पुरुषः

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषः, पुं, (पुरति अग्रे गच्छतीति । पुर + “पुरः कुषन् ।” उणा० ४ । ७४ । इति कुषन् ।) पिपर्त्ति पूरयति बलं यः पुर्षु शेते य इति वा । पुमान् । (यथा, मनौ । १ । ३२ । “द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषोऽभवत् । अर्द्धेन नारी तस्यां स विराजमसृजत् प्रभुः ॥”) तत्पर्य्यायः । पूरुषः २ ना ३ नरः ४ पञ्चजनः ५ पुमान् ६ अर्थाश्रयः ७ अधिकारी ८ कर्म्मार्हः ९ जनः १० अर्थवान् ११ । इति राजनिर्घण्टः ॥ मनुष्यः १२ मानवः १३ मर्त्यः १४ मानुषः १५ मनुः १६ । इति शब्दरत्नावली ॥ रसिकराजः १७ घनकामधामा १८ मदनशायकाङ्कः १९ मन्मथशायकलक्ष्यः २० । इति कविकल्पलता ॥ स चतुर्विधः । यथा, -- “शशो मृगोवृषञ्चाश्वो नृणां जातिचतुष्टयम् ॥” शशादीनां लक्षणं यथा, -- विष्णुः । इति शब्दरत्नावली ॥ (स हि पुराण- पुरुष एव । यथा, हरिवंशे । १२८ । २० । “एवं पुराणः पुरुषो विष्णुर्वेदेषु पठ्यते । अचिन्त्यश्चाप्रमेयश्च गुणेभ्यश्च परस्तथा ॥” शिवः । यथा, महाभारते । १४ । ८ । १४ । “याम्यायाव्यक्तरूपाय सद्वृत्ते शङ्कराय च । क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च ॥” जीवः । यथा, शिवपुराणे वायुसंहितायां पूर्ब्ब- भागे । ४ । १६ । “प्रकृतिः क्षरमित्युक्तं पुरुषोऽक्षर उच्यते । ताविमौ प्रेरयत्यन्यः स परः परमेश्वरः ॥”) दुर्गा । यथा, -- “महानिति च योगेषु प्रघानश्चैव कथ्यते । त्रिगुणा व्यतिरिक्ता सा पुरुषश्चेति चोच्यते ॥” इति देवीपुराणे ४५ अध्यायः ॥ तस्य पञ्चविंशतितत्त्वात्मकत्वं जडत्वञ्च यथा, -- “एभिः सम्पादितं भुङ्क्ते पुरुषः पञ्चविंशकः । ईश्वरेच्छावशः सोऽपि जडात्मा कथ्यते बुधैः ॥” इति मात्स्ये तत्त्वकथनावसारे ७ अध्यायः ॥ (अश्वस्थानकभेदः । यथा, माघे । ५ । ५६ । श्लोकटीकायां मल्लिनाथधृतवचनम् । “पश्चिमेनाग्रपादेन भुवि स्थित्वाग्रपादयोः । ऊर्द्ध्वप्रेरणया स्थानमश्वानां पुरुषः स्मृतः ॥”) मेषमिथुनसिं हतुलाधनुःकुम्भराशयः । यथा, -- “क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च ओजोऽथ युग्मं विषमः समश्च । चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः ॥” पुरुषग्रहा यथा, -- “भौमार्कजीवाः पुरुषाः क्लीवौ सोमजभानुजौ । स्त्र्याख्यौ भार्गवचन्द्रौ द्वौ तत्पतित्वात्तथोच्यते ॥” पुरुषनक्षत्राणि यथा, -- “हस्तो मूलश्रवणपुनर्व्वसूमृगशिरस्तथा पुष्यः । गर्भाधानादिकार्य्येषु पुन्नामायं गणः शुभदः ॥” इति ज्योतिस्तत्त्वम् ॥ तद्वैदिकपर्य्यायः । मनुष्याः १ नरः २ धवाः ३ जन्तवः ४ विशः ५ क्षितयः ६ कृष्णयः ७ चर्ष- ण्यः ८ नहुषः ९ हरयः १० मर्य्याः ११ मर्त्त्याः १२ मर्त्ताः १३ व्राताः १४ तुर्व्वशाः १५ हृह्यवः १६ आयवः १७ यदवः १८ अनवः १९ पूरवः २० जगतः २१ तस्थुषः २२ पञ्चजनाः २३ विवस्वन्तः २४ पृतनाः २५ । इति वेदनिघण्टौ २ अध्यायः ॥

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषः [puruṣḥ], [पुरि देहे शेते शी-ड पृषो˚ Tv.; पुर्-अग्रगमने कुषन् Uṇ. 4.74]

A male being, man; अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् Mk.3.27; Ms.1.32;7.17;9.2; R.2.41.

Men, mankind.

A member or representative of a generation.

An officer, functionary, agent, attendant, servant.

The height or measure of a man (considered as a measure of length); द्वौ पुरुषौ प्रमाणमस्य सा द्विपुरुषा-षी परिखा Sk.

