पुष्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्प, य फुल्लने । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-अक०-सेट् ।) पञ्चमस्वरी । मूर्द्धन्योपधः । पुल्लनं विकसनम् । य, पुष्प्यति कुन्दकोरकम् । इति दुर्गादासः ॥

पुष्पम्, क्ली, पुष्प्यति विकसति यः । (पुष्प फुल्लने + अच् ।) तरुलतादीनां प्रसवः । फुल इति भाषा । तत्पर्य्यायः । प्रसूनम् २ । कुसुमम् ३ सुमनसः ४ । इत्यमरः । २ । ४ । १७ ॥ सूनम् ५ प्रसवः ६ सुमनः ७ । इति शब्दरत्नावली ॥ स्वहस्तपुष्पचयनफलं यथा, -- “उपहार्य्याणि पुष्पाणि मम कर्म्मपरायणः । यो मामुपानयेद्भूमे मम कर्म्मपथे स्थितः ॥ पुष्पाणि तत्र यावन्ति मम मूर्द्धनि धारयेत् । स कृत्वा पुष्कलं कर्म्म मम लोकाय गच्छति ॥” अकर्म्मण्यपुष्पदाने दोषो यथा, -- पुष्पचयनम् १ पुष्पार्पणे दयितार्थिता २ माला ३ गोत्रस्खलनेर्ष्या ४ वक्रोक्तिः ५ सम्भ्रमाश्लेषः ६ । इति कविकल्पलता ॥ (घोटकलक्षणविशेषः । यथा, अश्ववैद्यके । ३ । ८२ -- ९२ । “आगन्तवस्तुरङ्गस्य ये भवन्त्यन्यवर्णगाः । विन्दवः पुष्पसंज्ञास्तु ते हिताहितसंज्ञकाः ॥ तेषां प्रदेशभेदेन लक्षणं यद् व्यवस्थितम् । तत्तथैव समासेन विस्पष्टं कोर्त्त्यतेऽधुना ॥ अपाने च ललाटे च भ्रुवोर्मर्द्धनि कर्णयोः । निगाले चैव केशान्ते पुष्पं धन्यतमं स्मृतम् ॥ स्कन्धे वक्षसि कक्षे च मुष्कयोर्बाहुकेशयोः । हन्वोः पृष्ठे च वाहानां पुष्पं स्वामिहित- प्रदम् ॥ नाभौ केशे तथा कण्ठ दन्ते चव हि वाजिनाम् । पुष्पं धन्यतमं प्रोक्तं भर्त्त्रुः सर्व्वार्थसाधकम् ॥ अप्रशस्तानि दृष्टानि मुनिभिर्यानि वाजिनाम् । तानि सम्यक् प्रवक्ष्यामि पुष्पाण्यागमदर्शनात् ॥ अधरोष्ठे कठे प्रोथे उत्तरौष्ठे तथैव च । घोणायां गण्डयोश्चैव शङ्खयोश्च तथा भ्रुवोः ॥ ग्रीवायाञ्च वहे चैव सृक्कणोः स्थूरके स्फिचि । पायौ क्रोडे च पुष्पाणि निन्दितानीति निश्चयः ॥ रक्तं पीतं तथा कृष्णं पुष्पं सर्व्वत्र नेष्यते । शुभप्रदेशसञ्जातं भवेत् साधारणं ततः ॥ पुत्रलाभं धनप्राप्तिमारोग्यं विजयं तथा । विन्द्यात् पुष्पैः शुभैर्भर्त्तुरशुभैश्च विपर्य्ययम् ॥ सर्व्वाङ्गपुष्पितो वाजी परित्याज्जो न संशयः ॥”) स्त्रीरजः । (यथा, मार्कण्डेये । ५१ । ४२ । “स्त्रीणां पुष्पं हरत्यन्या प्रवृत्तं सा तु कन्यका ॥”) विकाशः । इति मेदिनी । पे, ८ ॥ धनदस्य विमानम् । नेत्ररोगविशेषः । इति हेमचन्द्रः ॥ फुली इति भाषा ॥ अस्यौषधं यथा, -- “हरीतकी वचा कष्ठं पिप्पली मरिचानि च । विभीतकस्य मज्जा च शङ्खनाभिर्मनःशिला । सर्व्वमेतत् समं कृत्वा छागीक्षीरेण पेषयेत् ॥ नाशयेत्तिमिरं कण्डू पटलान्यर्व्वुदानि च । अधिकानि च मांसानि यश्च रात्रौ न पश्यति ॥ अपि द्विवार्षिकं पुष्पं मासेनैकेन साधयेत् । वर्त्तिश्चन्द्रोदया नाम नृणां दृष्टिप्रसादनी ॥” इति चक्रपाणिदत्तः ॥ (अस्य चिकित्सान्तरं यथा, -- “पूर्ब्बाहारविहारैस्तु नेत्रे पुष्पञ्च जायते । प्रथमं सुखसाध्यं स्यात् द्वितीयं कष्टसाध्यकम् ॥ तृतीयं शस्त्रसाध्यन्तु चतुर्थन्तदसाध्यकम् । शङ्खपुष्पं तथा रोघ्रं शङ्खनाभिर्मनःशिला ॥ काञ्जिकेन तु संपेष्य छायाशुष्का भिषग्वर ! । वातिके काञ्जिकेनापि पैत्तिके पयसा हिता ॥ श्लैष्मिके मूत्रसंयुक्ता पुष्पस्याञ्जनतो हिता ।” इति हारीते चिकित्सितस्थाने चतुश्चत्वारिंश- त्तमेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्प नपुं।

पुष्पम्

समानार्थक:सुमनस्,पुष्प,प्रसून,कुसुम,सुम,पीलु,प्रसव

2।4।17।1।2

स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्. मकरन्दः पुष्परसः परागः सुमनोरजः॥

अवयव : पुष्पमधुः,पुष्परेणुः

 : अविकसितपुष्पम्, विकासोन्मुखपुष्पम्, ईषद्विकासोन्मुखपुष्पम्, पाटलकुसुमः, जपा, तिलपुष्पम्

पदार्थ-विभागः : अवयवः

पुष्प नपुं।

आर्तवम्

समानार्थक:रजस्,पुष्प,आर्तव,ऋतु

2।6।21।1।4

ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम्. श्रद्धालुर्दोहदवती निष्कला विगतार्तवा॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्प¦ विकाशे दि॰ पर॰ अक॰ सेट्। पुष्प्यति अपुष्पीत्। पुपुष्प
“शरदि पुष्प्यन्ति सप्तच्छदाः”। कण्ड्वा॰ अपुष्प्यीत्।

