पुरश्चरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरश्चरणम्, क्ली, (पुरोऽग्रतश्चरणं मन्त्रजपादि- पञ्चाङ्गकर्म्माचरणमिति ।) पुरस्क्रिया । सा तु स्वेष्टदेवतामन्त्रसिद्ध्यर्थं तद्देवतापूजापूर्ब्बकं तन्- सहसं साधको नित्यं सर्व्वसिद्धिपरायणः । पुरश्चरणमेतद्धि तन्त्रे तन्त्रे निरूपितम् ॥ संक्रान्त्यादिषु सर्व्वासु विषुवादिषु पार्व्वति ! । संक्रान्त्यनुसारेणैव वर्द्धयेच्च सहस्रकम् ॥ पूर्ब्बमुखो जपेन्मन्त्रं धनार्थी सर्व्वदा प्रिये ! । शत्रुनाशाय सततं दक्षिणाभिमुखो जपेत् ॥” इति स्वतन्त्रे तन्त्रे हरगौरीसंवादे रहस्यपुर- श्चरणविधिः ॥ * ॥) अत्र आगमकल्पद्रुमोक्त- कूर्म्मचक्रंतच्छब्दे द्रष्टव्यम् । हरिभक्तिविलासीय- पुरश्चरणन्तु तद्ग्रन्थे सप्तदशविलासे दर्शनीयम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरश्चरण¦ न॰ पुरस् + चर--भावे ल्युट्।

१ अग्रत आचरणेतन्त्रोक्ते

२ गृहीतमन्त्रसिद्धिहेतुप्रयोगभेदे तत्प्रकारादितन्त्रसारे उक्तं यथा
“अथ पुरश्चरणं योगिनीहृदये
“गुरोराज्ञां समादायशुद्धान्तःकरणो नरः। ततः पुरस्क्रियां कुर्य्यान्मन्त्रसंसिद्धिकाम्यया”। तस्य नित्यतामाह
“जीवहीनो यथा देहीसर्वकर्मसु न क्षमः। पुरश्चरणहीनोऽपि तथा मन्त्रःप्रकीर्त्तितः। तस्मादादौ स्वयं कुर्य्याद्गुरुं वा कार-येद्बुधः” योगिनीहृदये
“गुरोरभावे विप्रं वा सर्वप्राणि-हिते रतम्। स्निग्धं शास्त्रविदं मित्रं नानागुणसम-न्वितम्। स्त्रियं वा सद्गुणोपेतां सपुत्रां विनियोजयेत्। आदौ पुरस्क्रियां कर्तुं स्थाननिर्णय उच्यते”। योगिनीहृदये
“पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम्। तीर्थ-प्रदेशाः सिन्धतां सङ्गमः पावनं वनम्। उद्यानानि वि-विक्तानि बिल्वमूलं तटं गिरेः। तुलसीकाननं गोष्ठंवृषशून्यं शिवालयम्। अश्वत्थामलकीमूलं गोशालाजलमध्यतः। देवतायतनं कूलं समुद्रस्य निजं गृहम्। साधने तु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम्। अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति”। वायवीयसंहि-तायामपि
“सूर्यस्याग्रे गुरोरिन्दोर्दीपस्य च जलस्यच। विप्राणाञ्च गवां चैव सन्निधौ शस्यते जपः”। तथा
