सामग्री पर जाएँ

पादी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पादी, [न्] पुं, (पादोऽस्त्यस्येति । पाद + इनिः ।) पादविशिष्टजलजन्तुगणः । अस्य गणना गुणाश्च यथा, भावप्रकाशे । “कुम्भीरकूर्म्मनक्राश्च गोधामकरशङ्कवः । घण्डिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः ॥ पादिनोऽपि च ये ते तु कोषस्थानां गुणैः समाः ॥” चतुर्थांशभागी । यथा, मनुः । ८ । २१० । “सर्व्वेषामर्द्धिनो मुख्यास्तदर्द्धेनार्द्धिनोऽपरे । तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥”

"https://sa.wiktionary.org/w/index.php?title=पादी&oldid=148215" इत्यस्माद् प्रतिप्राप्तम्