पुष्प¦ न॰ पुष्प्यति पुष्प--विकाशे अच्। (फुल) ख्याते

१ कुसुमे

२ स्त्रीरजसि। भावे घञ्।

१ विकाशे पु॰ मेदि॰

४ कुवेरविमाने न॰ नेत्ररोगभेदे हेमच॰।
“पुष्पञ्च पत्रंच फलं तथैव यथोत्तरं ते लघवः प्रदिष्टाः तेषां तुपुष्पं कफपित्तहन्तृ फलं निहन्यात् कफमारुतौ च” सुश्रुते सामान्यतस्तस्य गुणा उक्ताः। विशेषतः पुष्पवर्गेअन्येषां गुणा तत्रोक्ताः। स्त्रीरजसि
“शुक्रं दुष्टं शोणितंचाङ्गनानां पुष्पोद्रेकं तस्य नाशञ्च कष्टम्। पुष्पकालेशुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत्” इति सुश्रुतः। पुष्पशब्दनिरुक्तिस्तद्गतविशेषादिकं नानातन्त्रे उक्तं यथातत्र पुष्पशब्दव्युत्पत्तिः कुलार्णये
“पुण्यसंबर्द्धनाच्चाषिपापौघपरिहारतः। पुष्कलार्थप्रदानाच्छ पुष्पमित्य-भिधीयते”। प्रपञ्चसारे
“तुलस्यौ पङ्कजे जात्यौ केतक्यौकरवीरके। शस्तानि दश पुष्पाणि तथा रक्तोत्पलानिच। उत्पलानि च नीलानि कह्नारकुमुदानि च”। विश्वसारतन्त्रे
“बहूनि कुसुमानि च” इति पाठः।
“मालतीं कुन्दमन्दारं नन्द्यावर्त्तादिकानि च। पलाशपाटलापद्मजयन्त्यावर्त्तकानि च। चम्पकानिसनागानि रक्तमन्दारकाणि च। अशोकोद्भवविल्वाख्यकर्णिकारोद्भवानि च”। विश्वसारतन्त्रे शक्तिविमयेविशेष उक्तो यथा
“अथ देव्यर्चने वक्ष्ये पुष्पाणि शृणुपार्वति!। इत्युपक्रमे तुलस्यादीन्युक्त्वा
“एतान्यन्यानितन्त्रेऽस्मिन् पुष्पाणि सन्ति वै प्रिये!। मानादेशोद्भवानिस्युः सर्वकालोद्भवानि च। फलानि चैव पुष्पाणि दद्या-द्देव्यै विशेषतः। अथ पुष्पं प्रवक्ष्यामि कर्मयोगे महे-श्वरि! शृणुष्व परया भक्त्या यथोक्तं ब्रह्मणा पुरा। कमले करवीरे द्वे कुसुमे तुलसीद्वयम्। जातीसुमेकेतकीद्वे कुमारीचम्पकोत्पलम्। कुन्दमन्दारपुन्नाग-पाटलानागचम्पकम्। आरग्बधं कर्णिकारं पावन्तीनवमल्लिका। सौगन्धिकं सकोरण्डं पलाशाशोकसर्जकाः। अपामार्गः सिन्धुवारो वापुलीकञ्च कामजम्। व्याघ्र-चेलं दमनकं मरुवकं ततःपरम्। लवङ्गं जलकर्चूरंतगरञ्च जवा तथा। शिवपुष्पं द्रोणपुष्पं कामराजंसुकेतकम्। अन्यानि वनपुष्पाणि जलजस्त्र{??}नि च। [Page4385-a+ 38] गिरिजानि देशजानि नानापुष्पाण्यतःपरम्। ” सार-दायाम्
“कमले करवीरे द्वे कुमुदे तुलसीद्वयम्। जातीद्वयं केतके द्वे कह्लारं चम्पकोत्पले। कुन्दमन्दार-पुन्नागपाटालानागचम्पकम्। आरग्बधं कर्णिकारंजयन्ती नवमालिका। सौगन्धिकं सकोरण्टं पलाशा-शोकमल्लिकाः। धुस्तूरं सर्जकं विल्वमर्जुनं मुनि-पुष्पकम्। अन्यान्यपि सुगन्धीनि पत्रपुष्पाणि देशिकैः। उपदिष्टानि पूजायामाददीत विचक्षणः”। योगिनीतन्त्रे

७ पटले
“शृणु देवि! प्रवक्ष्यामि पुष्पाध्यायंसमासतः। ऋतुकालोद्भवैः पुष्पैर्मल्लिकाजातिकु-ङ्कुमैः। सितरक्तैस्तथापुष्पैर्नीलपद्मैश्च पाण्डुरैः। किं-शुकैस्तगरैश्चैव जवाकनकचम्पकैः। बकुलैश्चैव मन्दारैःकुन्दपुष्पैः कुरुण्डकैः। धुस्तूरकादियुक्तैश्च बन्धूकाग-स्त्यसम्भवैः। मदनैः सिन्धुवारैश्च दर्वाङ्कुरसुकोमलैः। मञ्जरीभिः कुशानाञ्च बिल्वपत्रैः सुकोमलैः” तत्रैव

९ पटले
“तुलसीद्वे मालतीद्वे तमालामलकी तथा। पुन्नागं मुनिपुष्पश्च मल्लिकाञ्च निवेदयेत्। करवीरस्यकुसुमैर्येऽर्चयन्ति जनार्द्दनम्। दर्शनात्तस्य देवेशि!नरकाग्निः प्रणस्यति”। करवीरादिमाहात्म्यंपूरश्चरणरसोल्लासे

