सामग्री पर जाएँ

पाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पापम्, क्ली, (पाति रक्षति अस्मादात्मानमिति । पा + “पानीविषिभ्यः पः ।” उणां । ३ । २३ । इति पः ।) अघर्म्मम् । दुरदृष्टम् । तत्पर्य्यायः । पङ्कम् १ पाप्मा २ पापम् ३ किल्विषम् ४ कल्मषम् ५ कलुषम् ६ वृजिनम् ७ एनः ८ अघम् ९ अहः १० दुरितम् ११ दुष्कृतम् १२ । इत्यमरः ॥ पातकम् १३ तूस्तम् १४ कण्वम् १५ एतान् दृष्ट्वा च स्पृष्ट्वा च ब्रह्महत्यां लभेन्नरः । तस्माद्दैवादिमान् दृष्ट्वा सूर्य्यं दृष्ट्वा हरिं स्मरेत् ॥ कामतो यदि पश्यन्ति तत्तुल्यास्ते भवन्ति वै । तस्मात् सन्तो न पश्यन्ति पापभीता व्रजेश्वर ! ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७ । ७८ अध्यायः ॥ (अनिष्टम् । वधः । इति राजानुजः ॥ यथा, रामायणे । २ । ८ । ३२ । “तस्मात् न लक्ष्मणे रामः पापं किञ्चित् करि- ष्यति । रामस्तु भरते पापं कुर्य्यादेव न संशयः ॥” तद्वति, त्रि । इत्यमरः ॥ यथा, महाभारते । १ । ९० । १९ । “पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति । कीटाः पतङ्गाश्च भवन्ति पापा न मे विवक्षास्ति महानुभाव ! ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाप नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

1।4।23।1।3

अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्. कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

पाप वि।

परद्रोहकारी

समानार्थक:नृशंस,घातुक,क्रूर,पाप,क्षुद्र,शार्वर,निस्त्रिंश

3।1।47।2।4

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः। नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाप¦ न॰ पाति रक्षति आत्मानम{??}त् पा--अपादाने प।

१ नरकहेतौ दुरदृष्टे तत्साधने

२ हिंसादौ ज्योतिषोक्तेषुअर्द्धोनचन्द्ररविप्रभृतिषु ग्रहेषु पापग्रहशब्दे दृश्यम्। पापलक्षणं पापसत्तायां प्रमाणञ्च प्रा॰ वि॰ उक्तं यथामनु किं पापलक्षणम् उच्यते चोदनालक्षणोऽर्थोधर्म्मइति धर्मलक्षणं कुर्वता सूत्रकारेण जैमिनिना वेदैकप्रति-{??}द्योऽनर्थोऽधर्म्भ इत्यधर्म्मलक्षणं सूचितम् अनर्थश्चानिष्टसाधनं तथा चोक्तं भाष्यकृता कोऽर्थो योऽभ्युद-याय कोऽनर्थो योऽनभ्युदयाय”। नमु पापसत्तायां किंमानं न तावत् वेदः तस्य कार्य्ये कार्य्यान्विते वा प्रामा-ण्यात् न च दुरितापूर्वं कार्य्यं कार्य्यान्वितं वा। न चंनित्यकर्माकरणस्य निषिद्धाघरणस्य च वेदोक्तप्रत्यवाय-साधनत्वान्यथानुपपत्त्या कल्प्यं तस्य तथाविधशब्दाभा-[Page4307-b+ 38] येन असिद्धत्वेन चावगन्तुमशक्यत्वात्, उच्यते
“योव्राह्मणायावगुरेत् तं शतेन यातायात्” इति श्रुतौलिङ्द्वयश्रुतेरवगोरणशतयातनयोः साध्यसाधनभावोऽ-वगम्यते
“हेतु हेतुमतोर्लिङिति” पाणिनिस्मरणादितियथोक्तं शंय्वधिकरणे, तथात्रापि क्वचित् पञ्चम्याक्वचित् तृतीयया क्वचिद्विशेषणेन तदवगम्यते। यथायाज्ञवल्क्यः
“विहितस्याननुष्ठानान्निन्दितस्य च सेव-नात्। अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” (अत्र पञ्चम्या) मनुः
“शरीरजैः कर्म्मदोषैर्याति स्था-वरतां नरः। वाचिकैः पक्षिमृगतां मानसैरन्त्यजाति-ताम्। इह दुश्चरितैः केचित् केचित् पूर्बकृतैस्तथा। प्राप्नुवन्ति दुरात्मानो नरारूपविपर्य्ययम्” (अत्रतृतीयया) विष्णुपु॰
“नरकं कर्म्मणां लोपादेवमाहूर्मह-र्षयः” यमः
“सुरापो ब्रह्महा गोघ्न सुवर्णस्तेयकृन्नरः। पतितैः संप्रयुक्तश्च कृतघ्नो गुरुतल्पगः। एते पतन्ति स-र्वेषु नरकेष्वनुपूर्वशः”। अत्रैते सुरापादयः पतन्तीतिसुरापादीनां पतनकर्तृत्वावगतेः पतनकर्तृत्वच्च साधन-त्वविशेषः। अतः सुरापानादिविशिष्टस्य पुरुषस्य पतन-सम्बन्धे विशेषणस्य सुरापानादेः सति सम्भवे पतनसा-धनत्वमवगम्यते।
“सप्तदशप्राजापत्यान्पशूनालभेत” इतिवत्। एवं
“वारिदस्तृप्तिमाप्नोति” इत्यादिवच्च। नरक-साधनत्वस्य कार्य्यान्वयाभावात् कथं शब्दादवगतिरिति चेत्शंयुवत् विषयविशेषणतया इति व्रूमः। यथा यातनासा-धनादवगोरणान्निवर्त्तितव्यमिति विधिः। तथा नरकसा-धनात् सुरापानादेरपि निवर्त्तितव्यमिति”। यथा काला-न्तरभावि स्वर्गादिसाधनत्वान्यथानुपपत्त्या यागादेर्द्वारी-भूतधर्मकल्पकता एवं कालान्तरभाविनरकादिसाधनत्वान्यथानुपपत्त्या सुरापानादेर्द्वारीभूताधर्मकल्पकत्वमिति वोध्यम्पापमस्त्यस्य अर्श॰ अच्।

