पात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातः, पुं, (पत + घञ् ।) पतनम् । (यथा, महाभारते । ३ । १३३ । २६ । “वडवे इव संयुक्ते श्येनपाते दिवौकसाम् । कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ॥”) त्राते, त्रि । इति मेदिनी ॥ (पातयति चन्द्र- सूर्य्यौ छादयतीति । पत + णिच् + अच् ।) राहुः । यथा, -- “ताडितः खदहनैर्द्दिनसङ्ख्यः षट्कषट्कशरहृत्फलमांशाः । स्वं ध्रुवे कुमुदिनीपतिपातो राहुमाहुरिह केऽपि तदेव ॥” इति सिद्धान्तशिरोमणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात¦ पु॰ पातयति ग्रहमुत्तरा दक्षिणा वा पाति--अच्। रविभिन्नग्रहाणां दक्षिणोत्तराकर्षके अदृश्यरूपे काल-मूर्त्तिरूपे सू॰ सि॰ उक्ते भचक्रस्थिते

१ जीवभेदे तदधिष्ठा-तृदेवे

२ राहौ च। पातस्य तथात्वमुच्चशब्दे सू॰ सि॰वाक्ये दर्शितम्। तस्य ग्रहाणां दक्षिणोत्तराकर्षकत्वंच तत्रोक्तं यथा
“दक्षिणोत्तरतोऽप्येवं पातो राहुःस्वरंहसा। विक्षिपत्येष विक्षेषं चन्द्रादीनामपक्रमात्” सू॰ सि॰
“चन्द्रादीनां विरविग्रहाणामपक्रमात् क्रान्ति-वृत्तस्थस्पष्टग्रहभोगस्थानाद्दक्षिणोत्तरतो दक्षिणस्यामु-त्तरस्यां वा दिशि। अपिशब्दः पूर्वापराभ्यां समुच्चया-र्थकः। एष गणितागतः पातः पातराश्यादिभोग-स्थानम्। अत्राप्यपिशब्द उच्चेन समुच्चयार्थकोऽन्वेति। यथोच्चेन पूर्वापरयोः फलान्तरं भवति तथेत्यर्थः। विक्षेपं विक्षेपणं स्वरंहसात्मवेगेन विक्षिपति करोति। विशिष्टवाचकानां पदानां विशेषणवाचकपदसमवधानेविशेष्यमात्रार्थत्वात् चन्द्रादीन् विक्षिपति तात्पर्य्यार्थः। ननूच्चेन स्वाधिष्ठितजीवद्वारा ग्रहाकर्षणंक्रियते तथा पातेनाचेतनत्वाद्वेगाभावेन ग्रहविक्षेपणंकर्तुमशक्यमित्यत आह राहुरिति। पातस्थानाधि-ष्ठात्री देवता राहुर्जीवविशेषश्चन्द्रपातस्तु दैत्यविशेषोराहुः। रहतित्यजति ग्रहमिति राहुरिति व्यु-त्पत्तेः। अथैतद्विशदयति” रङ॰
“उत्तराभिसुखं पातोविक्षिपत्यपरार्द्धगः। ग्रहं प्रागभगणार्धस्यो ग्राम्याया-[Page4297-b+ 38] मपकर्षति” सू॰ सि॰
“अपरार्द्धगो ग्रहस्थानात् पश्चिम-विभागस्थितभगणार्द्धात्मकराशिषट्कस्थिती राहुर्ग्र हविम्बंस्वराश्यादिभोगस्थानीयप्रदेशादुत्तरदिगभिमुखं विक्षि-पति विक्षेषान्तरेण त्यजति। प्राग्भगणार्धस्थः ग्रह-स्थानात् पूर्वविभागस्थितराशिषट् कमध्यस्थिती दक्षिणस्यांदिश्यपकर्षति विक्षिपति। अथ बुधशुक्रयोर्विशेष-माह” रङ्ग॰
“बुधभार्गवयोः शीघ्रात् तद्वत् पातो यदास्थितः। तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्त-वत्” सू॰ सि॰