१० पटले
“करवीरं जवा देवि!स्वयं काली न चान्यथा। तारा च अपरा चैव स्वयंत्रिवुरसुन्दरी”। तथा
“करवीरजवामूले तुलस्यानगनन्दिनि। यदि प्राणांस्त्यजेद्देवि! माहात्म्यं तस्यसुन्दरि!। वक्त्रकोटिशतेनापि जिह्वाकोटिशतेन च। वर्णितुं तस्य माहात्म्यं न शक्तोमि कदाचन”।
“शुक्लंकृष्णं तथा पीतं हरितंलोहितं तथा। करवीरं महे-शानि! जवापुष्पं तथैव च। स्वयं काली महामाया स्वयंत्रिपुरसुन्दरी। अनादरं न कर्त्तव्यं कृत्वा च नरकंव्रजेत्”। दशमपटले
“कृष्णापराजिता साक्षाद्भद्रकालीन संशयः। करवीरञ्च भुवना द्रोणं भुवनसुन्दरी। जवा साकाद्भगवती सर्वविद्यास्वरूपिणी। ये साधकाजगन्मातरर्च्चयत्ति शिवप्रियाम्। एतैश्च कुसुमैश्चण्डि!स शिवो मात्र संशयः। येनार्चिता जगद्धात्री द्रोण-कृष्णजवादिभिः। राजसूयाश्वमेधाद्यैर्वाजपेयाग्निहो-त्रकैः। फलं यज्जायते चण्डि! तत् सर्वं कुसुभार्चनात्। जवाद्रोणं तथा कृष्णामार्लू करवीरकम्। साक्षाद्ब्रह्मखरूपञ्च महादेव्यै निवेदयेत्। श्वेतचन्दनसंयुक्तंरक्तचन्दबलेपितम्। यो दद्याद्भक्तिभावेन स विश्वेशो[Page4385-b+ 38] न संशयः”। अथ कामनाभेदे पुष्पविशेषः तत्रैव
“करवीरस्यमाघ्यस्य सहस्वाणि ददाति यः। स कामान् प्राप्य चा-भीष्टान् देवीलोके महीयते। तथैककरवीरेणपद्मानां द्वे सहस्रके। महाघोरे महोत्पाते महापदिच सङ्कटे। महादुःखे महारोगे महाशोके महाभये। पूजयेत् कालिकां{??}रां भुवनां षोडशीम् शिवाम्। बालांछिन्नाञ्च वगलां धूमां भीमां करालिनीम्। कमलाभन्नपूर्णाञ्च दुर्गां दुःखविनाशिनीम्। सर्वविद्या जवाद्रोणकरवीरैर्मनोहरैः। मालूरपत्रैः कृष्णाभिः कृष्णां संपूज्यमूतले। साधकेन्द्रो महेशानि! भवेन्मुक्तो न संशयः”। भुण्डमालायां दशमपटले
“जवापुष्पैर्द्रोणपुष्पैः कर-वीरैर्मनोहरैः। कृष्णापराजितापुष्पैरब्जैश्च मुनिपुष्पकैः। पूजयेत् परया भक्त्या चण्डिकां परमेश्वरीम्”। योगिनी-तन्त्रमत्स्यसूक्तयोः
“येऽर्चयन्ति जनाध्यक्षं करवीरैःसितासितैः। चतुर्युगानि देवेशि! प्रीतो भवति माधवः।
“वकपुष्पं च जातिस्तु तथा रुद्रजटस्य च। वाजप्रेयस्य य-ज्ञस्य फलं प्राप्नोति नान्यथा। सर्वेषामेव पुष्पाणां प्रवरंनीलमुत्पलम्। नीलोत्पलसहस्रेण यस्तु मालां प्रयच्छति। दुर्गायै विधिवद्देवि! तस्य पुण्यफलं शृणु। वर्ष-कोटिसहस्राणि वर्षकोटिशतानि च। देव्या अनुचरोभूत्वा रुद्रलोके महीयते”। मुण्डमालायाम्
“लक्षाणांमहिषैमेषैरजैर्दानैर्मखैः शुभैः। पूजिता सा जगद्धात्रीयद्येषा कुसुमार्चिता। माहात्म्यञ्चैव कृष्णायाः कृष्णाजानाति कृत्स्नशः। तदर्द्धञ्चाप्यहं देवि! तदर्द्धं श्री-पतिः सदा। तदर्द्धमब्जजन्मा वै तदर्द्धं वेदसाधकः। अन्यपुष्पस्य माहात्म्यं संक्षेपाद्वच्मि शङ्करि!। पृथिव्यामण्डले स्वर्गो वैकुण्ठे कालिकापुरे। जवादिकरवीरैश्चदलैः किं किं फलं लभेत्। न जानाति जगद्धात्रीको वेद पार्वतीं विना। करवीरैः श्वेतरक्तैरक्तचन्दन-मिश्रितैः। पूजयेत् क्ष्मातटे यस्तु स विश्वेशो भवेद्-ध्रुवम्। कृष्णापराजितापुष्पैर्यस्तु देवीं प्रपूजयेत्। सोऽश्वमेधसहस्राणां फलं प्राप्य शिवां व्रजेत्। सहा॰विपत्तौ यो दद्याज्जवां कृष्णापराजिताम्। द्रोणं वाकरवीरं वा स गच्छेत् कालिकापुरम्”। तत्रैव
“किञ्च पाद्यैः किञ्च वाद्यैर्नैवेद्यैः किञ्च पूजनैः। मधुदानैर्मधुपर्कैः कुम्भकैः किञ्च रेचकैः। पूरकैः किञ्चवा ध्यानैः पाणायामैश्च किञ्च वा। किं जपैः किंतपोभिर्वा मत्स्यैर्मांसैश्च पञ्चमैः। किमन्वमन्त्रैः किं[Page4386-a+ 38] मन्त्रः किं यन्त्रैः किञ्च साधवः। लिं वेदैरासवैः किं वाश्यशानैर्मन्थसाधनैः। किमध्वरैर्मन्त्रपूतैर्मन्त्रार्थैर्षन्त्रजी-वनैः। किं योनिमुद्रया किं वा तीर्थैः किं ब्रह्मसा-धनैः। किं मातृकान्यासगणैः किं कटैः किं घटैःपटैः। किं काकचञ्चुभिः षोडान्यासैः किं धर्मसाधनैः। येनार्च्चिता महादेवी करवीरैर्जवादिभिः। कृष्णापुरा-जितापुष्पैः करवीरैर्मनोहरैः। द्रोणैस्तु केतकीपुष्पै-र्जवामालूरपत्रकैः। पूजिता यैर्भगवती तेषां किं कर्मसाधनैः”। नित्यातन्त्रे एकादशपटले
“म तुलस्यायजेत् कालीं नाक्षतैर्विष्णुसर्चयेत्। अपराजिताया-दानेन साक्षात्तुष्टा भवेच्छिवा। कालिकायाश्च तारायाकरवीरमतिप्रियम्। जवापुष्पं महेशानि! दद्यान्नधारयेत् कचित्। रक्तोत्पलेन देवेशि! कालिकांपूजयेत् सकृत्। शतवर्षसहखाणां पूजायाः फलमा-प्नुयात्”। तथा
“दुर्वापि गर्भसंयुक्ता देवी तुष्टिकरीभवेत्”। पुरसरणरसो{??}से
“मञ्जरीं सहकारस्य{??}शवाय निवेदयेत्। रुद्रजटां शिरोषञ्च दाडिमं काञ्चनंतथा। नीलकण्ठं मयूरञ्च योन्याकारञ्च वर्जयेत्। पुष्पदाने काम्यफलं नित्यातन्त्रे ईश्वर उवाच।
“ब्रह्महत्यादिपापानां प्रायसितं सुरेश्वरि। रक्तपुष्पै-र्महादेवि! चक्रराजं प्रपूजयेत्। कुलाचारक्रमेणैवकर्पूरक्षोदमण्डितम्। महापातककोटिस जन्मान्तर-कृता अपि। मासमात्रेण हन्यन्ते सत्यं सत्यं नसंशयः। लक्ष्मीस्तस्य भवेद्गेहे सुस्थिरा पीरवन्दिते!। जवापुष्पैर्महेशानि! पूर्ववद् याद पूजयेत्। मासमात्रेणनश्यन्ति सप्तजन्मकृताम्बपि। ब्रह्महत्यादिप्रापानि{??}नवान् जायते कविः। पूर्ववत् केतकीपुष्पै पत्रैर्वायदि पूजयेत्। सासमात्रेण देवेशि। उपसातककोटयः”। (नश्यन्तीति पूर्वोक्तेनान्वयः)।
“लभते राज-सौ{??} साधको नात्र सशयः। शतपत्रैर्महेशानि।{??} कूजवेच्छिवाम्। मासमात्रेण देवेशि! सर्वपापंवि{??}। चम्पकैः पूजयेद्देवीं पूर्ववम्मासमात्रकम्। निहत्य परमेशानि! पातकं शतजन्मजम्। सौभाग्यंलभते भन्त्री त्रिषु लोकेषु पार्वति!। श्वेतपद्मैर्महे-{??}नि! मासमात्रं पपूजयेत्। त्रिंशज्जन्मकृतं पापंनाशयेन्नात्र संशयः। बन्धूकैः पूर्ववद्देवि! मासमात्रं प्रपू-जयेत्। निहत्य सर्वपापानि राजानं वशमानयेत्। माल-{??}मञ्चिकाजातीकुन्दैः श्वेतोव्पलैः सह। सुसिश्रैः पूर्व-[Page4386-b+ 38]{??}वि! भागमात्रं प्रपूजयेत्। ब्रह्महत्यादिपाषानिशतज{??}ताग्यपि। गाक्षयेत् परमेशानि! मुक्तिस्तस्य{??}रे स्थिता। रक्तोत्पनजवावह्निबन्धूकागस्त्यकैः शि-वाम्। पूर्ववत् परमेशानि। मासमात्रं प्रपूजयेत्। पातकं नाशयित्वाऽसौ मम तुल्यो भवेन्नरः। नागकेशर-कह्लारबकुलैः सिन्धुवारकैः। पाटलः पूजयेद्देवि!श्रीपीठान्तर्निसासिनीम्। पूर्ववत् पूजयेद्देवि! मासमात्रंप्रस{??}धीः। सहस्रजन्मजं पापं नाशयेज्ञात्र संशयः। सौभाग्यमतुलं तस्य भवेद्देवी प्रसादतः”। योगिनी-तन्त्रे
