पूरक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरकः, पुं, (पूरयतीति । पूरि + ण्वुल् ।) वीज- पूरः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “बीजपूरो मातुलुङ्गः सुफलः फलपूरकः । लुङ्गुषः पूरकः पूरो बोजपूर्णोऽम्बुकेशरः ॥” इति वैद्यकरत्नमालायाम् ॥) गुणकाङ्कः । इति लीलावती ॥ ध्यानादिकर्त्तृ- नासिकागतोच्छ्वासः । ब्रह्मध्यानपूर्ब्बकप्राणाया- माङ्गतत्तन्मन्त्रं जपन् वामनासिकया वायुना देहपूरणम् । (यथा, हठयोगप्रदीपिकायाम् । २ । ७१ । “प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥”) यथाच व्यासः । “आदानं रोधमुत्सर्गं वायोस्त्रिस्त्रिः समभ्यसेत् । ब्रह्माणं केशवं शम्भुं ध्यायेद्देवाननुक्रमात् ॥ पूर्ब्बवचने त्रिर्जपमात्राभिधानादत्र त्रिस्त्रिरिति वीप्सा सन्ध्यात्रयापेक्षया । ब्रह्माणं केशवं शम्भुं ध्यायन् मुच्येत बन्धनात् ॥ इति योगियाज्ञवल्क्यः । ‘भूर्भुवःस्वर्महर्जनस्तपः सत्यं तथैव च । प्रत्योङ्कारसमायुक्तं तथा तत् सवितुः पदम् ॥ ओ~ आपो ज्योतिरित्येतच्छिरः पश्चात्तु योज- येत् । त्रिरावर्त्तनयोगात्तु प्राणायामस्तु शब्दितः ॥ पूरकः कुम्भको रेच्यः प्राणायामास्त्रलक्षणः । नासिकाकृष्ट उच्छ्वासो ध्यातुः पूरक उच्यते ॥ कुम्भको निश्चलः श्वासो मुच्यमानस्तु रेचकः ॥ मोचनं विशेषयति विष्णुपुराणम् । नासंवृतमुखो जृम्भेद्धासकाशौ च वर्ज्जयेत् । नोच्चेर्हसेत् सशब्दञ्च न मुञ्चेत् पवनं बुधः ॥” इत्याह्निकाचारतत्त्वम् ॥ षोडशचतुरन्यतरसंख्यकप्रणवबीजान्यतरजपे- नैकनासापुटकरणकप्राणायामाङ्गवायुपूरणम् । यथा, मूलमन्त्रस्य बीजस्य प्रणवस्य वा षोडश- वारजपेन वामनासापुटे वायुपूरकं कुर्य्यादिति तन्त्रसारः ॥ * ॥ क्ली, प्रेतदेहनिष्पादकाशौच- कालदेयदशपिण्डम् । यथा, -- “पूरकेण तु पिण्डेन देहो निष्पाद्यते यतः । कृतस्य करणायोगात् पुनर्नावर्त्तयेत् क्रियाम् ॥” इति वायुपुराणम् ॥ ऋष्यशृङ्गः । “न स्वधाञ्च प्रयुञ्जीत प्रेतपिण्डे दशाहिके । भाषेतैतच्च वै पिण्डं यज्ञदत्तस्य पूरकम् ॥” अत्र भाषणविधौ एतत्पिण्डं यज्ञदत्तस्य पूरक- मित्येतावन्मात्रश्रुतेः शिरःपूरकमित्यादिविशे- षोल्लेखे प्रमाणं नास्ति । इति स्मार्त्तभट्टा- चार्य्याः ॥ प्रेतपिण्डैस्तथा दत्तैर्देहमाप्नोति भार्ग- वेति विष्णुधर्म्मोत्तरे देहश्रुतेर्देहपूरकमिति प्रयोगापत्तेश्च । तस्मादनिरुद्धभट्टाद्युक्तः केवल- पूरकप्रयोग एव युक्त इति । शातातपः । “भर्त्तुः पिण्डप्रदाने तु साध्वी स्त्री चेद्रजस्वला । वस्त्रं त्यक्त्वा पुनः स्नात्वा सैव दद्याच्च पूरकम् ॥” इति शुद्धितत्त्वम् ॥ * ॥ पूरणकर्त्तरि, त्रि । इति शब्दरत्नावली ॥ (यथा, मनुः । ९ । २८९ । “प्राकारस्य च भेत्तारं परिखाणाञ्च पूरकम् । द्वाराणाञ्चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरक¦ त्रि॰ पूरयति पूरि--ण्वुल्।

