पाचक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाचकम्, क्ली, (पचतीति । पच् + ण्वुल् । पित्त- रसेन भुक्तद्रव्यपचनादस्य तथात्वम् ।) पित्त- विशेषः । यथा, -- “पाचकं भ्राजकञ्चैव रञ्जकालोचके तथा । साधकञ्चैव पञ्चेति पित्तनामान्यनुक्रमात् ॥” इति शब्दचन्द्रिका ॥ षाचकादीनां स्थानान्याह । “अग्न्याशये यकृत्प्लीह्नोर्हृदये लोचनद्बये । त्यचि सर्व्वशरीरेषु पित्तं निवसति क्रमात् ॥” अथ तेषां कर्म्माण्याह । “पाचकं पचते भुक्तं शेषाग्निबलवर्द्धनम् । रसमूत्रपुरीषाणि विरेचयति नित्यशः ॥” इति भावप्रकाशः ॥ (“पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम् । पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात् ॥ त्यक्तद्रवत्वं पाकादिकर्म्मणानलशब्दितम् । पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा ॥ तत्रस्थमेव पित्तानां शेषानामप्यनुग्रहम् । करोति बलदानेन पाचकं नाम तत् स्मृतम् ॥” इति वाभटे सूत्रस्थाने द्वादशाध्याये ॥)

पाचकः, पुं, (पचतीति । पच् + ण्वुल्ं ।) अग्निः । इति हलायुधः ॥ (“तच्चादृष्टहेतुकेन विशेषेण पक्वामाशयमध्यस्थं पित्तं चतुर्व्विधमन्नपानं पचति विरेचयति च रसदोषमूत्रपुरीषाणि तत्रस्थमेव चात्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चाग्निकर्म्मणानुग्रहं करोति तस्मिन् पित्ते पाचकोऽग्निरिति संज्ञा ।” इति सुश्रुते सूत्रस्थाने एकविंशेऽध्याये ॥) त्रि, सूपकारः । पाककर्त्ता । यथा, -- “पुत्त्रपौत्त्रगुणोपेतः शास्त्रज्ञो मिष्टपाचकः । शूरश्च कठिनश्चैव सूपकारः स उच्यते ॥” इति चाणक्यम् ॥ अन्नादिपाककारकौषधादिश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाचक¦ त्रि॰ पच--ण्वुल्।

१ पाककर्त्तरि तद्वृत्तियुक्ते

२ सूप-कारे च।

३ अग्नौ हलायु॰ तस्य जठराग्निरूपेण वाह्या-न्नादेश्च पाचकत्वात्तथात्वम्

३ पित्ताख्ये धातौ भावप्र॰
“पाश्चकं रञ्जकं चापि साधकालोचके तथा। भ्राजक-ञ्चेति पित्तस्य नामानि स्थानभेदतः” भावप्र॰। तत्कार्य-भेदश्च पित्तशब्दे दृश्यः। अन्नादौ विषदानादिपरि-जिहीर्षया गृपादिभिर्यथा पाचकः वैद्याद्यधिष्ठितःकरणीयस्तथा सुश्रुते कल्पस्थाने दर्शितं यथा
“विषैर्निहन्युर्निपुणं नृपतिं दुष्टचेतसः। स्त्रियो वाविविधान् योगान् कदाचित्सुभगेच्छया। विषकन्योपयो-गाद्वा क्षणाज्जह्यादसून्नरः। तस्माद्वैद्येन सततं विषा-द्रक्ष्यो नराधिपः। यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितंनृणाम्। न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित्। कुलीनं धार्मिकं स्निग्धं सुभृतं सततोत्थितम्। अलुब्धम-शठं भक्तं कृतज्ञं प्रियदर्शनम्। क्रोघपारुष्यमात्सर्य्यम-दालस्यविवर्जतम्। जितेन्द्रियं क्षमावन्तं शुचिं शी-लदयान्वितम्। मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम्। पटुंपगल्भं निपुणं दक्षं मायाविवर्जितम्। पूर्वोक्तैश्चगुणैर्युक्तं नित्यं सन्निहितागदम्। महानमे पयुञ्जात{??} त{??}द्यपूजितम्। प्रशस्तदिग्देशकृत शुचिभाण्डं[Page4287-a+ 38] महच्छचि। सजालकं गवाक्षाढ्यमात्मवर्गनिषेवितम्। विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम्। परीक्षितस्त्री-पुरुषं भवेच्चापि महानसम। तत्राध्यक्षं नियुञ्जीत प्रायोवैद्यगुणान्वितम्। शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः। संविभक्ताः सुमनसी नीचकेशनखाः स्थिराः। स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयताः। तस्यचाज्ञाविज्ञेयाः स्युर्विविधाः परिकर्मिणः। आहारस्थि-तयश्चापि भवन्ति प्राणिनो यतः। तस्मान्महानसे वैद्यःप्रमादरहितो भवेत्। माहानसिकवोढारः सौपौदनिक-पौपिकाः। भवेयुवैद्यवशगा ये चाप्यन्ये तु केचन। इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः। विद्याद्विषस्यदातारमेभिर्लिङ्गैश्च बुद्धिमान्। न ददात्युत्तरं पृष्टोविवक्षन् मोहमेति च। अपार्थं बहुसङ्कीर्णं भाषतेचापि मूढवत्। स्फोटयत्यङ्कुलीर्भूमिमकस्माद्विलिखेद्व-सेत्। वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते। क्षामोविवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि। आलभेतासकृ-द्दीनः करेण च शिरोरुहान्। निर्यियासुरपद्वारैर्वीक्षतेच पुनः पुनः। वर्त्तते विपरीतस्तु विषदाता विचेतनः। केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया। असता-मषि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः। तस्मात् परीक्षणंकार्यं भृत्यानामादितो नृपैः। अन्ने षाने दन्वकाष्ठेतथाभ्यङ्गेऽवलेखने। उत्सादने कषाये च परिषेकेऽनु-लेपदे। स्रक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च। पादु-कापादपीठेषु पृष्टेषु गजवाजिनाम्। विषजुष्टेषु चा-न्येषु नस्यधूमाञ्जनादिषु। लक्षणानि प्रवक्ष्यामि चिकि-त्सामप्यनन्तरम्”।

४ भुक्तान्नपाचकौषधादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाचक¦ mfn. (-कः-का-कं)
1. What produces maturity.
2. What cooks or dresses.
3. Digestive, tonic, what effects digestion. n. (-कं) The bile which assists in digestion. m. (-कः)
1. Fire.
2. A cook. E. पच् to ripen or concoct, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाचक [pācaka], a. [पच्-ण्वुल्]

Cooking, baking.

Maturing, bringing to maturity.

Digestive, tonic.

कः A cook.

Fire. -कम् Gall, bile. -Comp. -स्त्री a female cook.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाचक mf( इका)n. cooking , roasting , baking MBh. Ka1v. etc.

पाचक mf( इका)n. causing digestion , digestive Sus3r.

पाचक mf( इका)n. bringing to maturity Tattvas.

पाचक m. a cook Gr2ihya1s. , ( f( इका). a female cook ; See. below)

पाचक m. fire L.

पाचक चनetc. See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=पाचक&oldid=287946" इत्यस्माद् प्रतिप्राप्तम्