“बुधशुक्रयोः शीघ्रोच्चाज्जात्यभिप्रायेणै-कवचनम्। तद्वत् परार्द्धपूर्वार्द्धभगणार्द्धमध्ये यदातत्काले स्थितस्तुकारात् यत्काले पाताभ्यादित्यर्थः। तौ बुधशुक्रौ यथोक्तवत् पूर्वार्द्धपरार्द्धक्रमेण दक्षि-णोत्तरयोर्विक्षिप्येते विक्षेपान्त ण त्यज्येते। तथाहि स्वशीघ्रोच्चाद्बुधशुक्रयोर्यदनरं राश्यात्मकं तद्वत्पातस्तेनान्तरेण युक्तः पूर्वानी{??}पात इत्यर्थः। यथाबुधशुक्रयोरपरपूर्वार्द्धक्रमेण स्थितोऽवस्थितस्तुकारात्तथेत्यर्थः। तच्छीघ्रकर्षणात् तादृशपाताभ्यां शीघ्रंवेगेनाकर्षणं तस्मात् पातस्थानाधिष्ठातृदेवताभ्यां स्वहस्त-स्थितग्रहसम्बद्धवायुसूत्रस्यातिबेगाकर्षणरचनादित्यर्थः। तौ बुधशुक्रावुक्तवदुत्तरदक्षिणक्रमेण विक्षिप्येते। अत्रपातशब्देन चक्रशोधितपातो बोध्यः। अन्यथा ग्रहोनशीघ्रोच्चरूपकेन्द्रयोजनस्योपपत्तिसिद्धत्वेन शीघ्रोच्चोनग्रह-रूपकेन्द्रयोजनोक्त्यनुपपत्तेः। तथा च सर्वग्रहसाधा-रणं विक्षेपकथनं पातभेददर्शनार्थं बुधशुक्रयोः पृगगु-क्तम्। न ह्यन्यस्मिन् पक्ष उच्चयोर्विक्षेपणं प्रतीयते येनप्रागुक्तसर्वविलीपाशङ्कनं शङ्कनीयम्। पातभेदोक्तिका-रणं च
“ये चात्र पातभगणाः कथिता ज्ञभृग्वीः तेशीघ्रकेन्द्रभगणैरधिका यतः स्युः। स्वल्पाः सुस्यार्थमु-दिताश्चलकेन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ” इति भास्कराचार्य्योक्तमिति दिक्” रङ्ग॰। अत्रेदं बोध्यं रवेः स्वतएव दक्षिणोत्तरयोर्गमनसम्भवात्नास्य पातेन विक्षेपणापेक्षेति विरविग्रहाणामित्युक्तम्। तत्र युगे चन्द्रपातभगणाः
“चन्द्रोच्चस्याग्निशून्याश्विवसुस-र्पार्णवा युगे। वामं पातस्य वस्वग्नियमाश्विशिखिदस्रकाः” सू॰ सि॰
“चन्द्रमन्दोच्चस्य पूर्वगतेरदृश्यरूपस्य भगणामहायुगे रामनखाष्टाष्टवेदमिताः। पातस्य चन्द्रशब्दस्यसन्निहितत्वाच्चन्द्रपातस्यादृश्यरूपस्य वामं पश्चिमगत्याहादशराशिभागात्मकपरिवर्त्तरूपभगणा महायुगे वसु-[Page4298-a+ 38] रामाकृतिरामद्विमिताः। अत्र युगग्रहणं वक्ष्यमाणग्र-होच्चपातभगणसम्बन्धिकल्पकालवारणार्थम्। ग्रहोच्च-पातभगणास्तु युगे युगे नोत्पन्ना इत्यस्मिन् युगसम्बन्धि-प्रसङ्गेनोक्ताः” रङ्ग॰। कल्पे भौमादिपातानां भगणास्तुतत्रोक्ता यथा
“पातानामथ वामतः” इत्युपक्रमे
“अथा-नन्तरं पातानां भौमादिपातानां वामतः पश्चिमगन्थाभगणा उच्यन्त इति शेषः। तान् श्लोकाभ्यामाह” रङ्ग॰
“मनुदस्रास्तु कौजस्य, बौधस्याष्टष्टसागराः। कृताद्रिचन्द्राजैवस्य त्रिखाङ्काश्च भृगोस्तथा। शनिपातस्य भगणाःकल्पे यमरसर्तवः। भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्च-पातयोः” सू॰ सि॰
“कौजस्य कुजसम्बन्धिनः। तुकारात्पातस्य भौमपातस्य कल्पे भगणाश्चतुर्दशाधिकं शतद्व-यम्। बौधस्य बुधसम्बन्धिनः शनिपातस्यैत्यस्यैकदेशपात-स्येत्यत्रान्वेति। बुधपातस्य द्वादशोना पञ्चशती। जैवस्यगुरुपातस्य चतुःसप्तत्यधिकं शतम्। भृगोः शुक्रस्यतथा सम्बन्धिनश्चकारात्पातस्य शुक्रपातस्येत्यर्थः। त्र्यधिका नवशती। शनिपातस्य द्विरसषट्का भगणाःकल्पे भवन्ति। नन्वस्मिन् प्रसङ्गे चन्द्रोच्चपातयोर्भगणाःकथं नोक्ता इति मन्द्राशङ्कापाकरणाय पूर्वोक्तं स्मार-यति भगणा इति। चन्द्रोच्चपातयोश्चन्द्रण मन्दोच्चपात-योर्मगणा अत्रास्मिन्नधिकारे पूर्वं अहयुगगगणकथनेउक्ताः” रङ्ग॰। पतति चन्द्रार्कयोः क्रान्तिसाम्येन उत्ति-ष्ठति षत--ज्वला॰ कर्त्तरि ण। सूर्य्यसिद्धान्तोक्ते चन्द्रा-र्कयोः क्रान्तिसाम्येनानानीते अशुभसूचके महापा-तरूपे