१ पूरणकर्त्तरि

२ गुणके अङ्खेच।

३ वीजपूरे राजनि॰।

४ बहिर्वृत्तिकस्य प्राणस्य वायोःनासयाकृष्य देहान्तःप्रवेशनरूपव्यापारभेदे। प्राणायाम-शब्दे दृश्यम्। स्वाशौचकालमध्ये देये प्रेतस्यातिवाहिक-देहनाशनेन प्रेतदेहपूरके

५ पिण्डे तत्कर्त्तव्यतादिशु॰ त॰ यथा
“अत्रेदं वीजं पूर्वक्रियाया आतिवाहिकदेहत्यागोत्तरदेहान्तरजननं, मध्यक्रियाया अपि प्रेतत्वपरिहारो॰त्तरं देहान्तरजननं ततश्चैकयैव तत्सिद्धौ पुनस्तत्करणं वचनाभावेऽनर्थकम्। तथा च विष्णुधर्मोत्तरे
“तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम्। उर्द्ध्वंव्रजन्ति भूतानि त्रीण्यस्मात्तस्य विग्रहात्”। त्रीणिभूतानि तेजोवाय्वाकाशानि पृथिवीजले तु अधोगच्छतः। तत्क्षणात् मृत्युक्षणात्। तथा
“आतिवाहिकसंज्ञोऽसौ देहो भवति भार्गव!। केवलं तन्मनुष्याणांनान्येषां प्राणिनां क्वचित्”। तथा
“प्रेतपिण्डैस्तथा दत्तै-[Page4397-a+ 38] र्देहमाप्नोति भार्गव!। भोगदेहमिति प्रोक्तं क्रमादेव न{??}शयः। प्रेतपिण्डा न दोयन्ते यस्य तस्य विमोक्षणम्। माशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते। तत्रास्ययातना घोराः शतवातातपोद्भवाः। ततः सपिण्डीकरणेबान्धवैः स कृते नरः। पूर्णे संवत्सरे देहमतोऽन्यंप्रतिपद्यते। ततः स नरके याति स्वर्गे वा स्वेन कर्मणा”। तथा च वायुपुराणम्
“पूरकेण तु पिण्डेन देहो निष्पाद्यतेयतः। कृतस्य करणायोगात् पुनर्नावर्त्तयेत् क्रियाम्”। अत एवातिवाहिकदेहपरित्यागाय तत्कालीनकर्माऽसमर्थपुत्रसत्त्वेऽप्यन्येन दाहादि क्रियते
“पितृजसपिण्डैस्तु समानसलिलैर्नरैः। संघान्तर्गतैर्वापि राजा वाधनहारिणा। पूर्वाः क्रियास्तु कर्त्तव्याः पु{??}द्यरेवचोत्तराः” शुद्धित॰। तेन दाहादिपूरकपिण्डदानान्तमाद्यक्रिया तथा आति-वाहिकदेहनिवृत्तिपूर्वकं प्रेतदेहप्राप्तिः आद्यश्राद्धादिमपिण्डान्ता मध्यक्रिया तया प्रेतदेहवमुक्तिपूर्वकं मोग-देहप्राप्तिः तदुत्तरवार्षिकादिश्राद्धादि उत्तरक्रिया तयार्भागमात्रमिति भेदः। पूरकपिण्डदानकालादिश्चशुद्धित॰ निर्णीतो यथा
“प्रथमेऽहनि यो दद्यात् प्रेतायान्नं समाहितः। यत्नान्नवसु चान्येषु स एव प्रददात्यपि। मृण्मयं भाण्डमादायनवं स्नातः सुसंयतः। लगुडं सर्वदोषघ्नं गृहीत्वातोयमानयेत्। ततश्चोत्तरपूर्वस्यामग्निम् प्रज्ज्वालये-द्दिशि। तण्डुलप्रसृतिं तत्र प्रक्षाल्याद्भिः पचेत् स्वयम्। सपवित्रैस्तिलौर्मश्रां केशकीटविवर्जिताम्। द्वारोपान्तेततः क्षिप्ता शुद्वां वा गौरमृत्तिकात्। तत्पृष्ठे प्रस्तरे-दर्भान् याम्याग्रान् देशसम्भवान्। ततोऽवनेजनंदद्यात् संस्मरन् गोत्रनामनी। तिलसर्पिर्मधुक्षीरैः सञ्चितंतप्तमेव हि। दद्यात् प्रेताय