्तु निर्म्मथ्योऽग्निः स उच्यते । स च वै गार्हपत्योऽग्निः प्रथमो ब्रह्मणः स्मृतः ॥” इति मात्स्ये ४८ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवमानः [pavamānḥ], [पू-ताच्छील्ये शानच्]

Air, wind; पवमानः पृथिवी- रुहानिव R.8.9.

One of the sacred fires, considered to be the same as गार्हपत्य q. v.; also called पवमानात्मजः

N. of a particular Stotra sung in the Soma-yāga; अथातः पवमानानामेवाभ्यारोहः Bri. Up.1.3.28. -Comp. -सखः fire.

"https://sa.wiktionary.org/w/index.php?title=पवमानः&oldid=285330" इत्यस्माद् प्रतिप्राप्तम्