“नोत्सृज्य दद्यात् पुष्पाणि वनस्यानि कदाचन। न शक्नुवन्ति वै देवाः समाकर्षितुसुद्यताः। एकैकं कुसुमंयक्षा रक्षन्ति दश वै यतः। तथा यक्षाङ्गनाः पञ्चक्षर्वतः कुसुमावृताः। तस्मादाह्वच कुसुमं यजेद्देवान्पितॄनपि” इति वृक्षस्थपुम्पदाननिषेधः। मत्स्यसूक्ते
“स्वात्वा मध्याह्नसमये न च्छिद्यात् कुसुम नरः। तत्-पुष्पेरर्च्चने देवि! रौरवे परिपच्यते” मध्याह्न इत्युपा-दानात् प्रातःस्नातस्य पुष्याहरणे न दोषः। अथ पुष्पमाला विश्वसारतन्त्रे
“नीलोत्पलसहस्रेण यस्त मालांप्रयच्छति। दुर्गायै विधिवद्देवि! तस्य पुण्यफलं शृणु। वर्षकोटिसहस्राणि वर्षकोटिशतानि च। दव्याअनुचरो भूत्वा रुद्रलोके महीयते”। योगिनीतन्त्रेनवमपटले
“मालतीमालया विष्णुरर्चितो येन कार्तिके। पापाक्षरकृता माला नाशिता तस्य विष्णुना”। तथा
“करवीरकृतां मालां गाधवाय प्रयच्छति। देवेन्द्रोऽपि महेशानि! करोति करसंपुटम्”। तत्रैक
“न भेदयेद् यज्ञसूत्रं मालाञ्चैव न भेदयेत्। वि-शि{??} पालतीभाला व्य घ्रवर्म तथैव च”। वृहन्नलीतन्त्रेद्वितीवपटले
“कोकणदञ्च बन्धूकं कर्णिकाद्वयमेव च। वकमन्दाररक्ताणि करवीराणि शस्यते। मल्लिकात्रितयंजाती क्षौमपुष्यं जयन्तिका। विल्वपत्रं कुरुवकं मुनि-पुष्पञ्च केसरम्। वासन्ती चैव सौगन्धं कालपुष्पंमनोहरम्। आमलकञ्च कादम्बं बकुलं यूथिका तथा। बिल्वैर्मरुवकाद्येश्च तुललोवर्जितैः शुभैः। ओड्रपुष्पै-र्विशेषेण वज्रपुष्पेण शोभितम्। सवं पुष्पं प्रदद्याच्च-भक्तियुक्तेन चेतसा। जवापुष्प महेशानि! दद्याद्वेव्यैविशेषतः। पद्मं प्रियतरं देव्या शेफाली बकुलं तथा। रक्तोत्पलेन देवेशि! पूजयेत् परमां शिवाम। लक्षवर्ष-सह{??}खां पूजायाः फ{??}माद्गुयात्। शिरीषं वरम[Page4387-a+ 38] देव्याः पीतिद तगरं तथा। स्थलपद्मं सुतुतरं लक्ष-संख्यक्रमेण तु। सदि दद्यात्महेक्षानि! कर्यसिद्धिःसुरेश्वरि!। तदैव मन्त्रसिद्धिः स्या{??}त्र कार्य्या विचा-रणा। द्विजार्गी तुलसीं रम्यां तस्याः प्रीतिकरीं पराम्।{??}नं रक्तवर्णञ्च अतिप्रियतरं महत्। भक्तियुक्तोमहशानि! सर्वपुष्पं निवेदयेत्”। वृहन्नीलतन्त्रे
“चातु-र्मास्ये तु लक्षैलमालत्या योऽर्च्चयेद्धरिम्। शतजन्मकृतपापं तत्क्षणादेव नश्यति। करवीर{??} कुसुमैर्येऽर्च-यन्ति हरेर्द्दिने। दर्शनात्तस्य देवेशि! नरकाग्निःप्रणश्यति”। वर्ज्यपुष्पाणि
“नार्च्चयेत् झिण्टि-पुष्पेण पीतैश्च तगरैस्तथा। श्वेतेनोड्रेख कृष्णेन वि-जयेन नचार्चयेत्”। प्रपञ्चसारे षष्ठपटले
“अङ्गने पतितैर्माल्यैः शीर्णैर्वा जन्तुदूमितैः। आघ्रातैरङ्गसंस्पृष्टैरूषितैर्नापि{??}र्च्चयेत्”। सारदायाम्
“मलिनं भूमि-संस्पृष्ट कृमिकेशादिदूषितम्। अङ्गस्पृष्टं समाघ्रातंत्यजेत् पर्युषितं तथा”। मत्स्यसृक्ते चतुर्द्दशपटले
“शेफालिका तु कह्लारं शरतकाले प्रशस्यते। अन्यत्रन स्पृशेद्देवि! प्रायश्चित्तन्तु पूजनात्। नार्चयेद्रक्तकृष्णेनतथोग्रगन्धिकेन च। करवीरस्य माध्यस्य बन्धूजीवस्यचैव हि। कशरस्य सवज्रस्य रक्तं देवि! प्रशस्यते”। योगिनीतन्त्रे
“बिल्वप्त्रं शमीपत्रं तमालामलकीदलम्। अपाङ्गभृङ्गपत्रञ्च कुशं दूर्वास्तथैव च। पुष्पाणामप्यभावे तुफलान्यपि निवेदयेत्। फलानामप्यभावे तु तत्पत्रै पूजये-द्धरिम्। ” गुप्तपूजापुष्पञ्च तत्रैव
“सिहास्यञ्चैव मालूरं धुस्तूरञ्चचतुर्विधम्। तथा रुद्रजटे द्वे च गुह्यपुष्पञ्च श{??}रि। पद्मे नीलोत्पले देवि। वकमन्दारकाञ्चने। माधवीद्वेतमालञ्च गुप्तमेतद्वरार्चने”। दिवारात्रिभेदेन पुष्पविशेषेणपूजनमुक्तं तत्रैव
“कनकानि सुगन्धीनि रात्रौ देयानिशङ्करि!। दिवा चाग्यानि पुष्पाणि दिवा रात्रौ चमल्लिका। देवालयस्य पुष्पेण यो देवं प्रतिपूजयेत। अन्धत्वं प्राप्नुयात् सोऽपि दश वर्षाणि पञ्च च”। देवता-विशेपे पुष्पविशेषवर्जगमपि तत्रैव
“शिवे विवर्जयेत् कुन्दंमाधे माध्यं प्रशस्यते। गणेशे वर्जयेन्माध्यमशोकं तगर-न्तथा। सूर्य्ये माघ्यञ्च मन्दारं कनकञ्च तथैव च। महालक्ष्म्यै च तुलसीं झिण्टिकां काञ्चनन्तथा। बन्धू-जीवञ्च द्रोणञ्च सरस्वत्यै न दापयेत्। ग्रहाणां विल्वपत्रञ्चशमीपत्रं तथैव च। ब्रह्मणे वर्जयेत् काशं कौसुम्भं शमी-पु{??}सम्। वात्रीपुष्पं कुरण्टञ्च जलपुष्पं तथैव च। [Page4387-b+ 38] दुर्गायै न प्रदद्याच्च सोमपुष्पं तथेव च। त्रिपुरायैकाञ्चनञ्च कनकं वासकं तथा। किंशुकं कृष्णकान्ताञ्चइन्द्राक्ष्यै वर्जयेत्तथा। अकर्मण्यपुष्पदाने दोषो यथा
“वराह उवाच” अकर्मण्येन पुष्पेण यो मामर्चयते भुवि। पातकं तस वक्ष्यामि तच्छृणु त्व वसुन्धरे!। नाहंतत् प्रतिगृह्णामि न च ते वै, मम प्रियाः। मूर्खैर्भाग-वतैर्दत्तं मम विप्रयकारिणः। पतन्ति नरके घोरे रौरवेतदनन्तरम्। अज्ञातस्य च दोपेण दुःखान्यनुभवन्ति च। वानरो दश वर्षाणि मार्जारश्च त्रयोदश। मूषकः पञ्च-वर्षाणि बलीवर्दश्च द्वादश। छागश्चैवाष्ट वर्षाणि वर्षं वैग्रामकुक्कुटः। त्रीणि वर्षाणि सहिषो भवत्येव नसंशयः। एतत्ते कथितं भद्रे! पुष्पं यन्मेऽत्र रोचते। अकर्मण्यं विशालाक्षि! पुष्पं यो न ददाति वै” वराहपु॰। देवी प्रियपुष्पाणि यथा
“पुष्पाणि देव्यावैष्णव्याः प्रियाणि शृणु संप्रति। बकुलैश्चैव मन्दारैःकुन्दपुष्पकुरण्टलैः। करवीरार्कपुष्पैश्च शालमलैश्चाप-राजितैः। दमनैः सिन्धुवारैश्च वकैर्मरुवकैस्तथा। लताभिर्ब्रह्मवृक्षैश्च दूर्वाङ्कुरैश्च कोमलैः। मञ्जरीभिःकुशानाञ्च विल्वपत्रैः सुशोभनैः। पूजयेद्वैष्णवीं देवींकामाख्यां त्रिपुरां तथा। अन्याश्च याः शिवाप्रीत्यैजायन्ते पुस्पजातयः। ता इमाः शृणु कीर्त्यन्ते मयावेताल! भैरव!। मालती मल्लिका जाती यूथिकामाधवीलता। पाटला करवीरञ्च जवा तर्कारिका तथा। कुब्जकं तगरश्चैव कर्णिकारोऽथ रोचनः। चम्पका-म्रातकौ बाणवर्वरौ मल्लिका तथा। अशोका लोध्र-तिलकावटरूषशिरीषके। शमीपुष्पञ्च द्रोणञ्च पद्मो-त्पलवकारुणाः। श्वेतारुणे त्रिसन्ध्ये च पलाशःखदिरस्तथा। वनमालाऽथ सेवन्ती कुमुदोऽथ कदम्बकः। चक्रं कोकणदञ्चैव भण्डिलो गिरिकर्णिका। नाग-केशरपुन्नागौ केतक्यञ्जलिका तथा। दोहदा र्वाजपूरश्चनमेरुः शालमेव च। त्रपुषी चण्डसिन्धुश्च झिण्टीपञ्चविधा तथा। एवमाद्युक्तकुसुमैः पूजयेत् वरदां शिवाम्” वर्जनीयपुष्पं यथा
“पुष्पञ्च कृमिसम्भिन्नं विशीर्णभग्नमुद्गतम्। सकेशं मूषिकाधूतं यत्नेन परिवर्जयेत्याचितं परकीयञ्च तथा पर्युषितञ्च यत्। अन्त्यस्पृष्टपदास्पृष्ट यत्नेन परिवर्जयेत्” कालिका पु॰

