सामग्री पर जाएँ

पार्वण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्वण¦ त्रि॰ पर्वणि क्रियते शैषिकोऽण् पर्वणि भवे तु कालाट्ठ-ञेव स्यात् तेन पार्विक इत्येव अतएव
“न शारदः पार्विकशर्वरीश्वरः” इति नैषधे पठित्वा मल्लिनाथेन तथोक्तम्।

१ पर्वविहिते

२ अमावास्यानिमित्तके श्राद्धे न॰ यथोक्तंश्रा॰ त॰
“अमावास्याकर्त्तव्यपर्वकर्त्तव्ययोः पार्वणत्व-माह भविष्यपुराणम्
“अमावास्यां यत् क्रियते तत्-पार्वणमुदाहृतम्। क्रियते वा पर्वणि यत् तत्पार्वण-मिति स्मृतिः”। अत्र यदित्यादेरुभयत्राभिधानेन विक-[Page4317-b+ 38] ल्पार्थवाशब्देन च पार्वणस्य लक्षणं द्वितीयमुक्तं प-र्वणि यत् क्रियते इत्यनेनामावास्यायाः पर्वत्वात्तच्छ्राद्धस्यवैदिकप्रयोगाधीनयौगिकत्वेन पार्वणत्वप्राप्तौ अमवा-स्यायां यत् पृथगुपादानं तदमावास्याश्राद्धस्य रूढित्वार्थंतेन पार्वणेन विघानेन इत्यादौ यौगिकनानावयव-शक्त्यपेक्षया एकस्या एव समुदायशक्तेर्लघुत्वात् अमा-वास्यापार्वणधर्मातिदेशो लभ्यते न तु पूपादिद्रव्याष्टका-दिपार्वणधर्मातिदेशः। अतः अमावास्यायामष्टम्यादिपर्वणि च तन्निमित्तकश्राद्धे पार्वणश्राद्धम् अन्यत्र पार्ब-णविधिना श्राद्धमित्यभिलापे विशेषः”। कालमाधवीये चशातातप आह
“दर्शश्राद्धन्तु यत् प्रोक्तं पार्वणं तत्प्रकीर्त्तितम्। अपराह्णे पितॄणां तु तत् प्रदानं विशे-ष्यते” इति। यद्यप्येतादृशं पार्वणं प्रतिपदि न प्राप्नोतितथापि तद्विकृतिरूपतया त्रिपुरुषोद्देशेन कर्त्तव्यादि-काम्यश्राद्धादेः पार्बणत्वं व्यवहर्त्तुं शक्यम्। अतएवकाण्ववाक्यं पूर्वमुदाहृतम्
“त्रीनुद्दिश्य तु यत्तद्धि पार्वणंमुनयी विदुः” इति। तस्य कालभेदाश्च नि॰ सि॰ निर्णीताःयथा वृद्धपराशरः
“श्राद्धं वृद्धावचन्द्रेभच्छायाग्रह-णसंक्रमे। नवोदके नवान्ने च नवच्छन्ने तथा गृहे। नवैक्षवेषु चेहन्ते पितरो हि मघास्वपि”।
“पितरःस्पृहयन्त्यन्नमष्टकासु मघासु च” इति शातातपपाठःनवोदके नवक्पवाप्यादाविति केचित्। वर्षोपक्रमे आर्द्रा-प्रवेशे इति गौडाः
“वृश्चिके शुक्लपक्षे तु नवान्नं शस्यतेबुधैः” अतः कृष्णपक्षे नेति गौडाः मैथिलास्तु
“अकृ-ताग्रयणं चैव धान्यजातं नरोत्तम!” इति वाराहोक्तेःप्रतिधान्यं श्राद्धमाहुः तन्न जातपदस्य श्राद्धयोग्यसमूह-परत्वात्। हेमाद्रौ जातूकर्ण्यः
“ग्रहोपरागे च सुते चजाते पित्र्ये गयायामयनद्वये च। नित्यं च शङ्खे चतथैव पद्मे दत्तं भवेन्निष्क्रसहस्रतुल्यम्। शङ्खं प्राहु-रमावास्यां क्षीणचन्द्रां द्विजोत्तमाः। अष्टकासु भवेत्पद्मतत्र दत्तं तथाऽक्षयम्”। तत्रैव शङ्खः
