पुष्पराग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्परागः, पुं, (पुष्पस्येव रागो वर्णोऽस्य ।) मणिविशेषः । पुखराज इति भाषा । तत्- पर्य्यायः । मञ्जुमणिः २ वाचस्पतिवल्लभः ३ । इति भावप्रकाशः ॥ पीतः ४ पीतस्फटिकः ५ पीतरक्तः ६ पीताश्म ७ गुरुरत्नम् ८ पीत- मणिः ९ पुष्पराजः १० ॥ (यथा, रघौ । १८ । ३२ । “तस्य प्रभा निर्ज्जितपुष्परागं पौष्यान्तिमौ पुष्यमसूत पत्नी ॥” “प्रभया निर्ज्जितः पुष्परागो मणिविशेषो येन ।” इति तट्टीकायां मल्लिनाथः ॥) अस्य गुणाः । अम्लत्वम् । शीतत्वम् । वातनाशित्वम् । दीपन- त्वञ्च ॥ * ॥ तस्य धारणगुणः । आयुःश्रीप्रज्ञा- कारित्वम् ॥ * ॥ तस्य लक्षणं यथा, -- “सुच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धञ्च निर्म्मलमतीव सुवृत्तशीतम् । यः पुष्परागसकलं कलयेदमुष्य पुष्णाति कीर्त्तिमतिशौर्य्यसुखायुरथान् ॥” * ॥ तस्य कुलक्षणं यथा, -- “कृष्णविन्द्वङ्कितं रूक्षं धवलं मलिनं लघु । विच्छायं शर्करागारं पुष्परागं सदोषकम् ॥” तस्य परीक्षालक्षणे यथा, राजनिर्घण्टे । “घृष्टो विकाशयेत् पुष्परागमधिकमात्मीयम् । न खलु पुष्परागो जात्यतया परीक्षकैरुक्तः ॥” तस्योत्पत्त्यादि यथा, -- सूत उवाच । “पतिता या हिमाद्रौ हि त्वचस्तस्य सुरद्विषः । प्रादुर्भवन्ति ताभ्यस्तु पुष्परागा महागुणाः ॥ आपीतपाण्डुरुचिरः पाषाणः पुष्परागसंज्ञस्तु । कौरुण्टकनामा स्यात् स एव यदि लोहितापीतः ॥ आलोहितस्तु पीतः स्वच्छः काषायकः स एवोक्तः । आनीलशुक्लवर्णः स्निग्धः सोमालकः स्वगुणैः ॥ अत्यन्तलोहितो यः स एव खलु पद्मरागसंज्ञः स्यात् । अपि चेन्द्रनीलसंज्ञः स एवं कथितः सुनीलः सन् ॥ मूल्यं वैदुर्य्यमणेरिव गदितं ह्यस्य रत्नशास्त्र- विदा । धारणफलञ्च तद्वत् किन्तु स्त्रीणां सुतप्रदो भवति ॥” इति गारडे ७५ अध्यायः ॥ * ॥ प्रकारान्तरम् । “शणपुष्पसमः कान्त्या स्वच्छभावस्तु चिक्कणः । पुत्त्रदो धनदः पुण्यः पुष्परागमणिर्धृतः ॥ दैत्यधातुसमुद्भूतः पुष्परागमणिर्द्बिधा । पद्मरागाकरे कश्चित् कश्चित्तार्क्ष्योपलाकरे ॥ ईषत्पीतच्छविच्छायास्वच्छं कान्त्या मनो- हरम् ॥ पुष्परागमिति प्रोक्तं रङ्गसोममहीभुजा ॥ ब्रह्मादिजातिभेदेन तद्विज्ञेयं चतुर्विधम् । छाया चतुर्व्विधा तस्य सिता पीता सिता- सिता ॥” इति युक्तिकल्पतरुः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पराग¦ पु॰ पुष्पस्येव रागो वर्णो यस्य।

१ मणिभेदे (पोक-राज) तस्य लक्षणादि युक्तिकल्पतरावुक्तं यथा
“सुच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धञ्च निर्मलमतीवसुवृत्तशीतम्। यः पुष्परागशकलं कलयेदमुष्य पुष्णातिकीर्त्तिमतिर्शार्य्यसुखायुरर्थान्” तस्य दोषलक्षणं यथा
“कृष्णविन्द्वङ्कितं रूक्षं घवलं मलिनं लघु। विच्छायंशर्कराकारं पुष्परागं सदोषकम्”। तस्य परीक्षालक्षणेयथा
“घृष्टो विकाशयेत् पुष्परागमधिकमात्मीयम्। नखलु{??}पुष्परागो जात्यतया परीक्षकैरुक्तः” राजनि॰। तस्योत्पत्त्यादि यथा
“सूत उवाच। पतिता या हिमाद्रौहि त्वचस्तन्वाः सुरद्विषः। प्रादुर्भवन्ति ताभ्यस्तु पुष्प-रागा महागुणाः। आपीतपाण्डुरुचिरः पाषाणःपुष्परागसंज्ञस्तु। कौरुण्टकनामा स्यात् स एव यदिलोहितापीतः। आलोहितस्तु पीतः स्वच्छः काषा-यकः स एवोक्तः। आनीलशुक्लवर्णः स्निग्धः सोमालकः स्वगुणैः। अत्यन्तलोहितो यः स एव खलु पद्म-रागः स्यात् सुनीलः सन्। मूल्यं वैदूर्य्यमणेरिवगदितं ह्यस्य रत्नशास्त्रविदा। धारणफलञ्च तद्वत् किन्तुस्त्रीणां शुमप्रदो भवति” गारुडे

७५ अ॰। प्रकारान्तरम्शणपुष्पसमः कान्त्या स्वच्छभावस्तु चिक्कणः। पुत्रदोघनदः पुण्डः पुष्परागो मणिर्धृतः। दैत्यधातुसमुद्भूतःपुष्परागमणिर्द्विधा। पद्मरागाकरे कश्चित् कश्चित्ता-र्क्ष्योपलाकरे। ईषत्पीतच्छविच्छायं स्वच्छं कान्त्यामनोहरम्। पुष्परागमिति प्राक्तं रङ्गसोममहीभुजा। ब्रह्मादिजातिभेदेन तद्विज्ञेयं चतुर्विधम्। छाया चतुर्विधातस्य सिता पीता सितासिता”। क्लीवत्वमपि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पराग/ पुष्प--राग m. " -fflower-hued " , a topaz Var.

"https://sa.wiktionary.org/w/index.php?title=पुष्पराग&oldid=314055" इत्यस्माद् प्रतिप्राप्तम्