“गृहे शतगुणं विद्याद्गोष्ठे लक्षगुणं भवेत्। कोटिर्देवा-लये पुण्यमनन्तं शिवसन्निधौ। गृहे गोष्ठे तडागे चनदीनदशिवालये। गुरोर्वा सन्निधिर्यत्र स जपः प-रमोमतः। म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवर्जिते। एका-न्तप्रवणे निन्दारहिते भक्तिसंयुते। स्वदेशे धार्मिकेदेशे सुभिक्षे नि{??}रम्ये भक्तजनस्थाने निव-सेत्तापसः पिये!।{??}णां सन्निधाने च चितैकाग्र्य-स्थले तथा। प्रेतभूम्यादिकञ्चैव तत्तत्कल्पप्रकाशितम्। [Page4365-b+ 38] एषामन्यतभं स्थानमाश्रित्य जपमाचरेत्। यत्र ग्रामेजपेन्मन्त्री तत्र कूर्मं विचिन्तयेत्” गौतमीये
“पर्व्वतेसिन्धुतीरे वा पुण्येऽरण्ये नदीतटे। यदि कुर्य्यात्पुरश्चर्य्यां तत्र कूर्मं न चिन्तयेत्। ग्रामे वा यदि वावास्तौ गृहे तञ्च विचिन्तयेत्” रुद्रयामले
“जपमेकगुणंगेहे गोष्ठे दशगुणं भवेत्। वनान्तरे शतगुणं तडागेच सहस्रकम्। नदीतीरे लक्षगुणं नगाग्रे कोटिसम्मि-तम्। शिवालये कोटिशतमनन्तं गुरुसन्निधौ”। अथपुरश्चरणे भक्ष्यादिनियमाः गौतमीये
“पुरश्चरणकृन्मन्त्रीतत्र भक्ष्यं विवेचयेत्। अन्यथा भोजनाद्दोषात् सिद्धि-हानिः प्रजायते। शस्तान्नञ्च समश्नीयान्मन्त्रसिद्धिस-मीहया। तस्मान्नित्यं प्रयत्नेन शस्तान्नाशी भवेन्नरः”। अगस्त्यसंहितायाम्
“तिलाश्चैव सितामुद्गाः कन्दः केमुकवर्जितः। नारिकेलफलञ्चैव कदली लवनी तथा। आ-म्रप्तामलकञ्चैव पनसञ्च हरीतकी। व्रतान्तरे प्रशस्तञ्चहविष्यं मन्यते बुधैः”। व्रतान्तर इति
“हैमन्तिकसितास्विन्नं धान्यं मुद्गास्तिला यवाः। कलायकङ्कुनी-वारा वास्तूकं हिलमोचिका। षष्टिकाः कालशाकानिमूलकं केमुकेतरत्। लवणे सिन्धुसामुद्रे गव्ये च दधि-सर्पिषी। पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी। पि-ष्पलीजीरकञ्चैव नागरङ्गकतिन्तिडी। कदली लवनोधात्री फलान्यगुडमैक्षवम्। अतैलपक्वं मुनयो हवि-ष्यान्नं प्रचक्षते। भुञ्जनो वा हविष्यान्नं शाकं याव-कमेब वा। पयोमूलं फलं वापि यत्र यत्रोपलभ्यते। रम्भाफलं तिन्तिडीकं कमलानागरङ्गकम्। फलान्ये-तानि भोज्यानि एभ्योऽन्यानि विवर्जयेत्” यत्तु योगिनीतन्त्रे
“चिञ्चाञ्च नालिकाशाकं कलायं लकुचन्तथा। कदम्बं नारिकेलञ्च व्रते कुष्माण्डकं त्यजेत्” इति तत्तुव्रतान्तरे बोद्धव्यम्। तथा वर्ज्यानि
“विवर्जयेन्मधुक्षारलवणं तैलमेव च ताम्बूलं कांस्यपात्रञ्च दिवाभोजन-मेव च”। तथा