“यदाविष्टिर्व्यती-पातो भानुवारस्तथैव च। पद्मकं नाम तत्प्रोक्तमय-नाच्च चतुर्गुणम्”। याज्ञवल्क्यः
“अमावस्याष्टकावृद्धिःकृष्णपक्षोऽयनद्वयम्। द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत्सूर्य-संक्रमः। व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्य्ययोः। श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्त्तिताः” कृष्ण-पक्ष सर्वोऽपि
“शाकेनापरपक्षं नातिक्रमेत मासि मासिवाऽशनमिति” श्रुतेः
“ऊर्द्धं वा चतुर्य्या यदहः सम्पद्यते[Page4318-a+ 38] ऋते चतुर्दशीमिति” कात्यायनोक्तेः
“मासि मासि कार्य-मपरपक्ष्स्यापराह्णः श्रेयान्” इत्थापस्तम्बोक्तश्च वीप्सयासर्वकृष्णपक्षेषु नित्यम्
“तेनोपसंहारान्महालयपरत्वपरास्तम् अत्र प्रत्यहं पञ्चम्यादि यदहःसम्पत्तिर्वेति त्रयपक्षाः यदैकैकदिने श्राद्धं तदा दार्शं पृथगेव याज्ञवल्क्ये-नामावास्यायाः पृथङ्निर्देशात्। एतेन कृष्णपक्षे यदहःसम्पद्यते अमावास्यायां तु विशेषेणेति निगमोक्तेर्गुणो-ऽपरपक्षश्राद्धस्यामावास्येति शूलपाणिमतमप्यपास्तम्। अशक्तौ दर्शेनापि मासि श्राद्धसिद्धिरिति नारायणवृत्तिः। निरग्निकानां कस्मिंश्चिद्दिने आहिताग्नेस्तु दर्शे एव
“नदर्शेन विना श्राद्धमाहिताग्नेर्हिजन्मन” इति मनूक्तेःसर्वकृष्णपक्षाशक्तौ मात्स्ये
“अनेन विधिना श्राद्धं त्रि-रव्दस्येह निर्वपेत्। कन्याकुम्भवृषस्थेऽर्के कृष्णपक्षे चसर्वदा”। कर्कोऽपि
“आहिताग्नेः संवत्सरे त्रिः श्राद्ध-नियम” इति। देवलः
“अनेन विधिना श्राद्धं कुर्य्यात्संवत्सरं सकृत्। द्विश्चतुवां यथाश्रद्धं मासे मासेदिने दिने”। कृष्णपक्षेष्वपि महालयस्य श्रेष्ठत्वं त-च्चोक्तं प्राक्। व्यतीपाते विशेषमाह हेमाद्रौ शङ्खः
“फलंलक्षघ्नमुत्पत्तौ भ्रमणे कोटिरुच्यते। पतने शतकोट्यस्तुंपाते वै दत्तमक्षयम्” ज्योतिःशास्त्रे
“द्वाविंशतिस्तथो-त्पत्तौ भ्रसणे चैकविंशतिः। पतने दश नाड्यस्तु पतितेसप्त नाडिकाः” अन्यौ च द्वौ व्यतीपातौ प्रागुक्तौ। हे-माद्रौ मार्कण्डेयः
“यदा च श्रोत्रियोऽभ्येति गृहं वेद-विदग्निचित्। तेनैकेनापि कर्त्तव्यं श्राद्धं च विषुव-च्छुभम्”। इदं चापिण्डं कार्यमिति हेमाद्रिः एतज्जीवपितृकोऽपि
“उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौमिकेमखे। तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः” इति मैत्रायणीयपरिशिष्टोक्तेः। तिथिविशेषे फलवि-शेषो याज्ञव् क्येनोक्तः
“कन्यां

