पुरुषव्याघ्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषव्याघ्रः, पुं, (पुरुषो व्याघ्र इव ।) पुरुषश्रेष्ठः । इत्यमरः । ३ । १ । ५९ ॥ (यथा, महाभारते । ६ । १९ । ४३ । “एवन्ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुरुषव्याघ्र¦ पु॰ पुरुषः व्याघ्र इव उपमितस॰। श्रेष्ठपुरुषेएवं पुरुषपुङ्गवादयोऽपि व्याघ्रादित्वात् उपमितस॰। नरश्रेष्ठे
“स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः। सिंह-क्षार्दुलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः” अमरः। व्याघ्रादितुल्यत्वेन नरस्य प्रशंसनात् श्रेष्ठत्वं गम्यते।

"https://sa.wiktionary.org/w/index.php?title=पुरुषव्याघ्र&oldid=311300" इत्यस्माद् प्रतिप्राप्तम्