४ पापयुक्ते त्रि॰। पापं चकायिकादिभेदेन दशविधं दशहराशब्दे

३४

८३ पृ॰ दर्शितम्कायिकादिभेदेनान्यान्यपि पापान्युक्तानि यथा
“प्राणाभिपातनं स्तैन्यं परदारमथापि च। त्रीणि-पापानि कायेन सर्वतः परिवर्जयेत्। असत्प्रलापं पा-रुष्यं पैशुन्यमनृतन्तथा। चत्वारि वाचा राजेन्द्र! नजल्पेत न चिन्तयेत्। अनभिध्या परस्वेषु सर्वसत्वेषुसौहृदम्। कर्मणां फलमस्तीति त्रिविधं मनसाचरेत्” भा॰ शा॰ दानधर्मः। पापस्य पुरुषत्रयावध्यनुवर्त्तित्वं यथा
“नाधर्म्मश्चरितो राजन्! सद्यः फसति गौरिव। शनै-[Page4308-a+ 38] रावर्त्तमानस्त मूलान्थपि निकृतति। यदि। नात्मनिमित्रेषु न चेत् पुत्रेषु नप्तृषु। पापमाचरितं कर्म त्रि-पगमनुबर्त्तते। फलत्येवं ध्रुवं पापं गुरु भुक्तमिवोदरे” मात्स्ये

