पुनर्भू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्भूः, स्त्री, (पुनर्भवति जायात्वेनेति । भू + क्विप् ।) द्विरूढा । तत्पर्य्यायः । दिधिषूः २ । इत्यमरः । २ । ६ । २३ ॥ “अक्षतयोनित्वाद्विधवा पुनरुह्यते । इत्यसावन्यस्य भूत्वा अन्यस्य पुन- र्भवतीति क्विपि पुनर्भूः । धिष्यते निन्दिततया शब्द्यते द्बिधिषूः धिष शब्दे नाम्नीति कूः निपा- तनाद्द्वित्वम् ।” इति तट्टीकायां भरतः ॥ सा त्रिविधा । यथा, -- “परपूर्ब्बास्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्व्विधा ॥ कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता । पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्म्मणा ॥ देशधर्म्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसान्यस्मै सा द्बितीया प्रकीर्त्तिता ॥ उत्पन्नसाहसा उत्पन्नव्यभिचारा । असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते । सवर्णाय सपिण्डाय सा तृतीया प्रकीर्त्तिता ॥” इति मिताक्षरा ॥ * ॥ पुनर्व्वारजाते, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्भू स्त्री।

द्विवारमूढा

समानार्थक:पुनर्भू,दिधिषु

2।6।23।1।1

पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः। स तु द्विजोऽग्रे दिधिषूः सैव यस्य कुटुम्बिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्भू¦ स्त्री पुनर्भवति जायात्वेन भू--क्विप। एकेन व्यूढायांपुनरन्यगृहीतायां भार्य्यायाम् अन्यपूर्वायाम् अन्यपूर्वा-शब्दे

२१

३ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्भू¦ mfn. (-र्भूः-र्भूः-र्भु) Re-born, regenerated. f. (-र्भूः)
1. A virgin widow re-married.
2. Re-existence. E. पुनर् again, (a wife, &c.) भू being.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्भू/ पुनर्--भू mfn. being renewed , restored to life or youth RV. AV.

पुनर्भू/ पुनर्--भू f. a virgin widow re-married AV. etc.

पुनर्भू/ पुनर्--भू f. re-existence W.

"https://sa.wiktionary.org/w/index.php?title=पुनर्भू&oldid=308455" इत्यस्माद् प्रतिप्राप्तम्