सामग्री पर जाएँ

पाठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठः, पुं, (पठनमिति । पठ + भावे घञ् ।) विधिना वेदस्याभ्यसनम् । (पठ + णिच् + भावे घञ् ।) शिष्याणामध्यापनम् । तत्पर्य्यायः । महायज्ञः २ ब्रह्मयज्ञः ३ पठनम् ४ पाठना ५ पाठनम् ६ अध्ययनम् ७ अध्यापनम् ८ अध्या- पना ९ अभ्यसनम् १० । इत्यमरभरतौ ॥ निपाठः ११ निपठः १२ । इति सङ्कीर्णवर्गे अमरः ॥ * ॥ माहात्म्यादिपाठे तु ओ~ नारा- यणाय नमः ओ~ नराय नमः ओ~ नरोत्तमाय नमः ओ~ देव्यै नमः ओ~ सरस्वत्यै नमः ओ~ व्यासाय नमः । इति नत्वा पाठ्यम् । “नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥” इति विधेः ॥ एवञ्च भागवतीयसूतोक्तौ उदीरयेत् इत्यस्य स्वयन्तथा उदीरयन्नन्यान् पौराणिकानुपशिक्ष- यतीति श्रीधरस्वामिव्याख्यानमनुशासनविरुद्धम् । चैवेति भारतपाठाच्चकारेण व्यासो लब्धः । भागवते चैवेत्यत्र व्यास इति साक्षाल्लिखितम् । जयपदार्थमाह ब्रह्मचारिकाण्डे भविष्यपुराणम् ॥ “अष्टादशपुराणानि रामस्य चरितन्तथा । विष्णुधर्म्मादिशास्त्राणि शिवधर्म्माश्च भारत ! ॥ कार्ष्ण्यञ्च पञ्चमो वेदो यन्महाभारतं स्मृतम् ॥” कार्ष्ण्य कृष्णद्वैपायनप्रणीतम् । “सौराश्च धर्म्मा राजेन्द्र मानवोक्ता महीपते । जयेति नाम एतेषां प्रवदन्ति मनीषिणः ॥” जयव्यनेन संसारमिति जयस्तत्तद्ग्रन्थः । एव- ञ्चार्थानवलोकनात् आचाराद्बा स्तोत्रादावेष श्लोकः पठ्यते । मत्स्यसूक्ते वाराहीतन्त्रे च । “प्रणवञ्चादौ जप्त्वा च स्तोत्रं वा संहितां पठेत् । अन्ते च प्रणवं दद्यादित्युवाचादिपूरुषः ॥ सर्व्वत्र पाठे विज्ञेयो ह्यन्यथा विफलं भवेत् । शुद्धेनानन्यचित्तेन पठितव्यं प्रयत्नतः ॥ न कार्य्यासक्तमनसा कार्य्यं स्तोत्रस्य वाचनम् । आधारे स्थापयित्वा तु पुस्तकं वाचयेत् सुधीः ॥ हस्तसंस्थापनादेव यस्मादल्पफलं भवेत् । स्वयञ्च लिखितं यत्तु कृतिना लिखितन्न यत् ॥ अब्राह्मणेन लिखितं तच्चापि विफलं भवेत् । ऋषिच्छन्दादिकं न्यस्य पठेत् स्तोत्रं विचक्षणः ॥ स्तोत्रे न दृश्यते यत्र प्रणवन्यासमाचरेत् । सङ्कल्पिते स्तोत्रपाठे संख्यां कृत्वा पठेत् सुधीः ॥ अध्यायं प्राप्य विरमेन्न तु मध्ये कदाचन । कृते विरामे मध्ये तु अध्यायादिं पठेन्नरः ॥” न्तरे । अत्र पूर्ब्बवचनमुत्तरमीमांसाध्यायिभिः परिगृहीतम् । परवचनन्तु अन्यग्रन्थपरम् । यत्तु निर्णयामृतधृतम् । “प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी । दिनं दूषयते सर्व्वं सुरा गव्यघटं यथा ॥” तद्दूषयत इत्यभिधानात् पूर्ब्बवर्त्तितामात्रेण सर्व्वदिनदूषणाय । राजमार्त्तण्डे । “प्रे को चै चा द्वितीयास्ताः प्रेतपक्षे गते तु या । या तु कोजागरे जाते चैत्रावल्याः परेऽपि या ॥ चातुर्मास्ये समाप्ते च द्वितीया या भवेत्तिथिः । सर्व्वास्वेतास्वनध्यायः पुराणैः परिकीर्त्तितः ॥” इति तिप्यादितत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठ पुं।