३ वह्निभेदे तथा हि
“तत्र भेदद्वयात्मकपा-तस्य सम्भबं विवक्षुः प्रथमम् वैधृतसंज्ञपातस्य सम्भव-माह” रङ्ग॰
“एकायनगतौ स्यातां सूर्याचन्द्रमसौयदा। तद्युतौ मण्डले कान्त्योस्तुल्यत्वे वैधृताभिधो” सू॰ सि॰। सूर्याचन्द्रौ
“सूर्य्याचन्द्रमसौ धाता यथा-पूर्वमक्तल्पयदिति” श्रुत्युक्तप्रयोगः। एकायनगतौ अभि-न्नदणिणोत्तरान्यतरायनस्थौ भवतस्तत्र यदा यस्मिन्काले तद्युतौ सूर्यचन्द्रयोर्भाद्योर्योगे मण्डले द्वादश-राशिमिते सति तदा तयोः क्रान्त्योः समत्वे महापात-रूपै वैधृतसंज्ञः पातो भवति। अथ ष्यतीपातसंज्ञपातस्यसम्भवमाह” रङ्ग॰
“विपरीतायनगतौ चन्द्रार्कौ क्रान्ति-लिप्तिकाः। समास्तदा व्यतीपातो भगणार्थे तयी-र्युलौ” सू॰ सि॰
“चन्द्रार्कौ विपरीतायनगतौ भिन्नायनस्थौमवतस्तत्र य{??} तवोः सूर्यचन्द्रयोर्भाद्योर्योगे भगणार्द्धे[Page4298-b+ 38] राशिषट्के सति तयोः क्रान्तिकलास्तुल्या भवन्तितदा तस्मिन् काले व्यतीपातसंज्ञकः पातो भवति”
“ननुक्रान्त्योः साम्ये कथं पातो भवतीत्यत आह” रङ्ग॰।
“तुल्यांशुजालसम्पर्कात् तयोस्तु प्रवहाहतः। तद्दृक्क्रोधभवो वह्निर्लोकाभावाय जायते” सू॰ सि॰।
“तयो-श्चन्द्रसूर्य्ययोः। तुकारात् क्रान्तिसाम्यकाणिकयोः। तुल्यांशुजालसम्पर्कात् समकिरणानां जालं समूहस्तयो-रन्योन्याभिमुखयोः सम्पर्कात् एकीभावापन्नत्वात्तद्दृक्क्रोधभवः सूर्य्यचन्द्रयोरन्योन्याभिमुखयोर्दृक्क्रोधोविम्बकेन्द्रयोर्दृग्रूपोयो क्रोधः परस्पराभिमुखेन दोप्त्या-धिक्यं तदुत्पन्नोऽग्निः। प्रवहाहतः प्रवहवायुप्रज्व-लितः लोकाभावाय जनानामशुभफलाय जायते। अथायं वह्निर्व्यतीपाताख्यो वैधृताख्यो वेत्यत आह” रङ्गना॰।
“विनाशयति पातोऽस्मिन् लोकानामसकृद्यतः। व्यतीपातः प्रसिद्धोऽयं संज्ञाभेदेन वैधृतिः” सू॰ सि॰।
“अस्मिन् क्रान्तिसाम्यकाले प्रसिद्धः पूर्वश्लोकोक्तस्वरूपःपातो वह्निः, यतः कारणात् असकृत् स्वसम्भवेन वारंवारम् लोकानां विनाशयति। नाशं करोति। अतःकारणादयं वह्निर्व्यतीपातसंज्ञोऽयमेवाग्निः संज्ञाभेदेननामान्तरेण बैधृतिसंज्ञः। तथा चोभयत्र पाताख्योवह्निर्भवतीति भावः। अथ तत्स्वरूपमाह” रङ्गना॰।
“स कृष्णो दारुणवपुर्लोहिताक्षो महोदरः। सर्वानिष्टःकरो रौद्रो भूयो भूयः प्रजायते” सू॰ सि॰।
“सक्रान्तिसाम्यकालोत्पन्न उभयसंज्ञकः पाताख्योऽग्निपुरुषःकृष्णः श्यामः, दारुणवषुः कठिनशरीरः, लोहिताक्षआरक्तनेत्रः, महोदरः पृथूदरः। अतएव सर्वानिष्ट-करः सर्वलोकानामशुभकारकः, रौद्रः क्षयकारकः,भूयोभूयोऽनेकवारम् प्रजायते। प्रत्येकं क्रान्तिसाम्य-काल उत्पन्नो भवतीत्यर्थः” रङ्गना॰। उपयमशब्दे