“क्षारञ्च लवणं मांसं गृञ्जनं कांस्यभो-जनम्। माषाढकीमसूरांश्च चनकान् कोद्रवानपि। कौ-टिल्यं क्षौरमभ्यङ्गमनिवेदितभोजनम्। असङ्कल्पितकृत्यञ्च वर्जयेन्मर्दनादिकम्। स्नायाच्च पञ्चगव्येन केवला-मलकेन वा। मन्त्रजाप्यन्नपानीयैः स्नानाचननभोज-नम्। कुर्थ्याद्यथोक्तविधिना त्रिसन्ध्यं देवतार्चनम्। अपवित्रकरो नग्नः शिरसि प्रावृतोऽपि वा। प्रलपन्प्रजपेद्यावत्तावन्निस्कलमुच्यते”। नारदीये
“मृदु सीष्णं[Page4366-a+ 38] सुपक्वञ्च कुर्य्याद्वै लघुभोजनम्। नेन्द्रियाणां यथावृद्धि-स्तथा भुञ्जीत साधकः”। कुलार्णवेऽपि
“यस्यान्नपान-पुष्टाङ्गः कुरुते धर्मसञ्चयम्। अन्नदातुः फलस्यार्द्धंकर्तुश्चार्द्धं न संशयः। तस्मात्सर्वप्रयत्नेन परान्नं वर्ज-येत् सुधीः। पुरश्चरणकाले तु सर्वकर्मसु शाम्भवि!। जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात्। मनो-दग्धं परस्त्रीभिः कथं सिद्धिर्वरानने!” परान्नं भिक्षे-तरविषयम्। भिक्षायां तस्य सत्वोत्पादात् तथा च
“वैदि{??}चारयुक्तानां शुचीनां श्रीमतां सताम्। सत्कु-लस्थानजातानां भिक्षा स्यादग्रजन्मनाम्” योगिनीहृदये
“विहाय वह्निं न हि वस्तु किञ्चित् ग्राह्यं परेभ्यः सतिसम्भवे च। असम्भवे तीर्थबहिर्विशुद्धात् पर्वातिरिक्तेप्रतिगृह्य जप्यात्। तत्रासमर्थोऽनुदितं विशुद्धाद्याचेत-यावद्दिनमात्रंभक्ष्यम्। गृह्णाति रागादधिकं न सिद्धिःप्रजायते कल्पशतैरनुष्य”। सकृदुच्चरिते शब्दे प्रणवं समुदीरयेत्। प्रोक्ते पारशवे शब्दे प्राणायामं सकृच्च-रेत्। वहुप्रलापी आचम्य न्यस्याङ्गानि ततो जपेत्। क्षुतेऽप्येवं तथाऽस्पृश्यस्थानानां स्पर्शनेन च। एवमादींश्चनियमान् पुरश्चरणकृच्चरेत्। विण्मूत्रोत्सर्गशङ्कादियुक्तःकर्म करोति यः। जपार्चनादिकं सर्वमपवित्रं भवेत्प्रिये!। मलिनाम्बरकेशादिमुखदौर्गन्ध्यसंयुतः। यो जपेत्तंदहत्याशु देवता गुप्तिसंस्थिता। आलस्यं जृम्भणं निद्रांक्षुतं निष्ठीवनं भयम्। नीचाङ्गस्पर्शनं कोपं जपकालेविवर्जयेत्। एवमुक्तविधानेन विलम्बं त्वरितं विना। चक्तसङ्ख्यं जपं कुर्य्यात् पुरश्चरणसिद्धये। देवतागुरु-मन्त्राणामैक्यं सम्भावयन् धिया। जपेदेकमनाः प्रातः-कालान्मध्यन्दिनावधि। यत्सङ्ख्यया समारब्धं तत्कर्त्तव्यमहर्निशम्। यदिन्यूनाधिकं कुर्य्यात् व्रतभ्रष्टो भवेन्नरः”। मुण्डमालायाम्
“यत्सङ्ख्यया समारब्धं तज्जप्तव्यं दिनेदिने। न्यूनाधिकं न कर्त्तव्यमासमाप्तं सदा जपेत्। प्रजपेदुक्तसंख्यायाश्चतुर्गुणजपं कलौ”। अन्यत्रापि
