पुण्यात्मा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुण्यात्मा, त्रि, (पुण्यः आत्मा स्वभावो यस्य ।) पुण्यस्वभावः । तस्य गत्यादिर्यथा, -- सुप्रज्ञोवाच । “शृणु विप्र ! प्रवक्ष्यामि यत्त्वया श्रोतुमिष्यते । पुण्यात्मनां पापिनाञ्च पन्थानं सुखदुःखदम् ॥ आदौ ब्रवीमि पन्थानं नृणां पुण्यवतामहम् । शृणुष्व द्विजशार्द्दूल ! शृण्वतां प्रीतिवर्द्धनम् ॥ प्रस्तरैरिष्टकैर्बद्धो दिव्यवस्त्रैः समावृतः । भाति पुण्यात्मनां पन्थाः सर्व्वोपद्रववर्ज्जितः ॥ क्वचिद्गन्धर्व्वकन्याभिर्गीयते गानमुत्तमम् । क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते ॥ क्वचिच्च वीणाक्वणनं नानावाद्यं मनोहरम् । क्वचित् कुसुमवृष्टिश्च क्वचिद्वायुः सुशीतलः ॥ क्वचित् पुष्पाः शीततोयाः कुत्रचित् भक्त- शालिकाः । क्वचिद्देवाश्च गन्धर्व्वाः पठन्ति स्तवमुत्तमम् ॥ क्वचित् क्वचिद्दीर्घिकाश्च फुल्लपद्मसुशोभिताः । सुच्छायाः पादपाः क्वापि पुष्पिता वञ्जुलादयः ॥ समस्तसुखसम्पन्ने पथि गच्छन्ति मानवाः । पुण्यात्मानो द्विजश्रेष्ठ ! सुखमृत्युमवाप्य च ॥ केचित्तुरङ्गमारूढा नानालङ्कारभूषिताः । उद्दण्डधवलच्छत्रैर्गच्छन्त्यावृतमस्तकाः ॥ केचिद्यान्ति गजारूढा रथारूढाश्च केचन । यानारूढा जनाः केचित् मुखेन यममन्दिरम् ॥ केचिद्देवाङ्गनाहस्तन्यस्तचामरवायुभिः । गच्छन्ति वीजिता मर्त्याः स्तूयमानाः सुरर्षिभिः ॥ केचिद्दिव्याङ्कनधराः सुचन्दनविभूषिताः । भुञ्जन्तो यान्ति ताम्बूलं पुण्यात्मानो यमालयम् ॥ निजगात्रत्विषा केचिज्ज्वालयन्तो दिशो दश । व्रजन्ति शमनागारं चलद्गृहनिवासिनः ॥ केचिच्च पायसं दिव्यं भुञ्जन्तो यान्ति सत्तमाः । सुधापानं प्रकुर्व्वन्तः पथि गच्छन्ति केचन ॥ केचिद्दुग्धं पिबन्तश्च केचिदिक्षुरसं तथा । केचित्तक्रं पिबन्तश्च गच्छन्ति यममन्दिरम् ॥ केचिद्दधीनि खादन्तः केचिन्नानाफलानि च । केचिन्मधु पिबन्तश्च पुण्यवन्तो व्रजन्ति वै ॥ तानागतांस्ततो दृष्ट्वा नरान् धर्म्मपरायणान् । भास्करिः प्रीतिमासाद्य स्वयं नारायणो भवेत् ॥ चतुर्ब्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणः । शङ्खचक्रगदापद्मधारी गरुडवाहनः ॥ स्वर्णयज्ञोपवीती च स्मेरचारुतराननः । किरीटी कुण्डली चैव वनमालाविभूषितः ॥ चित्रगुप्तो महाप्राज्ञश्चण्डाद्या यमकिङ्कराः । सर्व्वे नारायणाकारा बभूवुर्मधुरोक्तयः ॥ ततः स्वयं धर्म्मराजस्तान् सर्व्वान्मनुजोत्तमान् । परमां प्रीतिमासाद्य मित्रवत् पूजयेद्द्विज ! ॥ दिव्यैर्व्वन्यैः फलैश्चैव तेषां पुण्यवतां नृणाम् । भोजनं कारयित्वा तु तानुवाचाथ भास्करिः ॥ यम उवाच । यूयं सर्व्वे महात्मानो नरकक्लेशभीरवः । निजपुण्यप्रभावेन गम्यतां परमं पदम् ॥ संसारे जन्म संप्राप्य पुण्यं यः कुरुते नरः । स मे पिता स मे भ्राता स मे बन्धुः स मे सुहृत् ॥ इत्युक्ता धर्म्मराजेन ते सर्व्वे द्विजसत्तम् ! । दिव्यं रथं समारुह्य नारायणपुरं ययुः ॥” इति पाद्मोत्तरे क्रियायोगसारे २२ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=पुण्यात्मा&oldid=149334" इत्यस्माद् प्रतिप्राप्तम्