६८

५४ अ॰। केशवपूजने प्रशस्तपुष्पाणि यथा
“मालतीमल्लिका चवयूथिका चातिसुक्तिका। पाटलाकरवीरञ्च जयासवतिरेव[Page4388-a+ 38] च। कुब्जकस्तगरश्चैव कर्णिकारः कुरुण्टकः। अम्पक-स्तगरः कुन्दो बाणवर्वरमल्लिकाः। अशोकस्तिलक-श्चम्पस्तथा चैवाटरूषकः। अमी पुष्पप्रकारास्तु शस्ताःकेशवपूजने। केतकीपत्रपुष्पञ्च पुष्पं भृङ्गारकस्य च। तुलस्यामलकी चैव सद्यस्तुष्टिकरं हरेः। पद्मान्यम्बुसमु-त्थानि रक्तनीले तथोत्पले। सितोत्पलञ्च कृष्णस्यदयितानि सदा नृप!। तानि पुष्पाणि देयानि विष्णवेप्रभविष्णवे” अग्निपु॰। किञ्च
“जातो शताह्वासुमना कुन्दं बहुपुटं तथा। वाणञ्च पङ्कजाशोकं कर-वीरञ्च यूथिका। पारिभद्रं पाटला च वकुलं गिरि-शायिनी। तिलकं वनजञ्चैव पीतकं तगरन्त्वपि। एतानि हि प्रशस्तानि कुसुमान्यच्युतार्च्चन। सुरभीणितथान्यानि वर्जयित्वा तु केतकीम्। येषामपि हिपुष्पाणि प्रशस्तान्यच्युतार्चने। पल्लवान्यपि तेषां स्युःप्रशस्तानि महासुर!। वीरुघानां प्रधानेन वर्हिषाञ्चा-र्चयेत्तथा। नानारूपैश्च्वाम्बुभवैः कमलेन्दीवरादिभिः। प्रबालैः शुचिभिः शुद्धैर्जलप्रक्षालितैर्वले!। वनस्पतीना-मर्चेत तथा दूर्वादिपल्लवैः” वामनपु॰