“कतेजपस्तु कल्पोक्तो त्रेतायां द्विगुणो जपः। द्वापरे त्रिगुणःप्रोक्तश्चतुर्गुणजपः कलौ”। कुलार्णवेऽपि
“न्यूनातिरि-क्तकर्माणि न फलन्ति कदाचन। यथाविधि कृतान्येवतत्कर्माणि फलन्ति हि। भूशभ्याव्रह्मचारित्वं मौन-माचार्य्य सेविता। नित्यं त्रिषवणं स्नानं क्षुद्रकर्मविव-र्जनम्। न्मित्यपूजा नित्यदानं देवतास्तुतिकीर्त्तनम्। नैमित्तिक्तार्चनञ्चैव विश्वासो गुरुदेवथोः। जपमिष्टा द्वा-[Page4366-b+ 38] दशैते धर्माः स्युर्मनासिद्धिदाः। स्त्रीशूद्रपतितब्रात्य ना-स्तिकोच्छिष्टभाषणम्। असत्यभाषणं जिम्भभाषणं परि-वर्जयेत्। सत्येनापि न भाषेत जपहोमार्चनादिषु। अन्यथानुष्ठितं सर्वं भवत्येव निरर्थकम्”। तन्त्रे
“ऋतु-काल विना मन्त्री खस्त्रियं नापि संस्पृशेत्। मैथुनंतत्कथालापं तद्गोष्ठीः परिवर्जयेत्। पुरश्वरणकाले तुयदि स्यान्मृतसूतकम्। तथापि कृतसंकल्पो व्रतं नैवपरित्यजेत्” योगिनीहृदये
“शयीत कुशशय्यायां शुचि-वस्त्रधरः सदा। प्रत्यहं क्षालयेत् शव्यामेकाकी निभेयःस्वपेत्। असत्यभाषणं वाचं कुटलां परिवर्जयेत्। वर्ज-येद्गीतवाद्यादिश्रपणं नृत्यदर्शनम्। अम्यङ्गं गन्धले-पञ्च पुष्पधारणमेव च। त्यजदुष्णोदकस्नानमन्यदेवप्रपूजनम्”। तत्रैव
“नैकवासा जपेन्मन्त्रं वहुवासा-कुलोपि वा”। वैशम्पायनसंहितायाम्
“विपयासं नकुर्य्याच्च कदाचिदपि मोहतः। उपर्य्यधो बहिर्वस्त्रे पृ-रश्चरणकृन्नरः। विनियोगविधाने तु भवेदनियसः क्व-चित्। पतितानामन्त्यजानां दर्शने भाषणे श्रुते। क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत्। तथा तस्य च तत्-प्राप्तौ प्राणायामं वडङ्गकम्। कृत्वा सम्यग् जपेच्छेषंयद्वा सूर्य्यादिदर्शनम्”। आदिशब्दाद्वह्निब्राह्मणौ। तन्त्रान्तरे
“मनःसंहरणं शौच मौनं मन्त्रार्थचिन्त-नम्। अव्यग्रत्वमनिर्वेदो जपसम्पत्तिहेतवः। उष्णीपीकञ्चुकी नग्नो सुक्तकेशो मलावृतः। अपवित्रकराऽशुद्धःपलपन्न जपेत् क्वचित्। अनासीनः शयानो वा गच्छन्भुञ्जान एव वा। अप्रावृतौ करौ कृत्वा शिरसि प्रावृ-तोऽपि वा। चिन्ताव्याकुलचित्तो वा क्षुब्धो भ्रान्त क्षु-धान्वितः। रथ्यायामशिवे स्थाने न जप्रेत्तिमिरान्तरे। उपानद्मूढपादो वा यानशय्यागतन्तथा। प्रसार्य्य नजपेत् पादावुत्कटासन एव वा। न यज्ञकाष्ठे पाषाणे नभूमौ नासने स्थितः। मार्ज्जारं कुक्कुटं क्रौञ्चं श्वानं शूद्रंकपिं स्मरम्। दृष्ट्वाचम्य जपेच्छेषं स्पृष्ट्वा स्नानं पिधीयते”।