१ कन्यावेदिन

२ श्च पशू

३ {??} सत्सुतानपि

४ । द्यूत

५ कृषिं

६ च वाणिज्य

७ {??}शफैकशफां

८ ।

९ स्तथा। ब्रह्मवर्चस्विनः पुत्रान्

१० स्रणरौप्ये सकुप्यके

११ ।

१२ । ज्ञानिश्रैष्ठ्य

१३ सर्व-कामानाप्रोति

१५ श्राद्धदः सदा। प्रतिपत्प्रभृति-ष्वेका वजयित्वा वतुर्दशीम्” एताः कृष्णपक्षस्था एवमहालये तु फलभूमेति पृथ्वीचन्द्रीदयः। पोर्णमास्यांहैमाद्रौ पितामहः
“अमावास्याव्यतीपाते पौर्णमा-स्यष्टकसि च। विद्वान् श्रा{??}मकुर्वाणो नरकं प्रतिप-द्यते” एतन्माव्यादिपरम्
“व्रीहिपाके च कर्{??} यव-[Page4318-b+ 38] पाके च पार्थिव!। पौर्णमासी तथा माथी श्रावणी चनृपोत्तम!। प्रोष्ठपद्यामतीतायां तथा कृष्णत्रयोदशी।{??} श्राद्धकालान् वै नित्यानाह प्रजापतिः” इतिविष्णुधर्मोक्तेः। विष्णुः
“माघी प्रोष्ठपद्यूर्द्धं कृष्णा त्रयोदशीति”। अत्र माथी पौर्णमासीति कल्पकरुः। श्रावण्यू-र्द्ध्वमपि मघायोगसम्भवात्त्रयोदशी विशेषणमिति गौडाःनक्षत्रेष्वपि याज्ञवल्क्यः
“स्वर्गं ह्यषत्यमोजश्च शौर्यं क्षेत्रंबलं तथा। पुत्रान् श्रैष्ठ्यं च सौभाम्यं सखद्धि मुख्यतशुभम्। प्रवृत्तचक्रता वापि बाणिज्यप्रभृतीनपि। अ-रोगित्वं यशोवीतशोकतां परमाङ्गतिम्। धनं वेदान्भिषक्सिद्धिं कुप्यङ्गाभप्यजाविकम्। अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति। कृत्तिकादिभरण्यन्तं सका-मान् प्राप्नुयादिमान्”। फलान्तराण्यपि महामारतकौर्मादेर्ज्ञेयानि। माधवीये मरीचिः
“कृत्तिकादिषु ऋ-क्षेषु श्राद्धे यत् फलमीरितम्। विष्कम्भादिषु योगेषुतदेव फलमिष्यते” वृहस्पतिः
“आरोग्यं चैव सौभाग्यंशत्रूणां च पराजयम्। सर्वान् कामान् प्रियां विद्याधनमायुर्यथाक्रमम्। सूर्य्यादिदिवसेष्वेतच्छ्राद्धकृल्लभतेफलम्।{??}वादिकरणेष्वेतच्छ्राद्धकृल्लभते फलम्” अ-न्यानि च वण्णवतिश्राद्धादीनि प्रागुक्तानि मार्कण्डेयपु-राणे श्राद्धार्हद्रव्यसम्पत्तौ तथा दुःस्वप्नदर्शने। जन्मर्क्षेग्रहपीडासु श्राद्धं कुर्वीत चेच्छया”।
“संक्रान्तान्नावुपरामे च पर्वण्यपि महालये। निर्वा-प्यास्तु त्रयः पिण्डा एकतस्तु क्षयऽहनि। एकोद्दिष्टंपरित्यज्य पार्वणं कुरुते द्विज{??}। अकृतं तद्वीजानीयात्स नरः पितृघातकः। अमावस्यां क्षयो यस्य प्रेतपक्षे-ऽथ वा यदि। सपिण्डोकरणादूद्धं तस्योक्तः पार्वणोविधिः। त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते। अह-न्येकादशे प्राप्ते पार्वणन्तु विधीयते” लिखितस॰। एतेषांव्याख्यानतात्पर्यकथनपूर्वकं विकृतिपार्वणविधानम् श्रा॰ त॰निर्णीतं यथा
“त्रयं सम्प्रदानानां त्रय कुर्य्यात् त्रिभ्योदद्यादित्यर्थः। सृताहपर्युदस्तत्रिदैवतत्वस्य प्रतिप्रसवमाहअमावास्यामिति प्रेततक्षोऽत्र पितृपक्षा अश्वयुक्कृष्णपक्षइति यावत् न तु कृष्णपक्षमात्र कृष्णपक्षसामान्यपरत्वेऽ-माबास्यापदवैयर्थ्यापत्तेः पितृपक्ष विशपयति हेमाद्रिमा-ध{??}चार्य्यधृतं नागरखण्डम
“नभो वाथ नभस्यो वाभलमासो यदा भवेत्। सप्तमः पिवृपक्षः स्यादन्यत्रैव तुपञ्चमः”। अत्र{??}भाद्रयोरन्यतरस्य मखमासत्वे[Page4319-a+ 38] आपाढापेक्षया सप्तमपक्षस्य पितृपक्षत्वात् अत्र मृत-स्यैव प्रोतपक्षमृतत्वं न तु मलमासभाद्रकृष्णपक्षमृतस्य। ततश्च तत्र मृतस्य वर्षान्तरेऽश्वयुक्कृष्णपक्षेऽपि तच्छ्रा-द्धकरणे न पार्वणं किन्त्वेकोद्दिष्टमिति। अत्र पार्वणोविधिः पार्वणेतिकर्त्तव्यताकैकोद्दिष्टविधिरिति नव्यव-र्द्धमानप्रभृतयः तन्न पूर्ववचनोक्तत्रैप्रुरुषिकस्य मृताहेपर्युदस्तस्य पार्वणो विधिरित्यनेन प्रतिप्रसवात् तस्मात्तदेकोद्दिष्टं त्रैपुरुषिकं न तु षाट्पौरुषिकं