९१ । विष्णौ पुष्प-विशेषदानस्य फलं यथा
“आरामप्रभवैः पुष्पैरच्छिद्रैःकीटवर्जितैः। तथाऽपर्य्युषितैस्तद्वत् कार्त्तके विष्णुमर्च-येत्। वर्णानां हि यथा विप्रस्तीर्थानां जाह्नवीयथा। देवानाञ्च यथा विष्णुः पुष्पाणां मालती तथा। मालतीमालया देवं योऽर्चयेद् गरुडध्वजम्। जन्मदुःखजरारोगैः कर्मभिर्मुक्तिमाप्नुयात्। मालतीमालयायेन पूजितः कार्त्तिके हरिः। पापलक्षायुतं तस्य वत्स!शौरिः प्रमार्जति। मालतीपुष्पमालाभिः कार्त्तिकेपुष्पमण्डपम्। विष्णोर्गृहे कृतं यैस्तु ते यान्ति परमांगतिम्। जातिपुष्पैर्विरचितां मालां यः सम्प्रयच्छति। विष्णवे विधिवद्धक्त्या तस्य पुण्यफलं शृणु। कल्प-कोटिसहस्राणि कल्पकोदिशतानि च। वसेद्विष्णुपुरे-श्रीमान् विष्णुतुल्यपराक्रमः। यः स्वर्णकेतकैः पुष्पैःपूचयेद् गरुडध्वजम्। अब्दकोटिशतं यावत्तुष्टःस्यात्तस्य वै हरिः। दामोदरं पूजेवेद्यः कुसुमैः केत-कोद्भवैः। स वसेद्विष्णुनिलये देवेन सह मोदते। मल्लिकाकुसुमैर्देवं योऽर्चयेत् त्रिदेशश्वरम्। कार्त्तिके परयाभक्त्या दहेत् पापं त्रिघार्जितम्। सुगन्धैर्मल्लिकापुष्पै-रच्युतं योऽर्चयेन्मुने!। स सर्वपापनिर्मुक्तो विष्णु-लोके महीयते। वेदधर्मेण केनापि संप्राप्वे मधुमाघवे। [Page4388-b+ 38] योऽर्च्चयेत् स मुनिश्रेष्ठ! लभते वैष्णवं पदम्। यः पुनःपाटलापुष्पैरर्च्चयेद् गरुडध्वजम्। सुपुण्यान्मा परंस्थानं स प्रयाति हरेर्मुने!। अगस्त्यपुष्पैदैवेशं येऽर्च्च-यन्ति जनार्द्दनम्। देवर्षे! दर्शनात्तेषां नरकाग्निः प्रण-श्यति। न तत् करोति विप्रेन्द्र! तपसा तोषितो हरिः। यत् करोति हृषीकेशो मुनिपुष्पैरलङ्कृतः। विहायसर्वपुष्पाणि मुनिपुष्पेण केशवम्। कार्त्तिके योऽर्च्चयेद्-भक्त्या वाजिमेधफलं लभेत्। मुनिपुष्पकृतां मालांये यच्छन्ति जनार्दने। शक्रोऽपि तैः समं वत्स!कुरुते ह्यभिभाषणम्। ददात्यभीप्सितान् कामान् वृक्षचिन्तामणिर्यथा। कार्त्तिके मुनिपुष्पेण पूजितो गरुड-ध्वजः। गवामयुतदानेन यत् फलं कार्त्तिके मुने!। मुनिपुष्पेण चैकेन कार्त्तिक्यां तत् फलं स्मृतम्। येऽ-र्च्चयन्ति सुराध्यक्षं करवीरैः सितासितैः। तेषां वर्ष-शतं यावत् प्रभुर्भवति केशवः। बकुलाशोककुसुमैर्येऽ-र्च्चयन्ति जगत्पतिम्। निर्भीकास्ते भवन्तीह याव-च्चन्द्रदिवाकरी। अशोककुसुमैरम्यैर्जन्मशोकभयाषहम्। पूजयित्वा हरिं याति पदं विष्णोरनामयम्। शुभ-गन्धैः सितैर्वत्स! कुसुमैः पङ्कजोद्भवैः। अधोक्षजंसमभ्यर्च्य नरो याति हरेः पदम्। अभ्यर्च्य कौमुदैःपुष्पैः केशवं त्रिदशैरपि। अटरूषकपुष्पैश्च पूजयेद्योजगत्पतिम्। स पुण्यवान्नरो याति तद्विष्णोः परमंपदम्। कार्त्तिके योऽर्च्चयेद्विष्णुं तुलसीबिल्वपङ्कजैः। त्रिदर्शरपि पूज्यः स न शक्यो यमकिङ्करैः। माधवे-योऽर्च्चयेद्विष्णुं तुलमीबिल्वपङ्कजैः। त्रिदशैरपिपूज्यः स न शक्यो यमकिङ्करैः। माधवे योऽर्च्चये-द्विष्णुं सुपुष्पैस्तिलकोद्भवैः। घूतपापो विरातङ्कः स-विष्णोर्याति तत् पदम्। समित्पुष्पकुशादीनि श्रो-त्रियः स्वयमाहरेत्। शूद्रानीतैस्तैश्च हरेः पूजां कुर्वन्व्रजत्यधः। तस्माद्विप्रो मुनिश्रेष्ठ! शिष्येख खयमेव वा। पुष्पादीनि समाहृत्य पूजेयत् परमेश्वरम्। विप्रो दूर्वा-मयैः पुष्पेस्तथा काशकुशोद्भवैः। तुखलीबिल्वपत्रैश्चपूजयेद्देवताः पितृन्। नार्च्चयेत्तगरैः सूर्य्यं धूर्त्तपुष्पेणकेशवम्। देवीं लकुचपुष्पैश्च शङ्करं नागकेशरैः”। कालविशेषे तस्य पर्य्युषितत्वं यथा
“प्रहरं तिष्ठतेजाती प्रहरार्द्ध्वन्तु मल्लिका। त्रियामं मुनिपुष्पञ्च कर-वीरमहर्निशम्”। आम्बमञ्जरीविल्वपत्रदानफलं यथा
“मञ्जुरीं सहकारस्य ये प्रयच्छन्ति वैष्णवाः। कार्त्तिके[Page4389-a+ 38] सफलास्ते स्युर्गोकोटीफलभागिनः। कार्त्तिके योऽ-र्च्चयेद्भक्त्या विल्वपत्रेण केशवम्। दद्याद् यज्ञायुतफलंकेशवस्तस्य वै मुने!। बिल्वपत्रेण ये कृष्णं कार्त्तिकेकलिमर्दनम्। पूजयन्ति महाभक्त्या मुक्तिस्तेषां करेस्थिता। नागकेशरपुष्पैर्यः पूजयेद् गरुडध्वजम्। स याति वैष्णवं स्थानं यत्र गत्वा न शोचते। कदम्ब-कुसुमैर्यो वै पूजयेन्मधुसूदनम्। जन्मायुतार्जितं पापंस्फोटितं तेन नारद!। न तथा केतकीपुष्पैर्मालतीकुसुमैस्तथा। तोषमायाति देवेशः कदम्बकुसुमैर्यथा। दृष्ट्वा कदम्बपुष्पाणि तोषमायाति माधवः। किं पुनःपूजितो देवः सर्वकामप्रदो हरिः। हरिं किंशुक-पुष्पैर्यः पूजयेत् त्रिदशाधिपम्। वैकुण्ठे रमते शश्वत्विष्णुना सह वैष्णवः। वर्षाकाले च देवेशं कुमुदैश्चन्दव्राचितैः। योऽर्च्चयेत् परमं विष्णुं संसारे न पुनर्विशेत्। कुन्दपुष्पैश्च विप्रर्षे! योऽर्चयेद् गरुडध्वजम्। कोटिजन्मार्जितं पाप तत्क्षणादेव नश्यति। शमीपुष्पैश्चदेवेशं पूजयेदसुरद्विषम्। यमं न पश्येद्विप्रर्षे! न यातिदुर्गतिं नरः” पाद्मोत्तरख॰