“एवं जपं पुरा कृत्वा तेजोरूषं समर्पयेत्। देवस्यदक्षिणे हस्ते कुशपुष्पार्घवारिभिः। सफलं तद्विमाव्यैवप्राणामामं समाचरेत्। जपस्यादौ जपान्ते च त्रितयंत्रितयञ्चरेत्”। शक्तिविषये देव्या वामहस्ते तथा च
“एवं जपं पुरा कृत्वा गन्धाक्षतकुशोदकैः। जपं सम-र्पयेद्देव्या वामहस्ते विचक्षणः”।
“जपान्ते प्रत्यहं मन्त्रीहोमयेत्तद्दशांशतः। तर्पणञ्चाभिषेकञ्च तत्तद्दशांसतो मुने!। [Page4367-a+ 38] प्रत्यहं भोजयेद्विप्रान् न्यूनाधिक्यप्रशान्तये। अथ वा सर्व-सम्पूर्त्तौ होमादिकमयाचरेत्”। मुण्डमालायाम्
“तस्ययावान् जपः प्रोक्तस्तद्दशांशमनुक्रमात्। तत्तद्द्रय्यैर्ज-पस्यान्ते होमं कुर्ब्याद्दिने दिने”। पुरश्चरणचन्द्रिका-याञ्च
“ततो जपदशांशेन होमं कुर्य्याद्दिने दिने। अथवा लक्षसंख्यायां पूर्णायां होममाचरेत्”। तथ होमाद्यशक्तौ सनत्कुमारीये
“यद्यदङ्गं भवेद्भग्नं तत्-संख्याद्विगुणो जपः। होमाभावे जपः कार्य्यो होम-संख्याचतुर्गुणः। विप्राणां, क्षत्रियाणाञ्च रससङ्ख्यागुणः स्मृतः। वैश्यानां वसुसंख्याकमेवं स्त्रीणामयंविधिः। यं वर्णमाश्रितः शूद्रः स च तस्य विघिञ्चरेत। अनाश्रितस्य शूदस्य दिक्संख्याकः समीरितः। शूद्रस्यविप्रभृत्यस्य तत्पत्न्याः सदृशो जपः”। अत्राव्यशक्तश्चेद्-योगिनीहृदये
“होमकर्मण्यशक्तानां विप्राणां द्विगुणोजपः। इतरेषान्तु वर्णानां त्रिगुणादिः समीरितः। त्रिगुणादिः होमसंख्यात्रगुणजपः क्षत्रियेण कार्य्यः। वैश्येन चतुर्गुणः। शूद्रेण पञ्चगुणः कार्यः। तदुक्तं{??}लप्रकाशे
“यद्यदङ्गं विहीनं स्यात्तत्संख्याद्विगुणोजपः। कुर्वीत त्रिचतुःपञ्च यथासख्यं द्विजादयः”। एतेन स्त्रीशूद्रादीनां होमाधिकारः। तथा च शूद्राणां{??}स्वनिति कुण्डप्रकरखे शारदायाम्। स्त्रीणां होमा-धिकारश्च तत्रैव
“लाजैस्त्रिमधुरोपेतैर्होमः कन्यां प्रय-च्छति। अनेन विधिना कन्या वरमाप्नोति वाञ्छितम्”। अत स्त्रीआं होमाविकारः। तच्च ब्राह्मणद्वारा तथा चतन्त्रे
“ओद्धारोच्चारणा{??}भात् शालग्रामशिलार्चनात्। ब्राह्मणौगमनाच्चैव गूद्र{??}तां व्रजेत्”। तथा स्त्री-{??} सर्ववैदिककर्मसु शूद्रतुल्यत्वप्रतिपादनात् यथा
“स्त्रीशूद्रकृरसंस्पर्शो वज्रषातसमो मम” इति भगवद्व-चनात् तथा नारा{??}