पिण्डन्तु दक्षिणाभिमुखस्थितः। फलमूलगुडक्षीरतिलमिश्रन्तु कुत्रचित्। अर्व्यैः पुष्पेस्तथा धूपैर्दीपैस्तोयैः सुशीतलैः। ऊर्णातन्तु-मयैः शुद्धैर्वासोभिः पिण्डमर्चयेत्। प्रयाति यावदाकाशंपिण्डाद्बाष्पमयी शिखा। तावत्तत्सम्मुखस्तिष्ठेत् सर्वंतीये ततः क्षिपेत्। दिवसे दिवसे देयः पिण्ड एवंक्रमेण तु। सद्यःशौचेऽपि दातव्याः सर्वेऽपि युगप-त्तथा। त्र्यहाशोचे प्रदातव्याः प्रथमे त्वेक एव हि। द्वितीयेऽहनि चत्वारस्तृतीये पञ्च चैव हि”। दैवात्अग्निदात्रा पूरकपिण्डस्यादाने आद्यश्राद्धाधिछारिणा[Page4397-b+ 38] अन्तिमदिने आद्यश्राद्धदिने वा तत् करणीयमितिव्यवस्था शुद्धित॰ स्थिता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरक¦ mfn. (-कः-का-कं) Filling, completing, or that which fills or completes.
2. Filling up.
3. Satisfying. m. (-कः)
1. A citron, (Citrus medica.)
2. The multiplier. (In arithmetic.)
3. Closing the right nostril, and drawing up air through the left, a religious cere- monial.
4. The funeral cake or cakes that must be given to [Page465-a+ 60] complete the obsequial rites. E. पूर् to fill, aff. कुन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरक [pūraka], a. [पूर्-ण्वुल्]

Filling up, completing.

Satisfying, making content.

कः The citron tree.

A ball of meal offered at the conclusion of the oblations to the manes.

(In arith.) The multiplier.

Closing the right nostril and inhaling air through the left (as a religious ceremony); cf. रेचक.

Flood, stream, effusion (पूर); सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण (हृच्छयाग्निम्) Bhāg.1.29.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरक mfn. filling , completing , fulfilling , satisfying( ifc. or with gen. ; See. Pa1n2. 2-3 , 70 Ka1s3. ) Mn. MBh. etc.

पूरक m. flood , stream , effusion BhP.

पूरक m. (in arithm. ) the multiplier

पूरक m. a ball of meal offered at the conclusion of the oblations to the पितृs L. (also 627565 -पिण्डm. Kull. on Mn. v , 85 )

पूरक m. closing the right nostril with the forefinger and then drawing up air through the left and then closing the left nostril and drawing up air through the right (as a religious exercise) RTL. 402

पूरक m. the citron tree L.

"https://sa.wiktionary.org/w/index.php?title=पूरक&oldid=501031" इत्यस्माद् प्रतिप्राप्तम्