१२

६५ पृ॰ तद्भेदादिकं दृश्यम् भावे घञ्। सि॰ शि॰ टी॰ उक्ते

४ प्रतिमण्डलविमण्डलयोः संपाते मेलनेच
“पातो नाम प्रतिमण्डलविमण्डलयोः संपातः। थस्मादारभ्य विक्षेपप्रवृत्तिः। इह सुसरलवंशशलाकयाकक्षामण्डलं तत्प्रतिमण्डलं च छेद्यकोक्तविधिना विर-चय्य तत्र शीघ्रप्रतिमण्डले मेषादेः प्रतिलोभं पातस्थानंच चिह्नयित्वा तत्र विमण्डलं निवेश्यम्। पातचिह्ना-द्राशिषट्कान्तरे विमण्डलप्रतिमण्डलयोरन्यं संपातंकृत्वा पातात् पूर्वतस्त्रिभेऽन्तरे पठितविक्षेपप्रमाणेन[Page4299-a+ 38] प्रतिमण्डलादुत्तरतो विमण्डलं केनचिदाधारेण स्थिरंकृत्वा मेषादेरनुलोमं मन्दस्फुटं ग्रहं प्रतिमण्डले वि-मण्डले च दत्त्वा विक्षेपोपपत्तिं दर्शयेत्। तत्र तयो-र्ग्रहयोर्यावान् विप्रकर्षस्तावांस्तत्र प्रदेशे विक्षेपः। अथतस्यानयनम्। पातस्थाने हि विक्षेपाभावः। ततस्त्रिभे-ऽन्तरे परमी विक्षेपः। अन्तरेऽनुपातेन। अतः पात-ग्रहचिह्नयोरन्तरं तावज्ज्ञेयम्। तच्च तयोर्योगे कृते-भवति। यतो मेषादेरनुलोमं ग्रहो दत्तः। पातस्तु प्रति-लोमम्”। गणितागतपातकाले कृत्याकृत्ये
“पातस्थिति-कालान्तर्मङ्गलकृत्यं न शस्यते तज्ज्ञैः। स्नानजपहोम-दानादिकमत्रोपैति खलु वृद्धिम्” सि॰ शि॰ उक्ते। पत--घञ् भावे

