सामग्री पर जाएँ

पीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतम्, क्ली, (पा + भावे क्तः ।) पानम् । इति मेदिनी । ते, ३४ ॥ (पीतो वर्णोऽस्यास्तीति । अच् । पीताभत्वादस्य तथात्वम् ।) हरितालम् । इति राजनिर्घण्टः ॥ (हरिचन्दनम् । तत्पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “पीतसारं सुशीतञ्च तत्पीतं हरिचन्दनम् ॥”)

पीतः, पुं, (पिबति वर्णान्तरमिति । पा + कर्त्तरि औणादिकः क्तः ।) वर्णविशेषः । हल्दिया इति भाषा । तत्पर्य्यायः । गौरः २ हरिद्राभः ३ । इत्यमरः । १ । ५ । १४ ॥ कुसुम्भः । अङ्कोठः । शाखोटः । पुष्परागः । इति राजनिर्घण्टः ॥ पीतवस्तूनि यथा, -- “पीतानि ब्रह्म-१जीवे-२न्द्र-३गरुडे-४श्वरदृग्-५ जटाः ६ । गौरी-७द्बापर-८गोमूत्र-९मधु-१०वीररसा-११ रजः १२ । हरिद्रा १३ रोचना १४ रीति-१५गन्धके १६ द्बीप- १७ चम्पके १८ । किञ्जल्क-१९ वल्कले २० शालि-२१ हरिताल-२२ मनःशिलाः २३ । कर्णिकारम् २४ चक्रवाक-२५ वानरौ २६ शारिकामुखम् २७ । केशवांशुक-२८मण्डूक-२९सराग-३०कनका- दयः ३१ ॥” * ॥ पीतश्वेतवाचकानि यथा, -- “पीतश्वेतौ गौर-१ द्बिजराज-२ कपर्द्द-३ शम्भु-४ हरि-५तार्क्ष्याः ६ । हैमस्तोमा-७ ष्टापद-८ महारजत-९ चन्द्र-१० कलधौताः ११ ॥” अस्यार्थः । गौरः श्वेतपीतयोः । द्बिजराजो गरुडचन्द्रयोः । कपर्द्दः शम्भुजटाजूटकपर्द्दयोः । शम्भुर्ब्रह्मत्रिलोचनयोः । हरिः पिङ्गलसिंहयोः । तार्क्ष्यो गरुडः पक्षे उच्चैःश्रवाः । हैमस्तोमः हेम्नेऽयं हैमः पक्षे हिमस्यायम् । अष्टापदं सुवर्णशरभयोः । महारजतं सुवर्णरूप्ययोः । चन्द्रः स्वर्णशशाङ्कयोः । कलधौतं हेमरूप्ययोः । “सुशोभितारकूटश्रीः स्वर्णस्तोमसमद्युतिः । दहनोपलसत्कान्तिर्गाङ्गेयच्छविपेशलः ॥” अस्यार्थः । तारकूटो रूप्यसमूहः पक्षे आर- कूटो रीतिः । सुशोभनमर्णः कनकञ्च । गोपति- तार्क्ष्यकान्तिः रविगरुडच्छविः । पक्षे गोपति- रिन्द्रः तस्य तार्क्ष्यस्तुरङ्गः । वामदेवगिरिर्मनोज्ञ- मेरुः कैलासश्च ॥ * ॥ पीतश्यामवाचकानि यथा, “पीतश्यामौ कृष्णाम्बर-१ मधुजित्-२ ध्वान्त- जेतारः ३ । विद्युत्कान्तः ४ ध्वान्तद्वेषि-५ हरि ६ स्वर्णव- च्छायाः ७ ॥” अस्यार्थः । कृष्णाम्बरं विष्णुवस्त्रे हर्य्याकाशयोः । मधुजित् मधुतुल्यविष्ण्वोः । ध्वान्तजेता सूर्य्य- तमस्तुल्ययोः । विद्युत्कान्तः मेघतडित्मनो- ज्ञयोः । ध्वान्तद्वेषी सूर्य्यान्धकारतुल्ययोः । हरिः कपिकृष्णयोः । स्वर्णवच्छायः सुवर्णसुन्दर- समुद्रतुल्यशोभयोः । इति कविकल्पलता ॥ (पर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ९३ । “प्रथमः सूर्य्यसङ्काशः सुमना नाम पर्व्वतः । पीतस्तु मध्यमस्तत्र शातकौम्भमयो गिरिः ॥”)

