पादग्रहण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादग्रहणम्, क्ली, (पादयोर्ग्रहणम् इति । ग्रह + भावे ल्युट् ।) अभिवादनम् । पादस्पर्शपूर्ब्बक- प्रणामः । इत्यमरः ॥ तन्निषेधो यथा, “समि- द्वार्य्युदकुम्भपुष्पान्नहस्तो नाभिवादयेत् यच्चा- प्येवं युक्तम् ।” इति बौधायनः ॥ “जपयज्ञजलस्थञ्च समित्पुष्पकुशानलान् । दन्तकाष्ठञ्च भक्ष्यञ्च वहन्तं नाभिवादयेत् ॥” इति लघुहारीतः ॥ न पुष्पाक्षतपाणिर्नाशुचिर्न जपन् न देवपितृ- कार्य्यं कुर्व्वन् । अभिवादयेदित्यनुवृत्तौ शङ्ख- लिखितौ ॥ * ॥ तद्विधिः । “लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं पूर्ब्बमभिवादयेत् ॥ ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥” * ॥ तत्प्रकारः । “अभिवादात् परं विप्रो ज्यायांसमभिवादयन् । असौ नामाहमस्मीति स्वं नाम परिकीर्त्तयेत् ॥ नामधेयस्य ये केचिदभिवादं न जानते । तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्व्वास्तथैव च ॥ भोः शब्दं कीर्त्तयेदन्ते स्वस्य नाम्नोऽभिवादने । नाम्नां स्वरूपभावो हि भो भाव ऋषिभिः स्मृतः ॥” इति मनुः । २ । १२२ -- १२४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादग्रहण नपुं।

अभिवादनम्

समानार्थक:पादग्रहण,अभिवादन

2।7।41।1।1

समे तु पादग्रहणमभिवादनमित्युभे। भिक्षुः परिव्राट्कर्मन्दी पाराशर्यपि मस्करी॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादग्रहण¦ न॰ पादौ गृह्येते यत्र ग्रह--आधार ल्युट्।

१ चरणग्रहणपूर्वकप्रणामे। विप्रोष्य पादग्रहणमन्व{??}[Page4303-a+ 38]( भिवादनम्” मनुः अभिवादनशब्दे

२९

९ पृ॰ दृ-श्यम्। तत्र शौचान्तरमाह ऋष्यशृङ्गः
“यस्मिन्स्थाने कृतं शौचं वारिणा तद्विशोधयेत्”। अनभिवाद्यानाह हारीतः
“धावन्तञ्च प्रमत्तञ्च मूत्रोच्चारकृ-तन्तथा। भुञ्जानमाचमनार्हञ्च नास्तिकं नाभिवादयेत्। जन्मप्रभृतियत् किश्चित् चेतसा धर्ममाचरेत्। सर्वं तन्नि-ष्फल याति एकहस्ताभिवादनात्”।
“समिद्वार्व्युदकु-म्भपुष्पान्नहस्तो नाभिवादयेत् यच्चाप्येवं युक्तम्” इति। बौधायनः।
“जपयज्ञजलस्थञ्च समित्पुष्पकुशानलान्। दन्तकाष्ठञ्च भक्ष्यञ्च वहन्तं नाभिवादयेत्” लषुहा-रीतः।
“न पुष्पाक्षतपाणिर्नाशुचिर्न जपन् न देवपि-तृकार्य्यं कुर्वन्” अभिवादयेदित्यनुवृत्तौ शङ्खलिखितौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादग्रहण¦ n. (-णं) Respectful obeisance, touching the feet of a Bra4h- man or superior. E. पाद, and ग्रहण taking.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादग्रहण/ पाद--ग्रहण n. laying hold of or clasping the feet (of a Brahman or superior , as a mark of respectful salutation) Mn. Kum.

"https://sa.wiktionary.org/w/index.php?title=पादग्रहण&oldid=291288" इत्यस्माद् प्रतिप्राप्तम्