पुस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुस्त, क, बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०- उभ०-सक०-सेट् ।) पञ्चमस्वरी । दन्त्योपधः । क, पुस्तयति । इति दुर्गादासः ॥

पुस्तम्, क्ली, (पुस्त्यते इति । पुस्त बन्धादरादौ + घञ् ।) लेप्यादिशिल्पकर्म्म । आदिना काष्ठ- पुत्तलिकाखनित्रखननादि कर्म्म गृह्यते । इति सुभूत्यादयः ॥ मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्म्मणा । लोहरत्नैः कृतं वापि पुस्तमित्यभिधीयते ॥” इत्यमरटीकायां भरतः ॥ (यथा, वाभटे सूत्रस्थाने । ३ । “पुस्तस्त्रीस्तनहस्तास्यप्रवृत्तोशीरवारिणि ॥” पुस्त्यते बध्यते ग्रथ्यते इत्यर्थः आद्रियते वेति + पुस्त + घञ् ।) पुस्तकम् । इति मेदिनी ॥ (पुस्त + गौरादित्वात् ङीष् ।) स्त्रियां पुस्ती ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुस्त नपुं।

वस्त्रादिलेप्यम्

समानार्थक:पुस्त

2।10।28।2।3

पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः। वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुस्त¦ बन्धे अनादरे च चु॰ उभ॰ सक॰ सेट्। पुस्तयति ते अपुपुस्तत् त।

पुस्त¦ न॰ पुस्त--अच्।
“मृदा वा दारुणा वापि वस्त्रेणाप्यथचर्मणा। लौहरत्नैः कृतं वापि पुस्तमित्यभिधीयते” इत्युक्ते

१ लिप्यादिशिल्पकर्मणि। स्वार्थे क।

२ लिप्या-धारे ग्रन्थे पुंस्त्री॰ स्त्रीत्वे गौरा॰ ङीष्। पुस्तकमानलेखनप्रकारादिकं योगिनीतन्त्रे उक्तं यथा
“मानं वक्ष्ये पुस्तकस्य शृणु देवि! समासतः। माने-नास्य फलं विन्द्यादमाने श्रीर्हता भवेत्। हस्तमात्रंमुष्टिमात्रमाबाहु द्वादशाङ्गुलम्। दशाङ्गुलं तथाष्टौच ततो हीनं न कारयेत्”। तस्य वेधो यथा
“वेधद्वयंमुष्टिहस्ते बाहुमात्रे त्रिरन्ध्रकम्। समभागे महेशानि[Page4393-a+ 38] हस्तादो रूप(