“अष्टाक्षरो महामन्त्रः सप्तार्यः शूद्रयोषितोः। प्र{??} यो मन्त्रो न स्त्रीगूद्रेपशखते” इति सर्वत्र स्त्रीणां शूद्रवद्{??}वहारः। सर्वेषांवा द्विगुणो जपः। तथा च तन्त्रान्तरे
“यद्यदङ्गंविहीवेत तत्संख्याद्विगुणो जपः। कर्त्तव्यश्चाङ्गसिड्यर्थंतदशक्तेन भक्तितः। न चेदङ्गं विहीयेत तद्वि-शिष्टमवाप्नुयात्” तथागस्त्यसंहितायाम्
“यदिहोमेऽप्यशक्तः स्यात् पूजायां तर्पणेऽपि वा। तावत्-संख्यजपेनैव ब्राह्मणारारधनेन च। मवेदङ्कद्वयेनैवपुरश्चरणमाप्यते”। तत्र ब्राह्मणमोजनमावश्यकमेव[Page4367-b+ 38]
“सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये। विप्राराधाम-मात्रेण व्यङ्गं साङ्गं भवेद्ध्रुवम। दीक्षाहीमान प{??}न्यस्तु भोजयेद्वा स्वमन्दिरे। स याति परमेशानि! नरका-नेकविंशतिम्”। पशुद्विधा अदीक्षितः कुलाचारनि-न्दकश्च यथा कुलार्णने
“अदीक्षितः कुलाक्षारनिन्दकोद्विविधः पशुरिति”। नैवेद्यदानेऽपि
“न पशुभ्यो न वाऽ-द्विजे” इति निन्दाश्रवणाच्च सर्वत्रायं विधिरिति सम्प्र-दायः।
“एवं यः कुरुते देवि पुरश्चर्य्यादिकं प्रिये।{??}र्व-पापविनिर्मुक्तो देवलायुज्यमाप्नुयात्”। ततश्च
“न{??}दक्षिणान्दद्याद्भोजनाच्छादनादिनिः। गुरुसन्तोधमात्रेखमन्त्रसिद्धिर्भवेत् ध्रुवम्। सम्यकसिद्धैकमन्त्रस्य पञ्चा-ङ्गोपासनेन च। सर्वे मन्त्राश्च सिद्ध्यन्ति तत्प्रसादात्सुरेश्वरि!। गुरुमूलमिद सर्वमित्याहुस्तन्त्रवेदिनः। एक-ग्रामे स्थितो नित्यं गत्वा वन्देत वै गुरुम्। गुरुरेव परं-व्रह्म तस्मादादौ तमर्चयेत्। तदन्ते महतीं पूजां कुर्य्यात्साधकसत्तमः। सुवासिनीं कुमारीञ्च भूषणैरमिभूष-येत्। मिष्टान्न वहुशः कार्य्यं भुञ्जीत बान्धवैः सह। एवंसिद्धमनुर्मन्त्री साधयेत् सकलेप्सितान्”। तन्त्रे
“अथ वान्यप्रकारेण पुरश्चरणमिव्यते। ग्रहणेऽर्कस्यचेन्दोर्वा शुचिः पूर्वमुपोषितः। नद्यां समुद्रगामिन्यांनाभिमात्रोदके स्थितः। ग्रासाद्विमुक्तिपर्य्यन्तं जपेन्म-न्त्रमनन्यधीः। इति कृत्वा न सन्देहो जपस्य फलभागभवेत्”। नद्यभावे
“यद्वा पुण्योदके स्तात्वा शुचिः पूर्व-मुपोषितः। ग्रहणादिविनीक्षान्तं जपेन्मन्त्रं समा-हितः” उपवासासामर्थ्ये तु तत्रैव