The soul; द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च Bg.15.16 &c.

The Supreme Being, God (soul of the universe); पुरातनं त्वां पुरुषं पुराविदः (विदुः) Śi.1.33; R.13.6.

A person (in grammar); प्रथम- पुरुषः the third person, मध्यमपुरुषः the second person, and उत्तमपुरुषः the first person, (this is the strict order in Sk.).

The pupil of the eye.

(In Sāṅ. phil.) The soul (opp. प्रकृति); according to the Sāṅkhyas it is neither a production nor productive; it is passive and a looker-on of the Prakṛiti; cf. त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् Ku.2.13 and the word सांख्य also.

The soul, the original source of the universe (described in the पुरुषसूक्त); सहस्रशीर्षः पुरुषः सहस्राक्षः सहस्रपात् &c.

The Punnāga tree.

N. of the first, third, fifth, seventh, ninth, and eleventh signs of the zodiac.

The seven divine or active principles of which the universe was formed; तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् Ms.1.19. -षी A woman. -षम् An epithet of the mountain Meru. -Comp. -अङ्गम् the male organ of generation. -अदः, -अद् m. 'a man-eater', cannibal, goblin; अवमेने हि दुर्बुद्धिर्मनुष्यान् पुरुषादकः Mb.3.275.27.-अधमः the vilest of men, a very low or despicable man.

अधिकारः a manly office or duty.

calculation or estimation of men; संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या Ki.3.51. -अन्तरम् another man.

अयणः, अर्थः any one of the four principal objects of human life; i. e. धर्म अर्थ, काम and मोक्ष.

human effort or exertion (पुरुषकार); धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः Agni P.; H. Pr.35.

something which when done results in the satisfaction of the performer; यस्मिन् कृते पदार्थे पुरुषस्य प्रीतिर्भवति स पुरुषार्थः पदार्थः ŚB. on MS.4.1.2. -अस्थिमालिन् m. an epithet of Śiva.

आद्यः an epithet of Viṣṇu.

a demon. -आयुषम्, -आयुस् n. the duration of a man's life; अकृपणमतिः कामं जीव्याज्जनः पुरुषायुषम् Ve.6.44; पुरुषायुषजीविन्यो निरातङ्का निरीतयः R.1. 63. -आशिन् m. 'a man-eater', a demon, goblin. -इन्द्रः a king.

उत्तमः an excellent man.

the highest or Supreme Being, an epithet of Viṣṇu or Kṛiṣṇa; यस्मात् क्षरमतीतो$हमक्षरादपि चोत्तमः । अतो$स्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ Bg.15.18.

a best attendant.

a Jaina.

N. of a district in Orissa sacred to Viṣṇu.

कारः human effort or exertion, manly act, manliness, prowess (opp. दैव); एवं पुरुषकारेण विना दैवं न सिध्यति H. Pr.32; दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता Y.1.349; cf. 'god helps those who help themselves'; अभिमतसिद्धिर- शेषा भवति हि पुरुषस्य पुरुषकारेण Pt.5.3; Ki.5.52.

manhood, virility.

haughtiness, pride. -कुणपः, -पम् a human corpse. -केसरिन् m. man-lion, an epithet of Viṣṇu. in his fourth incarnation; पुरुषकेसरिणश्च पुरा नखैः Ś.7.3. -ज्ञानम् knowledge of mankind; Ms.7.211.-तन्त्र a. subjective. -दध्न, -द्वयस् a. of the height of a man. -द्विष् m. an enemy of Viṣṇu. -द्वेषिणी an illtempered woman (who hates her husband).

नाथः a general, commander.

a king. -नियमः (in gram.) a restriction to a person. -पशुः a beast of a man, brutish person; cf. नरपशु. -पुङ्गवः, -पुण्डरीकः a superior or eminent man. -पुरम् N. of the capital of Gāndhāra, q. v. -बहुमानः the esteem of mankind; निवृत्ता भोगेच्छा पुरुषबहुमानो विगलितः Bh.3.9. -मानिन् a. fancying oneself a hero; कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते Rām.2.24.35. -मेधः a human sacrifice. -वरः an epithet of Viṣṇu. -वर्जित a. desolate.

वाहः an epithet of Garuḍa.

an epithet of Kubera. -व्याघ्रः -शार्दूलः, -सिंहः 'a tiger or lion among men', a distinguished or eminent man. उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः H.

a hero, brave man. -समवायः a number of men.-शीर्षकः A kind of weapon used by burglars (a sham head to be inserted into the hole made in a wall); Dk.2.2. -सारः an eminent man; Bhāg.1.16.7.-सूक्तम् N. of the 9th hymn of the 1th Maṇḍala of the Ṛigveda (regarded as a very sacred hymn).

"https://sa.wiktionary.org/w/index.php?title=पुरुषः&oldid=310910" इत्यस्माद् प्रतिप्राप्तम्