५ पतने। दृष्टिपातः सूत्रपात इत्यादि। पत--ज्वला॰ कर्त्तरि ण।

६ पतनकर्त्तरि त्रि॰। पा-रक्षणे कर्म्मणि घञ्।

७ त्राते त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात¦ mfn. (-तः-ता-तं) Preserved, protected. E. पा to preserve, aff. क्त। m. (-तः)
1. Falling, alighting, descending.
2. A name of Ra4hu.
3. The node of a planet's orbit.
4. Flying, flight.
5. A stroke, as in खङ्गपात |
6. Shedding, emitting, discharging.
7. An attack, an inroad.
8. Happening.
9. Failing, defect.
10. Destruction, dissolution. E. पत् to fall, aff. घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात [pāta], p. p. Protected, guarded &c.; see पा.

पातः [pātḥ], [पत्-घञ्]

Flying, flight.

Alighting, descending, descent.

Falling down, fall, downfall (fig. also); द्रुम˚, गृह˚; &c. चरणपातः 'falling down at the feet'; तस्याभवत् क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टि- पातः R.11.92; पातोत्पातौ 'rise and fall.'

Destruction, dissolution, ruin; आसीनमासन्नशरीरपातस्त्रियम्बकं संयमिनं ददर्श Ku.3.44.

A blow, stroke; as in खड्गपातः.

Shedding, discharging, emitting; असृक्पातैः Ms.8.44.

A cast, throw, shot; कुरुष्व तावत् करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम् R.13.18.

An attack, inroad.

Happening, coming to pass, occurrence.

A failing, defect.

An epithet of Rāhu; दक्षिणोत्तरतो$प्येवं पातु राहुः स्वरंहसा । विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात् ॥ Sūrya S.

(In astr.) An inauspicious or malignant position or aspect.

The node in a planet's orbit.

Application (of ointment, of a knife &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पात mfn. (for 2. See. p. 616 , col. 3) watched , protected , preserved L.

पात m. (for 1. See. under 3. पा)flying , mode of flying , flight MBh.

पात m. throwing one's self or falling into( loc. )or from( abl. ) , fall , downfall (also ifc. after what would be a gen. or abl. etc. e.g. , गृह-, fall of a house ; पर्वत-, fall from a mountain ; भू-, fall on the earth) Mn. MBh. Ka1v. etc.

पात m. alighting , descending or causing to descend , casting or throwing upon , cast , fall (of a thunderbolt) , throw , shot MBh. R. Pan5cat.

पात m. a stroke (of a sword etc. ) Katha1s.

पात m. application (of ointment , of a knife etc. ) Ka1vya7d.

पात m. casting or directing (a look or glance of the eyes) Ragh.

पात m. decay of the body( देह-पात) , death Katha1s. Ba1dar.

पात m. (with गर्भस्य)fall of the fetus , miscarriage Sus3r.

पात m. an attack , incursion Var.

पात m. a case , possibility , S3a1n3khBr.

पात m. happening , occurrence , appearance Prab. Katha1s. Das3ar.

पात m. a fault , error , mistake Su1ryas.

पात m. the node in a planet's orbit ib. (See. IW. 179 )

पात m. a malignant aspect ib.

पात m. N. of राहुL.

पात m. pl. N. of a school of the यजुर्-वेदib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāta : m.: A mythical serpent.

Born in the kula of Kauravya, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 12, 11, 1.


_______________________________
*3rd word in left half of page p39_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāta : m.: A mythical serpent.

Born in the kula of Kauravya, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 12, 11, 1.


_______________________________
*3rd word in left half of page p39_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पात&oldid=500891" इत्यस्माद् प्रतिप्राप्तम्