“कर्षूसम-न्वितं मुक्त्वा तथाद्यं श्राद्वषोडशम्। प्रत्याव्दिकञ्च शेषेषुपिण्डाः स्युः षडिति स्थितिः” इति छन्दोगपरिशिष्टवच-नेन प्रत्याव्दिकव्यतिरेकेण षट्संख्यानियमात्। एवममा-वास्यादिमरणनिमित्तेन मातुरपि पत्याव्दिकं पार्वण-विधिनैव
“अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्चये। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम्” इतिआपस्तम्बवचने अपुत्त्रा इति विशेषणोपादानात् सपु-त्त्राणां पार्वणाभ्यनुज्ञानात्। एतच्च भात्रादित्रितयदैव तंकार्य्यम्
“मात्रे पितामह्यै प्रपितामह्यै च पूर्ववत् ब्राह्म-णान् भोजयित्वा” इत्यन्वष्टकायां तथा दर्शनात् अवसा-नदिननिमित्तत्वेन पार्वणविधिना छन्दोगैरपि मात्रादि-त्रिकाणां श्राद्धं कर्त्तव्यं
“न योषिद्भ्यः पृथग्दद्यादव-सानदिनादृते” इति छन्दोगपरिशिष्टवचने विशेषतःप्रतिप्रसवात्। एवं सपिण्डीकरणेऽपि। एतच्च मृताहपार्वणं मातापित्रोरेव। तथा च हेमाद्रिधृतकात्यायन-वचनं
“सपिण्डीकरणादूर्द्ध्वं पित्रोरेव हि पार्वणम्। पितृव्यभ्रातृमातॄणामेकोद्दिष्टं सदैव तु”। मातृपदंसपत्नीमातृपरम्। सपत्नीमात्रित्यत्र मातृपदस्य राज-दन्तादित्वात् परनिपातः ततश्च वाक्ये मातृसपत्नीतिन प्रयोज्यं किन्तु सपत्नीमातरित्यादिकम्। एवं साग्नि-कौरसक्षेत्रजाभ्यां मृताहे पार्वणं कर्त्तव्यम्
“औरस-क्षेत्रजौ पुत्रौ विधिना पार्वणेन तु। प्रत्यव्दमितरे कुर्यु-रेकोद्दिष्टं सुता दश” इति जावालवचनस्य
“यत्र यत्रप्रदातव्यं सपिण्डीकरणात् परम्। पार्वणेन विधानेनदेयमग्निमता सदा” इति मत्स्यपुराणवचनस्य चैकवा-क्यत्वात्। उशना च
“प्रत्यव्दं दर्शवच्छ्राद्धं साग्निःकुर्वीत वै द्विजः। एकोद्दिष्टं सदा कुर्य्यान्निरग्निः श्राद्धदःसुतः”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्वण [pārvaṇa], a. (-णी f.) [पर्वणि भवः अण्]

Belonging or relating to a Parvan, falling on a Parva day, such as the full-moon, new-moon &c.; पश्यति स्म दिनात्यये पार्वणौ शशिदिवाकराविव R.11.82; Mu.3.1.

Waxing, increasing (as the moon). -णम् The ceremony of offering oblations to all the manes at a Parvan; अमावास्यां यत् क्रियते तत् पार्वणमुदाहृतम् । क्रियते वा पर्वणि यत् तत् पार्वणमिति स्मृतिः ॥ Bhaviṣya. P.; also पार्वणश्राद्धम्.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार्वण mf( ई)n. (fr. पर्वन्)belonging or relating to a division of time or to the changes of the moon (such as at new or full moon)

पार्वण mf( ई)n. increasing , waxing , full (as the moon ; पर्वणौ शशि-दिवाकरौ, -mmoon and sun at the time of full -mmoon Ragh. xi , 82 ) Gr2S3rS. Ka1v. Pur. etc.

पार्वण m. a half-month(= पक्ष) Jyot.

पार्वण m. oblations offered at new and full moon Gr2S.

"https://sa.wiktionary.org/w/index.php?title=पार्वण&oldid=500916" इत्यस्माद् प्रतिप्राप्तम्