२८ अ॰। राष्ट्रादिकृतपापेन राजादीनां परस्परंपापित्वं यथा
“राजा राष्ट्रकृतात् पापात् पापी भवति वैहरे!। तथैवराज्ञः पापेन तद्राज्यस्थास्तुये जनाः। वर्णा-श्रमादय सर्वे पापिनो नात्र संशयः। भार्य्यांहोदुष्कृतीस्वामी वृजिनात् स्वामिनोऽबला। तथा देशिकपापात्तुशिष्यः स्यात् पातकी सदा। शिष्याद्धि पापिनो नित्यंगुरुर्भवति दुष्कृती। पातकी यजमानः स्यात् पापिनोऽङ्ग पुरोधसः। पुरोहितस्तथा पापी यजमानांहसोध्रुवम्” अदत्तपुण्यपापभागित्वं यथा
“अदत्तानि चपुण्यानि पापानि च यथा प्रिये!। प्राप्याणि{??}मेणा-येन तद्यथावन्निशामय। देशग्रामकुलानि स्युर्भागभाञ्जिकृतादिषु। कलौ तु कवलं कर्त्ता फलभुक् पुण्यपापयोः। अकृतेऽपि च संसगे व्यवस्थेयमुदाहृता। संसर्गात् पुण्य-पापानि यथा यान्ति निबाध तत्। एकत्र मैथुनाद्यानादेकपात्रस्थभोजनात्। फलार्द्धं प्राप्नुयान्मर्त्यो यथावत्पुण्यपापयोः। स्पर्शनाद्भाषणाद्वापि परस्य स्तवनादपि। दशांश पुण्यपापानां नित्यं प्राप्नोति मानवः। दर्शन-श्रवणाभ्याञ्च मनोध्यानात्तथैव। परस्य पुण्यपापानांशतांशं प्राप्नुयान्नरः। परस्य निन्दापैशुन्यं धिक्कारञ्चकरोति यः। तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददातिसः। कुर्वतः पुण्यकर्माणि सेवां यः कुरुते परः। पत्रीभृत्योऽथ शिष्यो वा सजानीयोऽप्रि मानवः। तस्यमेवानुरूपेण तस्य तत्पुण्यमाग्भवेत्। एकपङ्क्तेस्ततोयस्तु लङ्घवन् परिवेशयेत्। तस्य पापशतांशन्तु लभतेपरिवेशकः। स्नानसन्ध्यादिकं कुर्वन् संस्पृशेद्वा प्रभा-षते। स पुण्यकर्मषष्ठांशं दद्यात्तस्मै सुनिश्चितम्। धर्मो-द्देशेन यो द्रव्यं परं याचयते नरम्। तत्पुण्यं कर्मजंतस्य धनं दत्त्वाप्नुयात् फलम्। अपहृत्य परद्रव्यं पुण्य-कर्म करोति वः। कर्मकृत् पाप मोक्तात्र धनिनस्तद्भवेत्फलम्। नापनुद्य ऋषं यस्तु परस्य म्रियते गरः। धनी तंत्पुण्यमाप्नोति स्यधनस्यानुरूपतः। बुद्धिदस्त्यनु-मन्ता च यश्चोपकरणप्रदः। बलकृच्चापि षष्ठांशं प्राप्नुयात्पुण्यपापयोः। प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत्। शिष्याद्गुरुः स्त्रिया भर्त्ता पिता पुत्रात्तथैव{??}। स्य{??}तेरपि पुण्यस्य भार्य्यार्द्धं समवाप्नुयात्। पर-[Page4308-b+ 38] हस्तेन दानादि कुर्वतः पुण्यकर्मणः। विना भृत्यक-शिष्याभ्यां कर्त्ता षष्ठांशमाहरेत्। आत्मनो वा पर-स्यापि यदि सेवां न कारयेत्” श्रीकृष्ण उवाच
“इत्यंह्यदत्तान्यपि पुण्यपापान्यायान्ति नित्यं परसञ्चितानि। शृणुष्व चास्मिन्नितिहासमग्र्यं पुराभषं पुण्यमतिप्र-सिद्धम्” पाद्मोत्तरखण्डे

७१

१५

७ अ॰। अत्र कलौ संस-र्गजपापोक्तिः महापातकिविषया संसर्गशब्देदृश्यम्।

५ गर्ह्ये त्रि॰ पापयोनिः मनुः

४ ।

१६

६ पाप-नापित इत्यादि।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाप¦ mfn. (-पः-पा-पं)
1. Mischievous, destructive, malignant.
2. Vile, low, abandoned, vicious.
3. Inauspicious. m. (-पः) A wicked man, a wretch, a profligate. n. (-पं)
1. Sin, crime, wickedness, vice.
2. Bad state, bad fortune. E. पा to preserve (from it,) and प Una4di aff. [Page443-b+ 60]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाप [pāpa], a. [पाति रक्षत्यस्मादात्मानम्, पा-अपादाने प; Uṇ.3.23]

Evil, sinful, wicked, vicious; पापं कर्म च यत् परैरपि कृतं तत् तस्य संभाव्यते Mk.1.36; साधुष्वपि च पापेषु समबुद्धि- र्विशिष्यते Bg.6.9.

Mischievous, destructive, accursed; पापेन मृत्युना गृहीतो$स्मि M.4.

Low, vile, abandoned; Ms.3.52; अधार्मिकाणां पापानामाशु पश्यन् विपर्ययम् 4.171.

Inauspicious, malignant, foreboding evil; as in पापग्रहः.

पम् Evil, bad fortune or state; पापं पापाः कथयथ कथं शौर्यराशेः पितुर्मे Ve.3.6; शान्तं पापम् 'may the evil be averted', 'god forbid' (often used in dramas).

Sin, crime, vice, guilt; अपापानां कुले जाते मयि पापं न विद्यते Mk.9.37; Ms.11.231;4 181; R.12.19. -पम्ind. badly, sinfully, wrongly. -पः A wretch, sinful person, wicked or profligate person; पापस्तु दिग्देवतया हतौजास्तं नाभ्यभूदवितं विष्णुपत्न्या Bhāg.6.13.17.

