पुरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरः, पुं, (पिपर्त्तीति । पॄ + कः ।) गुग्गुलुः । इत्यमरः । २ । ४ । ३६ ॥ (अस्य पर्य्यायो यथा, -- “गुग्गुलुर्देवधूपश्च जटायुः कौशिकः पुरः । कुम्भोलूखलकं क्लीवे महिषाक्षः पलङ्कषः ॥” “अम्लं तीक्ष्णमजीर्णञ्च व्यवायं श्रममातपम् । मद्यं रोषन्त्यजेत् सम्यग्गुणार्थी पुरसेवकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) पीतझिण्टी । इति शब्दचन्द्रिका ॥

पुरः, [स्] व्य, (पूर्ब्बस्मिन् पूर्ब्बस्मात् पूर्ब्बो वा एवं पूर्ब्बस्याः पूर्ब्बस्यामित्यादि । पूर्ब्ब + “पूर्ब्बा- धरावराणामसि पुरधवश्चैषाम् ।” ५ । ३ । ३९ । इति असि तद्योगेन पुर् इत्यादेशश्च ।) अग्रतः । इत्यमरः । ३ । ४ । ७ ॥ (यथा, कुमारे । ४ । ३ । “अयि जीवितनाथ ! जीवासी- त्यभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥”) प्राच्यां दिशि । प्रथमे काले । (यथा, अभि- ज्ञानशकुन्तलायाम् । ७ अङ्के । “उदेति पूर्ब्बं कुसुमं ततः फलं घनोदयः प्राक् तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं विधि- स्तव प्रसादस्य पुरस्तु सम्पदः ॥”) पुरार्थे । अतीते । इति तट्टीकायां भरतः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरः in comp. for पुरस्.

"https://sa.wiktionary.org/w/index.php?title=पुरः&oldid=308972" इत्यस्माद् प्रतिप्राप्तम्