ब्रह्मयज्ञः

समानार्थक:पाठ

2।7।14।1।1

पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः। एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः॥

पदार्थ-विभागः : , क्रिया

पाठ पुं।

पठनम्

समानार्थक:निपाठ,निपठ,पाठ

3।2।29।1।3

निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने। आदीनवास्रवौ क्लेशे मेलके सङ्गसङ्गमौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठ¦ पु॰ पठ--भावे घञ्।

१ शास्त्रादेरभ्यासे पौनःपुन्येन उ-च्चारणे। णिच्--भावे अच्।

२ अध्यापने शिष्येभ्यः प्र-तिपादने च पाठस्वाष्टादश दोषा यथा
“शङ्कितं भीतमु-द्घुष्टमव्यक्तमनुनासिकम्। विस्वरं विरसञ्चैव विश्लिष्टंविसमाहतम्। काकस्वरं निरसितं तथा स्थानविव-र्जितम्। व्याकुलं तालहीनञ्च पाठदोषाः चतुर्दश। संगीतं शिरसः कम्पमल्पकण्ठमनर्थकम्” मार्क॰ पु॰। अध्य-यनक्रमो यथा
“आचस्य प्रयतो नित्यमधीयीत उदङ्-मुखः। उपसगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम्” अध्यापनक्रमो यथा
“अधीष्व भो इति ब्रूयाद्विरामो-ऽस्त्विति चाचमेत्। प्राक् कूलात् पर्यु पासीनः पवित्रैश्चैवपावितः। प्राणायामैस्त्रिभिः पूतस्तत आं कारमर्हति। ब्राह्मणः प्रणवं कुर्य्यादन्ते च विधिवद्द्विजाः!। कुर्य्या-दध्यापनं नित्यं स ब्रह्मादीनि पूर्वतः। सर्वेषामेव भू-तानां वेदश्चक्षुः सनातनः। अधीयीताध्ययन्नित्यं ब्राह्म-ण्याद्वीयतेऽन्यथा” इति कौर्मे उपरिभागे



३ अ॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठ¦ m. (-ठः)
1. Studying the Ve4das scriptures, considered as one of the five great sacraments of the Hindus.
2. Reading, perusal or study in general. f. (-ठा) A plant, commonly Akana4di. E. पठ् to read, aff. भावे घञ्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठः [pāṭhḥ], [पठ्-भावे घञ्]

Reciting, recitation, repeating.

Reading, perusal, study.

Studying or reciting. the Vedas (ब्रह्मयज्ञ), one of the five daily Yajñas or sacrifices to be performed by Brāhmaṇas.

A particular method of reciting the text of the Veda (of which there are five: संहिता, पद, क्रम, जटा and घन).

The text of a book, a reading, variant; अत्र गन्धवद् गन्धमादनम् इति आगन्तुकः पाठः । प्राचीनपाठस्तु सुगन्धिर्गन्धमादनः इति पुल्लिङ्गान्तः Malli. on Ku.6.46. -Comp. -अन्तरम् another reading, a variant (v. l.) -क्रमः the order determined or expressed by the recitation or the statement; यः पाठक्रमः स एव नियम्येत ŚB. on Ms.5.1.4. -छेदः a pause, caesura. -दोषः a false reading. -निश्चयः determining the text of a passage. -भूः f. a place where the Vedas are learnt. -मञ्जरी, -शालिनी the Sārikā bird. -शाला a school, college, seminary. -शालिन् m. a pupil.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठ m. ( पठ्)recitation , recital Ka1v.

पाठ m. reading , perusal , study ( esp. of sacred texts) S3iksh. etc.

पाठ m. a partic. method of reciting the text of the वेद(of which there are 5 , viz. संहिता, पद, क्रम, जटाand घनRTL. 409 )

पाठ m. the text of a book , S3rS. MBh.

पाठ m. the reading (of a text) Naish. Sch.

पाठ m. = धातु-पा-ठVop.

"https://sa.wiktionary.org/w/index.php?title=पाठ&oldid=500882" इत्यस्माद् प्रतिप्राप्तम्