पा A beast of prey.

A witch. -Comp. -अङ्कुशा N. of the Ekādaśī in the light half of Āśvina. -अधम a. exceedingly wicked, vilest. -अनुबन्धः bad result or consequences. -अनुवसित a. sinful. -अपनुत्तिः f. expiation. -अहः an unlucky day. -आख्या one of the seven divisions of the planetary courses. -आचारa. following evil or sinful courses, leading a sinful life, vicious, wicked. -आत्मन् a. evil-minded, sinful, wicked; पापात्मा पापसंभवः Purāna. (-m.) a sinner.-आरम्भ a. wicked, villainous, committing murderous deeds; पापारम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम् Māl.5.24.-आशय, -चेतस् a. evil-intentioned, wicked-minded.-उक्त addressed in ill-omened words. -कर, -कारिन्, -कृत्, -कर्म(र्मि)न् &c. a. sinful, a sinner, villain.-क्षयः removal or destruction of sin. -गतिः ill-fated.-ग्रहः a planet of evil or malignant aspect, such as Mars, Saturn, Rāhu or Ketu. -घ्न a. destroying sin, expiating; मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि Śaṅkarāchārya. (-घ्नः) the sesamum plant. (-घ्नी) the Tulasī plant.

चर्यः a sinner.

demon. -चेलिका, -चेली Clypea Hernandifolia (Mar. पहाडमूळ). -चैलम् an inauspicious garment. -जीव a. wicked, sinful. -दर्शन्, -दर्शिन् looking at faults, malevolent. -दृष्टि a. evileyed. -धी a. evil-minded, wicked. -नक्षत्रम् an inauspicious constellation. -नापितः a cunning or vile barber.-नाशन a. destroying or expiating sin.

(नः) N. of Śiva.

of Viṣṇu. (-नम्) expiation, atonement.

(नी, नाशिनी) the wild Tulasī plant or Śamī.

N. of a river. -निरति a. wicked, sinful. -f. wickedness.-निष्कृतिः atonement for sin. -पतिः a paramour. -पुरुषः a villainous person. -फल a. evil, inauspicious; पापफल- नरकादिमांस्तु शुभकर्मफलस्वर्गमस्त्विति काङ्क्षते Maṅḍala Brā. Up.2.4. -बुद्धि, -भाव, -मति a. evil-minded, wicked, depraved. -भक्षणः N. of Kālabhairava. -भाज् a. sinful, a sinner; न केवलं यो महतो$पभाषते शृणोति तस्मादपि यः स पापभाक् Ku.5.83. -मित्रम् a bad counsellor or friend.-मुक्त a. freed from sin, purified. -मोचनम्, -विनाशनम् destruction of sin. -योनि a. lowborn. (-निः f.) vile birth, birth in an inferior condition.

रोगः any bad disease.

small-pox. -लोक्य a.

infernal.

belonging to the wicked. -वशीयस् a.

inverted

confused. (-m.) inversion, confusion. -वंश a. born in a degraded family; शशाप तान् न राज्यार्हाः पापवंशा भविष्यथ Bm.1.349.-विनिग्रहः restraining wickedness. -शमन a. removing crime. -शील a. prone to evil, wicked by nature, evil minded. -संकल्प a. evil-minded, wicked. (-ल्पः) a wicked thought. -हन् a. destroying sin; यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥ Ms.7.25.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाप mf( ईolder than आ; See. Pa1n2. 4-1 , 30 ) ( S3Br. xiv , also पाप)n. bad , vicious , wicked , evil , wretched , vile , low RV. etc.

पाप mf( ईolder than आ; See. Pa1n2. 4-1 , 30 ) (in astrol. ) boding evil , inauspicious Var.

पाप m. a wicked man , wretch , villain RV. etc. , etc.

पाप m. N. of the profligate in a drama Cat.

पाप m. of a hell VP.

पाप n. ( ifc. f( आ). )evil , misfortune , ill-luck , trouble , mischief. harm AV. etc. etc. (often शान्तम् पापम्, " heaven forefend that evil " R. Mr2icch. Ka1lid. etc. )

पाप n. sin , vice , crime , guilt Br. Mn. MBh. etc.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Brahmadhana. वा. ६९. १३२.

"https://sa.wiktionary.org/w/index.php?title=पाप&oldid=500906" इत्यस्माद् प्रतिप्राप्तम्