“अथ वान्य-प्रकारेण पौरश्चारणिको विधिः। चन्द्रसूर्योपरागे चस्नात्वा प्रयतमानसः। स्पर्शाद्विमोक्षपर्य्यन्तं जपेन्मन्त्रंसमाहितः। जपाद्दशांशतो होमं तथा होमात्तु त-र्पणम्। एवं कृत्वा तु मन्त्रस्य जायते सिद्धिरुत्तमा। चन्द्रसूर्य्योपरागे तु ये शक्ताः परसेविनः। तेषां विद्यान सिद्ध्यन्ति परं नरकगामिनः। सूर्य्याचन्द्रमसोः पर्वप्राप्यापि च पुरस्क्रियाम्। ये मूढा न च कुर्वन्ति तेभवन्ति कुलद्रुहाः” इति कुलार्णवनचनात् पुरश्चरण-स्वावश्यकत्वमेवेति। गोपालमन्त्रतर्पणं तु होमसमसंख्यकं यथा
“इह गोपालमन्त्राणां तर्पणं होम-संख्यया” इति।
“दृष्ट्वा ज्ञात्वा ससङ्कल्पो विमोक्षान्तंजपञ्चरेत्। तावद्यज्ञादिकं कुर्थाद्ग्रहणान्ते शुचिः-पुमान्। एवंजपे मन्त्रसिद्धिर्भवत्येव न संशयः”। ग्रहणे[Page4368-a+ 38] जपस्यावश्यकत्वम्
“श्राद्धादेरनुरोधेन यदि जाप्यं त्यजे-न्नर। स भवेद्देवताद्रोही पितॄन् सप्त नयत्यधः” इतिसनत्कुमारीयवचनादिति केचित्। वस्तुतस्तु आरब्धपुरश्चरणविषयमिदम्। तथा हि
“आरब्धे पुरश्चरणेयदि ग्रहो मवेत् तदा। श्राद्धादेरनुरोधेन जपं नैवत्यजेत् नरः”। एवं रात्रावपि पुरश्चरणे बोद्धव्यम् इतिसर्वसमञ्जसम्। नारदतन्त्रे
“रोहिणी श्रवणार्द्रा चघनिष्ठा चोत्तरात्रयम्। पुष्या शतभिषा हस्ता पुरश्चरण-कर्मणि। पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा। त्रयोदशी च दशमी प्रशस्ता सर्वकर्मणि। सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणि। पुरश्रर्य्यां प्रकुर्वाणो मासर्क्षा-दीन् न शोधयेत्”। योगिनीहृदये
“कल्पोक्तबिधिना मन्त्रीकुर्य्याद्धोमादिकन्ततः। कथ वा तद्दशांशेन होमादींश्चसमाचरेत्” तथा
“अनन्तरं दशांशेन क्रमाद्धोमादिकञ्च-रेत्। वदन्ते महतीं पुजां कुर्य्यात् ब्राह्मणभोजनस्। ततो मन्त्रस्य सिद्ध्यर्थं गुरुं संपूज्य तोषयेत्। एवञ्चमन्त्रसिद्धिः स्याद्देवता च प्रसीदति। दीक्षहीनान् पशून्यस्तु भोजवेद्वा स्वमन्दिरे। स याति परमेशानि! नर-कानेकविंशतिम्”। यद्यपि पुरश्चरणपदं पञ्चाङ्गपर तथाच
“जपहोसौ तर्पणञ्चाभिषेको विप्रभोजनम्। पञ्चा-ङ्गीपासन लोके पुरश्चरणमिष्यते” तथापि ग्रहणादौपुरश्चरणपदं गौणं जपमात्रम्
“सूर्य्योदयं समारभ्ययाबत् सूर्य्योदयान्तरम्” इत्यादौ तथादर्शनात् तत्रहोमादेरभावात्। तर्हि कथं ग्रहण पुरश्चरणे हो-मादिरिति वेत्। वचनादेव जायते न च पुरश्चरणस्यपुञ्चाङ्गत्वात् सर्वत्र तदेव स्यादिति वाच्य। ग्रहणेपुनस्तदिघानमनर्यकं स्यात्। किञ्च ग्रहणे होमादिनिय-मान् नान्यत्र होमादिः। ग्रहणपुरश्चरणे होमादि-विघानन्तु प्रकृतीभूतपञ्चाङ्गपुरश्चरणतुल्पताबोधनाय। अतएव ग्रहणे पञ्चाङ्गस्वरूपपुरश्चरणकृतो मुख्यप्रयोगेऽप्यधिकार इति प्रकटीकृतम्। तदकरणे पुनः केबल-जपमात्रपुरश्चरणे नाधिकार इति सर्वसम्मतम्। पुर-श्चरणकालस्तु वाराहीतन्त्रे