१३

१ अ॰। लक्ष्मोतुल्य-प्रियपुष्पाणि नारदीयसं॰
“मालती बकुलाशोकशेफालीनवमालिकाः। अम्लानतगराङ्कोठमल्लिकामधुपिण्डिकाः। यूथिकाष्टापदं कुन्दं कदम्बं मधु-पिष्पलम्। पाटलाचम्पकं कृष्णं लवङ्गमतिमुक्तकम्। केतकं च कुरुवकं विल्वं कह्लारकं द्विज!। पञ्च-विंशतिपुष्पाणि लक्ष्मीतुल्यपियाखि मे”। केशवार्चनेनिषिद्धपुष्पाणि विष्णुधर्मोत्तरे।
“उग्रगन्धीन्यगन्धीनिकुसुमानि न दापयेत्। अन्यायतनजातानि कण्टकीनितयैर्व च। वक्तानि यानि धर्मज्ञे! चैत्यवृक्षोद्भवानि च।{??}शानस्थायान्यन्याति यानि चाकालजानि च”। तथा
“कुटजं शाल्मलीपुष्धं शिरीष{??} जनार्दने। निवेदितंभयं रोगं निःस्वत्वश्च प्रयच्छति। बन्धुजीवकपुम्पाणिरक्तान्यपि च दापयेत्। अन्यरक्तकपुष्पाणां दानात् दौर्भा-व्यमाप्नुयात्”। परारोपितवृक्षस्य पुष्पग्रहणे दोछः। अगस्त्यः
“परारोपितवृक्षेभ्यः पुष्पाण्यानीय योऽर्चयेत्। अविज्ञाप्य च तस्यैव निष्फलं तस्य पूजितम्”। एतद्द्विजेतरपरम्
“द्विजस्तृणैधः पुष्पाणि सर्वतः स्ववदा-हरेत्” इति याज्ञवम्क्यात्।
“देवाद्यर्थन्तु कुसुममस्तेयंमनुरब्रवीत्” इति वचनात्।
“गोऽग्न्यर्थे तृणमेधांसिवीरुद्वनम्पतीनां पुष्पाणि खवदाददीत फलानि[Page4389-b+ 38] चापरिवृंहितानि” इति गोतमवचनाच्च। द्विजेतरस्यदण्डोऽपि
“तृणं वा यदि वा काष्ठं पुष्पं वा यदि वाफलम्। अनापृच्छन् हि गृह्णानो हस्तच्छेदनमर्हति” इतिस्मृतेः।
“देवोपरिधृर्त मस्तकोपरिधृतम् अधोवस्त्र-धृतम् अन्तर्जलक्षालितञ्च पुष्पं दुष्टमिति” हरिभक्ति-नामके ग्रन्थे। अभिवाद्याभिवादककरस्थपुष्पं प्रोक्ष-णात् कर्मण्यम्” इति केचित्। याचितादिपुष्प-दानस्य निष्फलत्वम्।
“याचितं निष्फलं पुष्पं क्रय-क्रीतञ्च निष्फलम्” इति वदन्ति। वामहस्तचितादिपुष्पस्यादेयत्वं यथा
“न पुष्पच्छदनं कार्य्यं देवार्थंवामहस्ततः। न दद्यात्तानि देवेभ्यः संस्थाप्य वामहस्ततः। समित्पुष्पादीनां स्वयमाहरणीयत्वं हारीतशाता-तपौ
“समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत्। शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः”। क्रये प्रति-प्रमवमाह ब्रह्मपु॰
“पुष्पैर्धूपैश्च नैवेद्यैर्वीरक्रयक्रिया-हृतैः”। वीरक्रयो वीरवत् याच्ञाशून्येन विक्रेतु-रुसन्यस्तमूल्येन क्रयः। पुष्पदानप्रकारो ज्ञानमालायां
“पुष्पं वा यदि वा पत्रं फलं नेष्टमधोमुखम्। पुष्पा-ञ्जलिविधिं हित्वा यथोत्पन्नं तथार्पणम्”। मध्याह्न-स्नानानन्तरं पुष्पचयनस्य दोषो यथा
“स्नानं कृत्वा तु येकेचित् पुष्पं गृह्णन्ति वै द्विजाः। देवतास्तन्न गृह्णन्तिभस्मीभवति दारुवत्”। एतत्तु द्वितीयस्नानाभिप्रायम्। इति रत्नाकरः। व्यक्तं मत्स्यसूक्ते
“स्नात्वा मध्याह्न-समये न छिन्द्यात् कुसुमं नरः। तत्तत्पुष्पार्चने देवि!रौरवे परिपच्यते”। पुष्पाभावे देयानि विष्णु-धर्मोत्तरे
“पुष्पाभावेऽपि देयानि पत्राणि च जनार्दने। पत्राभावे जलं दद्यात्तेन पुण्यमवाप्यते”। पुष्पदान-माहा{??}यं यथा
“न रत्रैर्न सुवर्णेन न वित्तेन च भू-रिणा। तथा प्रसादमायाति यथा पुष्पैर्जनार्दनः”। देवताविशेषे वर्जनीयपुष्पं यथा शातातपः
“शिवे वि-वर्जयेत् कुन्दमुन्मत्तञ्च हरेस्तथा। देवीनामर्कमन्दारौसूर्य्यस्य तगरन्तथा”। पुष्पविशेषाणां कालभेदे पर्य्यु-षितमुक्तं भविष्ये
“पद्मानि सितरक्तानि कुमुदा-न्युत्पलानि च। एषां पर्युषिताशङ्का कार्य्या पञ्चदिनोत्तरम्”। पुष्विशेषस्यापर्युषितत्वं यथा
“तु-लस्यगस्त्यविल्वानां न च पर्युषितात्मता”। योगिनी-तन्त्रे
“विल्वपत्रञ्च माघ्यञ्च तमालामलकोदलम्। क-ह्लारं तुलसीञ्चैव पद्मञ्च मुनिपुष्पकम्। एतत् पर्यु[Page4390-a+ 38] पित न स्यात् यच्चात्यत् ककिकात्मकम्। ” कलिकात्मकंप्रस्फुटनयोग्यम् एका॰ त॰। अन्यत् पर्युषितशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्प¦ r. 4th cl. (पुष्प्यति) To flower, to blossom. दि० पर० अक० सेट् |

पुष्प¦ n. (-ष्पं)
1. A flower in general.
2. The menses.
3. Expansion, expanding.
4. The vehicle or car of KUVE4RA.
5. A disease of the eyes, specks on the eye, albugo.
6. A topaz.
7. Gallantry, politeness, (in erotic poetry.) f. (-ष्पा) The capital of KARN4A, or Bha4galpur. m. (-ष्पः) Blossoming, blooming, expanding. E. पुष्प to flower, &c. अच् aff.

पुष्प(ष्य)रथ¦ m. (-थः) A car or carriage for travelling or pleasure, or any purpose except war. E. पुष्प a flower, and रथ a car.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पम् [puṣpam], [पुष्प् विकाशे-अच्]

A flower, blossom; पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति Bg.9.26.

The menstrual discharge; as in पुष्पवती q. v.

A topaz (पुष्पराग); Rām.2.94.6.

A disease of the eyes (albugo).

The car or vehicle of Kubera; see पुष्पक.

Gallantry, politeness (in love language).

Expanding, blooming, blossoming (said to be m. in this sense).-Comp. -अग्रम् pistil.

अञ्जनम् calx of brass used as a collyrium.

A white flower-like substance which appears when zinc is mixed with copper and heated for preparing brass.

