पाठा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठा, स्त्री, (पठ्यते बहुगुणवत्तया कथ्यते इति । पठ + कर्म्मणि घञ् । अजादित्वात् टाप् ।) लताविशेषः । आकनादि इति भाषा । तत्- पर्य्यायः । अम्बष्ठा २ अम्बष्ठिका ३ प्राचीना ४ पापचेलिका ५ यूथिका ६ स्थापनी ७ श्रेयसी ८ विद्धकर्णिका ९ एकाष्ठीला १० कुचेली ११ दीपनी १२ वनतिक्तिका १३ तिक्तपुष्पा १४ बृहत्तिक्ता १५ शिशिरा १६ वृकी १७ मालती १८ वरा १९ देवी २० वृत्तपर्णी २१ । अस्या गुणाः । तिक्तत्वम् । गुरुत्वम् । उष्णत्वम् । वातपित्तज्वरपित्तदाहातीसारशूलनाशित्वम् । भग्नसन्धानकारित्वञ्च । इति वैद्यकम् ॥ * ॥ “अम्बष्ठा बालिका बाला शठाम्बा बालिका- म्बिका । अम्बा च माचिका चैव दृढवल्का मयूरिका ॥ गन्धपर्णी चित्रपुष्पी श्रेयसी सुखवाचिका । छिन्नपत्री भूरिमल्लिर्विज्ञेया षोडशाह्वया ॥ अम्बष्ठा सकषायाम्ला कफकण्ठरुजापहा । वातामयवलासघ्नी रुचिकृद्दीपनी परा ॥” इति राजनिर्घण्टः ॥ “पाठाम्बष्ठाम्बष्ठकी च प्राचीना पापचेलिका । एकाष्ठीला रसा प्रोक्ता पाठिका वरतिक्तिका ॥ पाठोष्णा कटुका तीक्ष्णा वातश्लेष्महरी लघुः । हन्ति शूलज्वरच्छर्द्दिकुष्ठातीसारहृद्रुजः ॥ दाहकण्डूविषश्वासकृमिगुल्मगलव्रणान् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठा¦ स्त्री पठ--कर्मणि घञ् टाप्। विद्धकर्ण्याम् (आकनादि)अमरः।
“पाठोष्णा कटुका तीक्ष्णा वात्रश्लेष्महरीलघुः। हन्ति शूलज्वरच्छर्दि कुष्ठातीसारहृद्रुजः। दाहकण्डूविषश्वासकृमिगुल्मगलव्रणान्” भावप्र॰। स्वार्थे ककाबि अतैत्त्वम्। पाठिका तत्रार्थे भावप्र॰। पाठक-र्त्त्र्यां स्त्रियां च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठा f. Clypea Hernandifolia L.

"https://sa.wiktionary.org/w/index.php?title=पाठा&oldid=288945" इत्यस्माद् प्रतिप्राप्तम्