पीतम्, त्रि, (पीतवर्णोऽस्यास्तीति । अच् ।) पीत- वर्णयुक्तम् । इति मेदिनी । ते, ३४ । (यथा, महाभारते । ४ । ४१ । २० । “ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः । हेमशृङ्गास्त्रिपर्व्वाणो राज्ञ एते महाशराः ॥” पा + कर्म्मणि क्तः ।) कृतपानम् । यथा, -- “हालाहलमपि पीतं बहुशो भिक्षापि भक्षिता भवता । अनयोरवगतरसयोः कियदन्तरं वद योगिन् ! ॥” इत्युद्भटः ॥ (पीतं पानमस्त्यस्येति । अच् । यद्वा, पीतं नीर क्षीरं वा येन इत्युत्तरपदलोपः । पीतदुग्धादि- कम् । यथा, रघौ । २ । १ । “अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीत पुं।

पीतवर्णः

समानार्थक:पीत,गौर,हरिद्राभ,अवदात

1।5।14।2।1

कृष्णे नीलासितश्यामकालश्यामलमेचकः। पीतो गौरो हरिद्राभः पलाशो हरितो हरित्.।

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीत¦ त्रि॰ पा--कर्मणि क्त।

१ पानकर्मणि भावे क्त।

२ पाने न॰पिवति वर्णान्तरं पा--ऊणा॰ कर्त्तरि क्त।

३ वर्णभेदे पु॰

४ तद्वति त्रि॰ अमरः।

५ हरिताले न॰ मेदि॰। पीतंपानमस्त्यस्य अच्।

६ पानकर्त्तरि त्रि॰
“वनाय पीतप्रतिबद्धवत्साम्” रघुः। काव्ये वर्णनीयपीतवर्णद्र-व्याणि कविकल्पलतायामुक्तानि यथा
“पीतानि ब्रह्म

१ जीवे

२ न्द्र

३ गरुडे

४ श्वरदृ

५ ग्जटाः

६ । गौरी

७ द्वापर

८ गोमूत्र

९ मधु

१० वीररसा

११ रजः

१२ । हरिद्रा

१३ रो-चना

१४ रीति

१५ गन्धके

१६ दीप

१७ चम्पके

१८ । किञ्ज-ल्क

१९ वल्कले

२० शालि

२१ हरिताल

२२ मनःशिलाः

२३ । कर्णिकावं

२४ चक्रवाक

२५ वानरौ

२६ शारिका-मुखम्

२७ । केशवांशुक

२८ मण्डूक

२९ सराग

३० कन-कादयः

३१ ।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीत¦ mfn. (-तः-ता-तं)
1. Of a yellow colour.
2. Drank, quaffed. m. (-तः)
1. Yellow, the colour.
2. Safflower.
3. A topaz, a yellow gem.
4. A yellow pigment, prepared from the urine of kine. n. (-तं)
1. Drinking.
2. Yellow orpiment.
3. Gold.
4. Sulphur. f. (-ता)
1. Turmeric.
2. A medical plant, commonly A4ta4ich, (Betula.)
3. Saturated, steeped.
4. Drunk. E. पा to drink, aff. क्त; imbibed, literally, or figuratively, by the eye sight, &c.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीत [pīta], a. [पा-कर्मणि क्त]

Drunk, quaffed; वनाय पीतप्रतिबद्धवत्सां (गां मुमोच) R.2.1.

Steeped, soaked in, filled or saturated with.