Zinc oxide (Mar. जस्तफूल). -अञ्जलिः a handful of flowers. -अनुगम् a powder promoting menstruation. -अभिषेक = ˚स्नान q. v. -अम्बु the honey of flowers. -अम्बुजम् the sap of flowers. -अवचयः collecting or gathering flowers. -अवचायिन् = पुष्पाजीव q. v.-अस्त्रः an epithet of the god of love. -आकर a. rich or abounding in flowers; मासो नु पुष्पाकरः V.1.9. -आगमः the spring. -आजीवः a florist, garland-maker. -आननः a kind of liquor. -आपीडः a chaplet of flowers.-आयुधः, -इषुः the god of love; पुष्पायुधं दुराधर्षम् Mb.1. 172.17; Mahimna 23. -आसवम् honey. -आसारः a shower of flowers; पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः Me.45. -आस्तरकः, -आस्तरणम् the art of strewing flowers (one of the 64 Kalās). -उद्गमः appearance of flowers. -उद्यानम् a flower-garden. -उपजीविन् m. a florist, gardener, garland-maker. -करण्डकम् N. of the garden of Ujjayinī. -करण्डिनी N. of the city, Ujjayinī.

कालः 'flower-time', the spring.

the time of the menses. -कासीसम् green (or black) sulphate of iron.-कीटः a large black bee. -केतनः, -केतुः the god of love. (-n.)

calx of flowers.

vitriol (used as a collyrium). -गण्डिका N. of a kind of farce (in which men act as women and women as men); S. D. -गृहम् a flowerhouse, conservatory. -घातकः the bamboo.

चयः gathering flowers

a quantity of flowers. -चापः the god of love. -चामरः a kind of cane. -जम् the juice of flowers. -दः a tree.

दन्तः N. of an attendant of Śiva.

N. of the author of the Mahimnastotra.

N. of the elephant presiding over the northwest; शुद्धाक्षमैन्द्रं भल्लाटं पुष्पदन्तं तथैव च Hariv.

the sun and moon (dual). -दामन् n. a garland of flowers.

द्रवः the sap or exudation of flowers.

an infusion of flowers. -द्रुमः a flowering tree. -धः the offspring of an outcast Brāhmaṇa; cf. व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः । आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ Ms.1.21. -धनुस्, -धन्वन् m. the god of love; द्रुतमेत्य पुष्पधनुषो धनुषः Śi.9.41; शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा Ku.2.64. -धरः a. bearing flowers. -धारणः an epithet of Viṣṇu. -ध्वजः the god of love. -निक्षः a bee. -निर्यासः, -निर्यासकः the sap, nectar, or juice of flowers. -नेत्रम् the tube of a flower. -पत्रिन् m. the god of love. -पथः, -पदवी the vulva. -पुटः the calyx of a flower.

(in music) a particular position in dancing. -पुरम् N. of Pāṭaliputra; प्रासादवातायनसंश्रितानां नेत्रोत्सवं पुष्पपुराङ्गनानाम् R.6.24. -प्रचयः, -प्रचायः the plucking or gathering of flowers. -प्रचायिका gathering of flowers. -प्रस्तारः a bed or couch of flowers. -फलः the wood-apple tree.-बटुकः a courtier, gallant; (v. l. for पुष्पनाटक), -बलिः an offering of flowers. -बाणः, -वाणः an epithet of the god of love. -भद्रः a kind of pavilion with 62 columns.-भवः the nectar or juice of flowers. -मञ्जरिका a blue lotus. -माला a garland of flowers.

मासः the month of Chaitra; मम त्वयं विना वासः पुष्पमासे सुदुःसहः Rām.4.1. 41.

the spring; अजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पुष्पमासः Ki.1.35. -यमकम् a kind of Yamaka; cf. Bk.1.14. -रजस् n. the pollen. -रथः a carriage for travelling or for pleasure (but not for war); मुख्यः पुष्परथो युक्तः किं न गच्छति ते$ग्रतः Rām.2.26.15. -रसः the nectar or juice of flowers. ˚आह्वयम् honey. -रागः, -राजः a topaz. -रेणुः pollen; वायुर्विधूनयति चम्पकपुष्पपेणून् Kavirahasya; R.1.38. -पुष्परोचनः the Nāgakesara tree. -लावः a flower-gatherer. (-वी) a female flowergatherer; Me.26. -लिक्षः, -लिह् m. a bee. -लिपिः A particular style of writing. -वर्षः, -वर्षणम् a shower of flowers; सुरभि सुरविमुक्तं पुष्पवर्षं पपात R.12.12; पुष्पवर्षो महानभूत् Rām. -वाटिका, -वाटी f. a flower-garden.-वृक्षः a tree bearing flowers. -वृष्टिः f. a shower of flowers; परस्परशरव्राताः पुष्पवृष्टिं न सेहिरे R.12.94. -वेणी a garland of flowers. -शकटिका, -शकटी a heavenly voice, voice from heaven. ˚निमित्तज्ञानम् Knowledge of the omens which result from heavenly voices (one of the 64 Kalās). -शय्या a flowery bed, a couch of flowers. -शरः, -शरासनः, -सायकः the god of love.-समयः the spring. -सारः, -स्वेदः the nectar or honey of flowers. -सारा the holy basil. -सिता a kind of sugar.-स्नानम् a kind of inauguration.

हासः an epithet of Viṣṇu.

the blooming of flowers. -हासा a woman in her courses. -हीना a woman past child-bearing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्प n. (for पुष्क?)a flower , blossom( ifc. f( आ). , in names of plants oftener f( ई). ; See. Pa1n2. 4-1 , 64 Va1rtt. 1 ) AV. etc.

पुष्प n. the menstrual flux Sus3r.

पुष्प n. a partic. disease of the eye , albugo Sus3r.

पुष्प n. a spot on the nails and teeth Car.

पुष्प n. (in dram. ) gallantry , politeness , declaration of love Das3ar. Sa1h. Prata1p.

पुष्प n. N. of a सामन्Ta1n2d2Br. La1t2y.

पुष्प n. of a book , DivyA7v.

पुष्प n. a kind of perfume L.

पुष्प n. the vehicle of कुबेरL.

पुष्प n. blooming , expanding L.

पुष्प m. a topaz R.

पुष्प m. N. of a serpent-demon MBh.

पुष्प m. of a son of श्लीष्टिHariv.

पुष्प m. of a son of शङ्खib. ( C. पुष्य)

पुष्प m. of a बोधि-सत्त्व(?) Lalit.

पुष्प m. of a mountain Ma1rkP.

पुष्प m. of a book (prob. = पुष्प-सूत्र) , Divya4v.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of हिरण्यनाभ and father of Dhruva- sandhi. Br. III. ६३. २०९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṣpa : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 13, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*2nd word in right half of page p40_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṣpa : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 13, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*2nd word in right half of page p40_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Puṣpa in the Atharvaveda[१] and later[२] denotes a ‘flower’ generally.

  1. viii. 7, 12. Cf. x. 8, 34.
  2. Vājasaneyi Saṃhitā, xxii. 28;
    Pañcaviṃśa Brāhmaṇa, viii. 4, 1;
    xv. 3, 23;
    Taittirīya Saṃhitā, v. 4, 4, 2;
    Chāndogya Upaniṣad, iii. 1, 2;
    Bṛhadāraṇyaka Upaniṣad, vi. 4, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=पुष्प&oldid=501016" इत्यस्माद् प्रतिप्राप्तम्