पाठ्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाठ्यम्, त्रि, (पठ्यते इति । पठ + “ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् ।) पठनीयम् । पठितव्यम् । यथा, -- “तिष्ठ रे तिष्ठ कण्ठोष्ठं कुण्ठयामि हठादहम् । अपष्ठु पठतः पाठ्यमधिगोष्ठि शठस्य ते ॥” इति नैषधे १७ सर्गः ॥

"https://sa.wiktionary.org/w/index.php?title=पाठ्यम्&oldid=147959" इत्यस्माद् प्रतिप्राप्तम्