सामग्री पर जाएँ

पश्चिमा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चिमा, स्त्री, (पश्चिम + टाप् ।) अस्ताचला- वच्छिन्नदिक् । तत्पर्य्यायः । प्रतीची २ वारुणी ३ प्रत्यक् ४ । तद्दिग्भववायुगुणाः । “पश्चिमो मारुतस्तीक्ष्णः कफमेहविशोषणः । सद्यः प्राणहरो दुष्टः शोषकारी शरीरिणाम् ॥” इति राजनिर्घण्टः ॥ अपिच । राजवल्लभः । “पश्चिमोऽग्निवपुर्वर्णबलारोग्यविवर्द्धनः । कषायः शोषणः स्वर्य्यो रोचनो विशदो लघुः ॥ अपां लघुत्ववैशद्यशैत्यवैमल्यकारकः । सर्व्वद्रव्यष्वभिव्यक्तप्रभावरसवीर्य्यकृत् ॥ व्रणसंरोपणस्त्वच्यो दाहशोथतृषापहः ॥” तद्दिगधिपतिर्वरुणः । यथा, अमरे । १ । ३ । १ । “इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् । कुवेर ईशः पतयः पूर्ब्बादीनां दिशां क्रमात् ॥” तद्दिक्पतयो मिथुनतुलाकुम्भराशयश्च । यथा, “प्रागादिककुभान्नाथा यथासंख्यं प्रदक्षिणम् । मेषाद्या राशयो ज्ञेयास्त्रिरावृत्ति परिभ्रमात् ॥” इति ज्योतिस्तत्त्वम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चिमा [paścimā], The west. -Comp. -उत्तरा the north-west.

"https://sa.wiktionary.org/w/index.php?title=पश्चिमा&oldid=500865" इत्यस्माद् प्रतिप्राप्तम्