पानपात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानपात्रम्, क्ली, (पानस्य पेयमद्यादेः पात्रम् ।) मद्यपानपात्रम् । मद्यपानस्य भाजनम् । तत्- पर्य्यायः । चषकः २ सरकः ३ अनुतर्षणम् ४ । इत्यमरः ॥ पूर्ब्बद्वयं मद्यपानपात्रे शेषद्वयं मद्य- परिवेशनपात्रे । इति भरतः ॥ चषकम् ५ अनु- तर्षः ६ पारी ७ पारीकम् ८ । इति शब्द- रत्नावली ॥ * ॥ (यथा, मार्कण्डेये । ८२ । २९ । “ददावशून्यं सुरया पानपात्रं धनाधिपः ॥”) अथ पानपात्रपरिमाणादि यथा कुलसारे । “नयनाग्निबाणसंख्यकर्षैस्तु परमेश्वरि ! । पात्रं प्रकर्त्तव्यमित्युक्तं कुलसाधने ॥ इतोऽप्यधिकपात्रन्तु न कर्त्तव्यञ्च साधकैः ॥” कर्षं लौकिकतोलकमित्यर्थः । तदुक्तं कुलोत्तमे । “गुञ्जाद्वादश माषः स्यात्तदष्टौ कर्ष उच्यते ॥” अथोत्तरतन्त्रे । “अनुज्ञां पुरतो लब्ध्वा गृह्णामीति स्वयं वदेत् । जुषस्वेत्यभ्यनुज्ञातो गुरुणा वा कुलीनकैः ॥ गृह्णीयाच्च स्वयं सिद्धो बद्धपद्मासनः सुधीः ॥” कुलार्णवे । “एकासने निविष्टा ये भुञ्जीरंश्चैव भाजने । एकपात्रे पिबेद्द्रव्यं ते यान्ति नरकाधमे ॥” एकपात्रमिति सर्व्वैर्म्मिलित्वा नैकपात्रे पिबेत् । न तु प्रतिवारं द्रव्यपाने भिन्नभिन्नपात्रं कार्य्यं अननुष्ठानलक्षणापत्तेः सम्प्रदायविरोधाच्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानपात्र नपुं।

मद्यपात्रम्

समानार्थक:चषक,पानपात्र

2।10।43।1।2

चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम्. धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानपात्र¦ न॰ पानस्य पेयस्य सुरादेः पात्रम्। पेयसुरादेःपात्रे कंसे अमरः। पानभाजनादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानपात्र¦ n. (-त्रं) A glass, a drinking vessel. E. पान drinking, पात्र a vessel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पानपात्र/ पान--पात्र n. a -ddrinking-vessel , cup , goblet Ka1m. Ka1v. Pur.

"https://sa.wiktionary.org/w/index.php?title=पानपात्र&oldid=292552" इत्यस्माद् प्रतिप्राप्तम्