पातक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातकम्, क्ली, (पातयति अधो गमयति दुष्क्रिया कारिणमिति । पत + णिच् + ण्वुल् ।) नरक- साधनमिति यावत् । तत्पर्य्यायः । अशुभम् २ दुष्कृतम् ३ दुरितम् ४ पापम् ५ एनः ६ पाप्मा ७ किल्विषम् ८ कलुषम् ९ किण्वम् १० कल्मषम् ११ वृजिनम् १२ तमः १३ अंहः १४ कल्कम् १५ अघम् १६ पङ्कम् १७ । इति हेम- चन्द्रः ॥ तत्तु नवविधं यथा । अतिपातकम् १ महापातकम् २ अनुपातकम् ३ उपपातकम् ४ सङ्करीकरणम् ५ अपात्रीकरणम् ६ जातिभ्रंश- करम् ७ मलावहम् ८ प्रकीर्णकम् ९ । इति प्रायश्चित्तविवेकः ॥ एषां विवरणं तत्तच्छब्दे द्रष्टव्यम् ॥ कायवाङ्मनःकृतानि दशविधपापानि यथा, -- “अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ॥ पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्व्वशः । असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्व्विधम् ॥ परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म्म मानसम् ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातक¦ त्रि॰ पातयति पाति--ण्वुल्।

१ पतनकारके नरक-रूपापकृष्टस्थानप्रापके नवविधे पापभेदे

२ अनुपातकेच यथोक्तं प्रा॰ वि॰
“पातकपदमनुपातकपर्य्यायः,ननु नवस्वेव पापेषु पातकशब्दो दृश्यते यथा पैठीनसिः,
“स्त्रीगोवृषलवैश्यक्षत्रियघाती सोमविक्रयी शूद्रेण सह-भोजी कन्यादूषी अगारदाही वृषलीपतिरग्नुत्सादीचेति पातकिनः”। नवविधं पापमभिधायाह विष्णुः
“एवं पातकिनः पापमनुभूय सुदुःखिताः। तिर्य्यग्योनौघ्रवर्त्तन्ते दुःखानि विव्रिधानि च”। याज्ञवल्क्यः
“नीचा-भिगमनं गर्बपातनं भर्तृहिंसनम्। विशेषपतनीयानिस्त्रीणामेतान्यपि ध्रुवम्”। पतनीयानि पातकानीत्यर्थः।
“कृत्यल्युटो वहुलमिति” करणेऽनीयर्।
“महापातकतु-ल्यानि पापान्युक्तानि यानि च। तानि पातकसंज्ञानितदूनमुपपातकम्”। अतो महापातकतुल्यपापविशेषेऽप्यस्यशक्तिः।
“बवविधपातकञ्च बिष्णुसं
“तेनायभाक्रान्वो-ऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्त्तते। जा-तिभ्रंशकरणेषू सङ्करीकरणेष्वपात्रीकरणेषु च। मला-वहेषु प्रकीर्णकेषु च” उक्तम्। ततः अस्त्यर्थे इनि। पातकिन् तद्युक्ते त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातक¦ n. (-कं)
1. Sin, crime.
2. The cause of falling, literally or figuratively. For particulars see पञ्चपातक। E. पत् to fall or des- cend, (from virtue,) causal form, aff. ण्वुल्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातकः [pātakḥ] कम् [kam], कम् [पातयति नरं, पत्-ण्वुल्] Sin, crime; (Hindu law-givers enumerate five great sins: ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह Ms.11.54).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पातक mfn. causing to fall(See. गर्भ-)

पातक n. (rarely m. ; ifc. f( आ). ) , " that which causes to fall or sink " , sin , crime , loss of caste Gr2S3rS. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=पातक&oldid=500892" इत्यस्माद् प्रतिप्राप्तम्