पायस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायसः, पुं, क्ली, श्रीवासः ॥ टारपिन् इति भाषा । पयसा संस्कृतः । (पयसो विकार इत्यण् ।) परमान्नम् । इत्यमरमेदिनीकरौ । अस्य पाक- प्रकारो गुणाश्च । “अतप्ततण्डुलो धौतः परिभृष्टो घृतेन च । खण्डयुक्तेन दुग्धेन पाचितः पायसो भवेत् ॥ पायसः कफकृद्बल्यो विष्टम्भी मधुरो गुरुः ॥” तस्य पित्र्युद्देशेन गङ्गाम्भसि निःक्षेपे फलं यथा, -- “पितॄनुद्दिश्य यो भक्त्या पायसं मधुसंयुतम् । गुडसर्पिस्तिलैः सार्द्धं गङ्गाम्भसि विनिःक्षिपेत् ॥ तृप्ता भवन्ति पितरस्तस्य वर्षशतं हरे ! । यच्छन्ति विविधान् कामान् पतितुष्टाः पिता- महाः ॥” इति स्कान्दे काशीखण्डे २७ अध्यायः ॥ चन्द्रप्रभपायसो यथा, -- “भृष्टजीरचतुर्जातश्चन्द्रकान्तः सुरोचनः ॥” इति राजवल्लभः ॥ पयोविकारे, त्रि । यथा, -- “कन्दुपक्वानि तैलेन पायसं दधि शक्तवः । द्विजैरेतानि भोज्यानि शूद्रगेहकृतान्यपि ॥” इति तिथितत्त्वे वराहपुराणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायस पुं।

सरलद्रवः

समानार्थक:पायस,श्रीवास,वृकधूप,श्रीवेष्ट,सरलद्रव

2।6।128।2।5

बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ। तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः॥

पदार्थ-विभागः : खाद्यम्,पानीयम्

पायस पुं-नपुं।

क्षीरान्नम्

समानार्थक:परमान्न,पायस

2।7।24।1।3

पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम्. हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम्.।

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायस¦ त्रि॰ पयसोविकारः अण्।

१ दुग्धविकारे

२ परमान्ने पु॰अमरः। तत्पाकप्रकारो यथा
“अतप्ततण्डुलो धौतःपरिभृष्टो घृतेन च। खण्डयुक्तेन दुग्धेन पाचितःपायसो भवेत। पायसः कफकृद्बल्यो विष्टम्भी मधुरीगुरु” पाकराजेश्वरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायस¦ mfn. (-सः-सी-सं) Made of or from milk or water. mn. (-सः-सं)
1. An oblation of milk, rice, and sugar.
2. Turpentine. n. (-सं) Milk. E. पयस् milk or water, aff. अण्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पायस mf( ई)n. (fr. पयस्)prepared with or made of milk Gr2S3rS.

पायस m. n. food prepared with -mmade , ( esp. ) rice boiled in -mmade or an oblation of -mmade and rice and sugar ib. Mn. MBh. etc.

पायस m. the resin of Pinus Longifolia L.

"https://sa.wiktionary.org/w/index.php?title=पायस&oldid=293774" इत्यस्माद् प्रतिप्राप्तम्