पाटलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाटलः, पुं, (पाटयतीति । पट + णिच् + वृषादि- त्वात् कलच् ।) श्वेतरक्तवर्णः । गोलाविरङ्ग इति भाषा । आशुधान्यम् । इत्यमरः ॥ अस्य गुणाः । अत्युष्णत्वम् । बद्धनिष्यन्दित्वम् । त्रिदोष- कारित्वञ्च । इति राजवल्लभः ॥ तद्बर्णयुक्ते, त्रि ॥ (यथा, रघौ । २ । २९ । “स पाटलायां गवि तस्थिवांसं धनुर्द्धरः केशरिणं ददर्श । अधित्यकायामिव धातुमत्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पाटलः&oldid=147918" इत्यस्माद् प्रतिप्राप्तम्