पुनरुक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनरुक्तम्, क्ली, (वच + भावे क्तः । पुनः पुनर्व्वार- मुक्तम् ।) पुनर्व्वारकथनम् । यथा, -- “आपाततो यदर्थस्य पौनरुक्त्येव भाषणम् । पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ॥” इति साहित्यदर्पणम् ॥ (यथाह गोतमः । ५ । ५७ -- ५८ । “शब्दार्थयोः पुनर्व्वचनं पुनरुक्तमन्यत्रानु- वादात् ॥” “पुनर्वचनं पुनरुक्तं तस्य विभागार्थं शब्दार्थयो- रिति । तेन शब्दपुनरुक्तमर्थपुनरुक्तञ्च लभय्ते । अनुवादेऽतिव्याप्तिवारणाय अन्यत्रानुवादादिति अनुवादान्यत्वे सतीत्यर्थः । निष्प्रयोजनं पुन- रभिधानं हि पुनरुक्तं अनुवादस्तु व्याख्यारूपः सप्रयोजनक एवेति भावः । तथाच समा- नार्थकपूर्ब्बानुपूर्ब्बीकशब्दप्रयोगः शंब्दपुनरु- क्तम् । समानार्थकभिन्नानुपूर्ब्बीकशब्दस्य निष्प्रयो- जनं पुनरभिधानमर्थपुनरुक्तम् । आद्यं यथा घटो घट इति । द्वितीयं यथा, घटः कलस इति । एतस्य प्रमादादिना सम्भवः ॥” * ॥ पुनरुक्तभेदान्तरमाह । “अर्थादापन्नस्य स्वशब्देन पुनरभिधानम् ।” “पुनरुक्तमित्यनुवर्त्तते । यस्मिन्नुक्ते यस्यार्थस्यौत्- सर्गिकी प्रतिपत्तिर्भवति तस्य तेन रूपेण पुनरभिधानं पुनरुक्तम् । इदमेव च अर्थपुन- रुक्तमिति गीयते । यथा वह्निरुष्ण इति पूर्ब्ब- पदाक्षिप्तोक्तिरियम् । उष्णो वह्निरिति उत्तर- पदाक्षिप्तोक्तिः । एवं बहिरस्ति गेहे नास्तीति विध्याक्षिप्तोक्तिः । जीवन् गेहे नास्ति बहि- रस्तीति निषेधाक्षिप्तोक्तिः । पुनरुक्तत्रैविध्यञ्चेदं भाष्यादि सम्मतम् । तस्यैव शब्दस्य पुनरभि- धानं पर्य्यायेणाभिधानम् अन्यत् पुनरर्थपुन- रुक्तमित्याहुः ॥” * ॥ पुनर् + वच + कर्म्मणि क्तः । पुनःकथिते, त्रि । यथा, महाभारते । ८ । ४ । १३ । “ब्रूहि सञ्जय ! तत्त्वेन पुनरक्तां कथामिमाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनरुक्त¦ त्रि॰ पुनर्वाररुक्तम्। पुनर्वारं कथिते

१ अर्थे

२ शब्देच। तत्र शब्दस्य पुनरुक्तत्वे तदर्थस्यापि पुनरुक्तत्वंनियतम् ततः उक्था॰ तद्वेत्तीत्यर्थे ठक् पौनरुक्तिकतद्वेत्तरि त्रि॰। शब्दपरत्वे ऋगनयनादित्वात् अण्। पौनरुक्त तच्छब्दाध्येतरि त्रि॰। भावे क्त।

३ पुनःकथने न॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनरुक्त¦ mfn. (-क्तः-क्ता-क्तं) Repeated, said over again. n. (-क्तं) Tautology, repetition. E. पुनर्, and उक्त said.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनरुक्त/ पुनर्--उक्त mf( आ)n. said -agagain , reiterated , repeated MBh. R. etc. ( ibc. and 625706 अम्ind. repeatedly)

पुनरुक्त/ पुनर्--उक्त mf( आ)n. superfluous , useless Vikr. iii , 7/8 Hcar.

पुनरुक्त/ पुनर्--उक्त n. repetition , useless repetition , tautology S3rS. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=पुनरुक्त&oldid=308085" इत्यस्माद् प्रतिप्राप्तम्