१ )रन्ध्रकम्। अष्टाङ्गुलं परित्यज्य मध्येवेधं तु कारयेत्। प्रादेशादौ मवेद्रन्ध्रं द्व्यङ्गुले वासमाचरेत्। पुस्तकस्य च आद्यन्ते यन्त्रवेधं विकल्पयेत्। भार्य्याहानिर्भवेदाशु धनानां वा क्षयो भवेत्। दग्धरन्ध्रेभवेत् पीडा वर्तुलं शुभदं भवेत्। चतुष्कोणे विप्ल-वस्तु त्रिकोणे मरण भवेत्”। पुस्तकलेखनपत्रं यथा
“भूर्जे वा तेजपत्रे वा ताले वा ताडिपत्रके। अगत्व-चापि देवेशि! पुस्तकं कारयेत् प्रिये!। सम्भवे स्वर्ण-पत्रे च ताम्रपात्रे च शङ्करि!। अन्यवृक्षत्वचिदेवि! तथा केतकीपत्रके। मार्त्तण्डपत्रे रौप्ये बावटपत्रे वरानने!। अन्यपत्रे वसुदले लिखित्वा यःसमभ्यसेत्। स दुर्गतिमवाप्नोति धनहानिर्भवेद्ध्रुवम्। पुस्तके पाठ्यवेदलिखननिषेधो यथा
“वेदस्य लिखनं कृत्वायः पठेद् ब्रह्महा भवेत्। पुस्तकं वा गृहे स्थाप्यंवज्रपातो भवेद् ध्रुवम्”। युगभेदे पुस्तकाक्षरस्थ देवायथा
“सत्येऽक्षरे स्थितः शम्भुः शूलपाणिस्त्रिलोचनः। पजापतिर्द्वापरे च त्रेतायां सूर्य्य एव च। कृते युगेपिनाकी च कलौ लिप्यक्षरे हरिः”। तल्लेखकपूजा-फलं यथा
“आरम्भे च समाप्तौ च लेखकं प्रतिपूजयेत्। हरिञ्च गन्धपुष्पाद्यैर्वस्त्रैश्च सुमनोहरैः। यावदक्षर-संख्यानं प्रतिपत्रं च सुन्दरि!। तावद्युगसहस्राणिब्रह्मलोके वसेच्चिरम्”। लेखकस्य वेतनग्रहणे दोषोयथा
“वेतनं यस्तु गृह्णीयात् लिखित्वा पुस्तकं स तु। यावदक्षरसंख्यानं तावच्च नरकं वसेत्”। भूमौ पुस्तक-लेखनस्थापननिषेधो यथा
“न भूमौ विलिखेद्वर्णं यन्त्रंन पुस्तकम् लिखेत्। न भूमौ पुस्तकम् स्थाप्यं न मुक्त-माहरेत्तु तत्। भूपृष्ठग्रहणे चैव अक्षरं वाऽथपुस्तकम्। भूमौ तिष्ठति देवेशि! जन्मजन्मसु मूर्खता। तदा भवति देवेशि! तस्मात्तत् परिवर्जयेत्”। तस्य दान-फलं यथा
“विप्राय पुस्तकं दत्त्वा धर्मशास्त्रस्य चद्विज। पुराणस्य च यो दद्यात् स देवत्वमवाप्नुयात्। शास्त्रदृष्ट्या जगत्सर्वं सुश्रुतञ्च शुभाशुभम्। तस्मात्शास्त्रं प्रयत्नेन दद्याद्विप्राय कार्त्तिके। वेदविद्याञ्च योदद्यात् स्वर्गे कल्पत्रयं वसेत्। आत्मविद्याञ्च यो दद्या-त्तस्य खंख्या न विद्यते। त्रीणि तुल्यप्रदानानि त्रीणितुल्यफलानि च। शास्त्रं कामदुघा धेनुः पृथिवीचैव शाश्वती” इति पाद्मोत्तरखण्डे

११

७ अ॰। वेद-शास्त्रादिदानफलं यथा
“वेदार्थयज्ञशास्त्राणि धर्म-[Page4393-b+ 38] शास्त्राणि चैव हि। मूल्येन लेखयित्वा यो दद्याद्याति स वैदिकम्। इतिहासपुराणानि लिखित्वायः प्रयच्छति। ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणी-कृतम्” इति गारुडे

२१

५ अ॰। पुराणादिपुस्तकदान-विधिः हेमा॰ दा॰ चण्डीशब्देऽधिकं दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुस्त¦ r. 10th cl. (पुस्तयति-ते)
1. To respect.
2. To disregard, to treat with disrespect.
3. To bind.
4. To smear. चु० उभ० सक० सेट् |

पुस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Filled.
2. Covered. n. (-स्तं)
1. Smearing, anoin- ting, painting, plastering, &c.
2. Any thing made of metal, wood or clay, &c. nf. (-स्तं-स्ती) A book, a manuscript. E. पुस्त to bind, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुस्तम् [pustam], 1 Plastering, painting, anointing.

Working in clay, modelling.

Anything made of clay, wood or metal.

A book, manuscript; also पुस्ता-स्ती.-Comp. -कर्मन् n. plastering, painting. -पालः Keeper of land records; EI.XV.13;XX.61.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुस्त m. n. ( g. अर्धर्चादि)working in clay , modelling , कथा.

पुस्त f. a manuscript , book Var. (See. below) Hcat.

पुस्त mfn. covered , filled W.

"https://sa.wiktionary.org/w/index.php?title=पुस्त&oldid=314822" इत्यस्माद् प्रतिप्राप्तम्