पीडन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीडनम्, क्ली, (पीड वाधे अवगाहे वा + भावे- ल्युट् ।) शस्यादिसम्पन्नदेशस्य परचक्रेण पीड- नम् । शत्रुकृतगाढप्रहारः । इति केचित् । पदाक्रमणम् । इति केचित् । इति भरतः ॥ तत्- पर्य्यायः । अवमर्द्दः २ । इत्यमरः । २ । ८ । १०९ ॥ (यथा, देवीभागवते । ३ । १२ । १३ । “पीडनञ्चैव पाञ्चाल्या स्तथा द्यूते पराजयः ॥”) दुःखनम् । यथा, -- “भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् । नरकं पीडने चास्य तस्माद्यत्नेन तं भरेत् ॥” इति दायभागधृतमनुवचनम् ॥ मर्द्दनम् । टिपन चापन इत्यादि भाषा । यथा, -- “गर्भोऽभिघातविषमाशनपीडनाद्यैः पक्वं द्रुमादिव फलं पतति क्षणेन ॥” इति माधवकरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीडन नपुं।

परचक्र_पीडनम्

समानार्थक:अवमर्द,पीडन

2।8।109।2।5

अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम्. मूर्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीडन¦ न॰ पीड + भावे ल्युट्।

१ दुःखोत्पादने

२ शस्यादीनांमर्दने (माडा) (देपा)

३ व्यापारभेदे
“गर्भोऽभिघातविष-माशनपीडनाद्यैः पक्वं द्रुमादिव फलं पतति क्षणेन” माधवकरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीडन¦ n. (-नं)
1. Inflicting pain, paining, distressing.
2. Devastation, laying a country waste.
3. Squeezing, pressing, rubbing.
4. Tak- ing, holding, as in पाणिपीडन “taking the hand” i. e. marrying.
5. Threshing, (corn).
6. An instrument for pressing.
7. An eclipse, (In astronomy).
8. A fault in the pronounciation of vowels. E. पीड् to give pain, aff. ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीडनम् [pīḍanam], [पीड् भावे ल्युट्]

Paining, distressing, oppressing, inflicting pain; Ms.9.299; प्रजापीडनसंतापात् समुद्भूतो हुताशनः । राज्ञः श्रियं कुलं प्राणान्नादग्ध्वा विनिवर्तते ॥ Pt. 1.345; पीडनवर्गः N. of a chapter in Kau. A. (8. 4).

(a) Squeezing; pressing; Rām.7.16.29; दोर्वल्लिबन्ध- निबिडस्तनपीडनानि Gīt.1; दन्तोष्ठपीडननखक्षतरक्तसिक्ताम् Ch. P. 44. (b) Pressure; ममातिदृढपीडनैरपि न तृप्तिरालिङ्गनैः Māl.9. 38.

An instrument for pressing.

Taking, holding, seizing, as in करपीडन or पाणिपीडन q. v.

Laying waste, devastation.

Threshing corn.

An eclipse; as in ग्रहपीडन q. v. शशिदिवाकरयोर्ग्रहपीडनम् Bh.2.91.

Suppressing sounds, a fault in the pronunciation of vowels.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीडन mfn. pressing , afflicting , molesting , paining(See. चक्षु-प्)

पीडन n. the act of pressing or squeezing R. Katha1s. Gi1t.

पीडन n. an instrument for pressing , press(= पीडन-द्रव्य) Sus3r.

पीडन n. the act of oppressing or suppressing , Paining , harassing , afflicting R. Ka1m. Ra1jat.

पीडन n. devastation , laying a country waste W.

पीडन n. misfortune , calamity Mn. ix , 299

पीडन n. obscuration , eclipse (of a planet See. ग्रह-प्) Sus3r.

पीडन n. suppression (of sounds , a fault in pronunciation) RPra1t.

"https://sa.wiktionary.org/w/index.php?title=पीडन&oldid=303514" इत्यस्माद् प्रतिप्राप्तम्