“चैत्रे मास्यथा वा कुर्य्यात्शुभर्क्षे गुरुशासनात्। द्वादश्यां शुक्लपक्षे तु माधवे मासितत्तिथौ। आरभेदमलायां वै पुरश्चर्य्यां विशुद्धये”। इदन्तु योपालविषयम्। वैशम्पायनसंहितायाम्
“चन्द्र-तारानुकूले च शुक्लपक्षे शुमेऽहनि। आरभेन्मकरादौच सुप्ते विष्णौ जपेन्न च। चन्द्रतारानुकूले च शुक्लपक्षे[Page4368-b+ 38] शुभेऽहनि। आरभेन्मकरादौ च हरौ सुप्ते न चार-भेत्”। प्रतिप्रसवो रुद्रयामले
“कार्त्तिकाश्विनवैशाखमाथे-ऽथ मार्गशीर्षके। फाल्गुने श्रावणे दीक्षा षुरश्चर्व्याप्रशस्यते। रवौ गुरौ सिते सोमे कर्त्तव्यं बुधवासरे। चन्द्रतारानुकूले च पुरश्चरणकर्म तत्। ग्रहणे च महा-तीर्थे न कालमवधारयेत्”। ग्रस्तास्ते ग्रस्तोदये च दीक्षापुरश्चरणयोर्निषेधमाह तन्त्रान्तरे
“ग्रस्तेऽस्ते ह्युदितेनैव दीक्षां कुर्य्याज्जपं प्रिये!। कृते नाशोऽभवेदाशु ह्यायुःस्त्रीसुतसम्पदाम्”। क्यप्। पुरश्चर्य्याप्यत्र स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरश्चरण¦ n. (-णं)
1. An introductory rite in Tantra sha4stra.
2. Repeti- tion of the name of a deity accompanied by burnt offering. E. पुरस्, चर to go, aff. ल्युट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरश्चरण/ पुरश्--चरण mfn. making preparations , preparatory to( comp. ; 625894 -ताf. ) MBh.

पुरश्चरण/ पुरश्--चरण n. a preparatory or introductory rite , preparation S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरश्चरण न.
(पुरस् + चर् + ल्युट्) यजमान की दीक्षा (से सम्बद्ध विवरण), बौ.श्रौ.सू. 2.6.2 (अग्न्याधेय)। पुरस्तात् (होम) पु. प्रातःकालिक आहुति के काल के अतिक्रमण अथवा समाप्त होने पर दी जाने वाली प्रायश्चित्तिक आहुति का नाम, अ.वे. प्राय, 1.2; क्रि.वि. 1. पूर्व की ओर, भा.श्रौ.सू. 7.1०.8; 2. (ध्रूवा के अञ्जन = लेपन के) पूर्व, भा.श्रौ.सू. 7.11.3; द्रष्टव्य-‘आज्यशस्त्र’ में पुरस्ताज्जप।

"https://sa.wiktionary.org/w/index.php?title=पुरश्चरण&oldid=479295" इत्यस्माद् प्रतिप्राप्तम्