Absorbed, drunk up, evaporated; रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी Ku. 4.44.

Watered, sprinkled with water; पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या Ś.4.9.

Yellow; विद्युत्प्रभा- रचितपीतपटोत्तरीयः Mk.5.2.

तः Yellow colour.

Topaz.

Safflower.

A Yellow pigment prepared from cow's urine.

तम् Gold.

Yellow orpiment.-Comp. -अब्धिः an epithet of Agastya.

अम्बरः an epithet of Viṣṇu; इति निगदितः प्रीतः पीताम्बरोपि तथा$करोत् Gīt.12.

an actor.

a religious mendicant wearing yellow garments. -अरुण a. yellowish-red. (-णः) the middle of day-break. -अश्मन् m. topaz. -कदली a species of banana (स्वर्णकदली). -कन्दम् the carrot.

कावेरम् saffron.

brass. -काष्ठम् yellow sanders.-कीलका The N. of a tree (senna). -कुष्ठः yellow leprosy; भगिनीगमने चैव पीतकुष्ठः प्रजायते । -कोशः a. one who has ratified a treaty by drinking from a cup; Raja. T. -गन्धम् yellow sandal.

चन्दनम् a species of sandal-wood.

saffron.

turmeric. -चम्पकः a lamp. -तुण्डः a Kāraṇḍava bird. -दारु n. a kind of pine or Sarala tree.

निद्र a milch cow.

a cow whose milk has been pledged.

a cow tied up to be milked. -द्रुः theSarala tree. -निद्र a. immersed in slumber. -नील a. green. (-लः) the green colour. -पादा a kind of bird (Mar. मैना). -पुष्पः N. of several plants, चम्पक, कर्णिकार &c. -मणिः a topaz. -माक्षिकम् a kind of mineral substance. -मारुतः a kind of snake. -मूलकम् the carrot. -यूथी yellow jasmine. -रक्त a. yellowish-red, orange-coloured. (-क्तम्) a kind of yellow gem, the topaz.

रागः the yellow colour.

wax.

the fibres of a lotus. -लोहम् brass. -वालुका turmeric,-वासस् m. an epithet of Kṛiṣṇa or an Avatāra of Viṣṇu; ... पद्माक्षं पीतवाससं स्तुवन्ति नामभिर्दिव्यैः न ते संसारिणो नराः Rāmarakṣā 25. -शोणित a. bloody (a sword).

सारः the topaz.

the sandal tree. (-रम्) yellow sandal-wood. -सारि n. antimony. -स्कन्धः a hog.-स्फटिकः the topaz. -स्फोटः the itch or scab. -हरितa. yellowish-green.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीत mfn. (1. पा)drunk , sucked , sipped , quaffed , imbibed RV. etc.

पीत mfn. ifc. having drunk , soaked , steeped , saturated , filled with (also with instr. ) Mn. MBh. (See. g. आहिता-ग्न्य्-आदि)

पीत n. drinking L.

पीत mf( आ)n. (possibly fr. 2. पिor प्यै, the colour of butter and oil being yellowish) yellow (the colour of the वैश्यs , white being that of the Brahmans , red that of the क्षत्रियs , and black that of the शूद्रs) Gr2S. Up. MBh. etc.

पीत m. yellow colour W.

पीत m. a -yyellow gem , topaz L.

पीत m. a -yyellow pigment prepared from the urine of kine L.

पीत m. N. of sev. plants (Alangium Hexapetalum , Carthamus Tinctorius , Trophis Aspera) L.

पीत m. of the वैश्यs in शाल्मल-द्वीपVP.

पीत m. a kind of -yyellow pigment(= गो-रोचना) L.

पीत m. a mystical N. of the letter ष्Up.

पीत n. a -yyellow substance ChUp.

पीत n. gold L.

पीत n. -yyellow orpiment L.

"https://sa.wiktionary.org/w/index.php?title=पीत&oldid=500963" इत्यस्माद् प्रतिप्राप्तम्