पुलिन्दः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिन्दः, पुं, (पुल महत्त्वे + “कुणिपुल्योः किन्दच् ।” उणा० ४ । ८५ । इति किन्दच् ।) चण्डाल- भेदः । स च म्लेच्छशब्दवाच्यः । इत्यमरभरतौ ॥ तस्योत्पत्तिर्यथा, -- पुलस्त्य उवाच । “एवं गतेषु त्रैलोक्यं दानवेषु पुरन्दरः । जगाम ब्रह्मसदनं सह देवैः शचीपतिः ॥ तत्रापश्यत् स देवेशं ब्रह्माणं कमलोद्भवम् । ऋषिभिः सार्द्धमासीनं पितरं स्वञ्च कश्यपम् ॥ ततो ननाम शिरसा शक्रः सुरगणैः सह । ब्रह्माणं कश्यपञ्चैव तांश्च सर्व्वांस्तपोधनान् ॥ प्रोवाचेन्द्रः सुरैः सार्द्धं देवनाथं पितामहम् । पितामह ! हृतं राज्यं बलिना वलिना मम ॥ ब्रह्मा प्रोवाच शक्रैतत् भुज्यते स्वकृतं फलम् । शक्रः पप्रच्छ भो ब्रूहि किं मया दुस्कृतं कृतम् ॥ कश्यपोऽप्याह देवेश ! भ्रूणहत्या कृता त्वया । दित्युदरात्त्वया गर्भः कृतो वै बहुधा बलात् ॥ पितरं प्राह देवेन्द्रो मातुर्दूषणतो विभो ! । कर्त्तनं प्राप्तवान् गर्भो यदशौचा हि साभवत् ॥ ततोऽब्रवीत् कश्यपस्तु मातुर्दोषे सदासताम् । गतस्ततो विनिहतो दोषोऽपि कुलिशेन भोः ॥ तच्छ्रुत्वा कश्यपवचः प्राह शक्रः पितामहम् । विनाशं पाप्मनो ब्रूहि प्रायश्चित्तं विभो ! मम ॥ ब्रह्मा प्रोवाच देवेशं वशिष्ठः कश्यपस्तथा । हितं सर्व्वस्य जगतः शक्रस्यापि विशेषतः ॥ शङ्खचक्रगदापाणिर्माधवः पुरुषोत्तमः ॥ तं प्रपद्यस्व शरणं स ते श्रेयो विधास्यति ॥ सहस्राक्षोऽपि वचनं गुरूणां स निशम्य वै । प्रोवाच स्वल्पकालेन कस्मिन् प्राप्यो बहूदयः ॥ ता ऊचुर्देवता मर्त्त्ये स्वल्पकाले बहूदयः ॥ “इत्येवमुक्तः सुरराड्विरिञ्चिना मरीचिपुत्त्रेण च कश्यपेन । तथैव मित्रावरुणात्मजेन वेगान्महीपृष्ठमवाप्य तस्थौ ॥ कालञ्जरस्योत्तरतः सुपुण्य- स्तथा हिमाद्रेरपि दक्षिणस्याम् । कुशस्थलात् पूर्ब्बत एव विश्रुतो वसोः पुरात् पश्चिमतोऽवतस्थे ॥ यत्राथ चक्रे भगवान् मुरारिं- र्वास्तव्यमव्यक्ततनुस्त्वमूर्त्तिः । ख्यातिं जगामाथ गदाधरेति महाघवृन्दस्य शितः कुठारः ॥ यस्मिन् द्विजेन्द्राः श्रुतिशास्त्रसंयुताः समानतां यान्ति पितामहेन । मरुत्पितॄन् यत्र च संप्रपूज्य भक्त्या त्वनन्ये नहि चेतसैव । फलम्महामेधमखस्य मानवा लभन्त्यनन्त्यं भगवत्प्रसादात् ॥ महानदी यत्र सुरर्षिकन्या बालापदेशाद्धिमशैलमेत्य । चक्रे जगत् पापविनष्टमग्र्यं सन्दर्शनप्राशनमज्जनेन ॥” तत्र शक्रः समभ्येत्य महानद्यास्तटेऽद्भुते । आराधनाय देवस्य कृत्वाश्रममवस्थितः ॥ प्रातःस्नायी त्वधःशायी एकभक्तिर्ह्ययाचितः । तपस्तेपे सहस्राक्षः स्तुवन् देवं गदाधरम् ॥ तस्यैवं तप्यतः सम्यक् जितसर्व्वेन्द्रियस्य च । कामक्रोधविहीनस्य साग्रः संवत्सरो गतः ॥ ततो गदाधरः प्रीतो वासवं प्राह नारद ! । गच्छ प्रीतोऽस्मि भवतो मुक्तपापोऽसि साम्प्र- तम् ॥ निजं राज्यञ्च देवेश ! प्राप्स्यसि त्वचिराद्दिवः । यतिष्यामि यथा शक्र ! भाविश्रेयो यथा तव ॥ इत्येवमुक्तोऽथ गदाधरेण विसर्जितः स्नाप्य मनोहरायाम् । स्नातस्य देवस्य ततः पुरस्तात् संप्रोचुरस्माननुशासयस्व ॥ प्रोवाच तान् भीषणकर्म्मकारान् नाम्ना पुलिन्दा मम पापसम्भवाः । वसध्वमेवान्तरमद्रिमुख्ययो- र्हिमाद्रिकालाञ्जरयोः पुलिन्दाः ॥ इत्येवमुक्त्वा सुरराट् पुलिन्दान् विमुक्तपापः सुरसिद्धयक्षैः । संपुज्यमानोऽनुजगाम चाश्रमं मातुस्तदा धर्म्मनिवासमाद्यम् ॥” इति वामने ७३ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुलिन्दः [pulindḥ] पुलिन्दकः [pulindakḥ], पुलिन्दकः 1 N. of a barbarous tribe (usually in pl.).

A man of this tribe, a savage, barbarian, mountaineer; वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः R.16.19,32.

A hunter; तेषामन्तराणि वागुरिकशबरपुलिन्दचण्डालारण्यचरा रक्षेयुः Kau. A.2.1.19.

"https://sa.wiktionary.org/w/index.php?title=पुलिन्दः&oldid=312661" इत्यस्माद् प्रतिप्राप्तम्