पुनःपुनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनःपुनः [र्] व्य, (पुनर् + वीप्सायां द्वित्वम् ।) वारंवारम् । तत्पर्य्यायः । मुहुः २ शश्वत् ३ अभीक्ष्णम् ४ असकृत् ५ । इत्यमरः । ३ । ४ । १ ॥ वारंवारेण ६ पौनःपुन्यम् ७ प्रतिक्षणम् ८ । इति शब्दरत्नावली ॥ (यथा, चाणक्ये । “अतिथिर्बालकश्चैव राजा भार्य्या तथैव च । अस्ति नास्ति न जानन्ति देहि देहि पुनः- पनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पुनःपुनः&oldid=149387" इत्यस्माद् प्रतिप्राप्तम्