पूर्णिमा

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णिमा, स्त्री, (पूर्णिः पूरणम् । पूर्णिं मिमीते इति । मा + कः । टाप् ।) पञ्चदशी तिथिः । तत्- पर्य्यायः । पौर्णमासी २ । निशाकरे कलाहीने सा अनुमतिः ३ पूर्णे निशाकरे सा राका ४ । इत्यमरः । १ । ४ । ७-८ ॥ पित्र्या ५ चान्द्री ६ पूर्ण- मासी ७ अनन्ता ८ चन्द्रमाता ९ निरञ्जना १० । इति वाचस्पतिः ॥ पूर्णिमा ११ । इति हड्ड- चन्द्रः ॥ ज्योत्स्नी १२ इन्दुमती १३ सिता १४ । इति राजनिर्घण्टः ॥ सा द्विविधा । यथा, -- “राका चानुमती चैव द्विविधा पूर्णिमा मता । पूर्ब्बोदितकलाहीने पौर्णमास्या निशाकरे । पूर्णिमानुमती ज्ञेया पश्चास्तमितभास्करे ॥ यस्मात्तामनुमन्यन्ते देवताः पितृभिः सह । तस्मादनुमती नाम पूर्णिमा प्रथमा स्मृता ॥ यदा चास्तमिते सूर्य्ये पूर्णचन्द्रस्य चोद्गमः । युगपत् सोत्तरा रागात्तदानुमतिपूर्णिमा ॥ राकान्तामनुमन्यन्ते देवताः पितृभिः सह । रञ्जनाच्चैव चन्द्रस्य राकेति कवयोऽब्रुवन् ॥” इति देवीपुराणम् ॥ * ॥ सा चन्द्रस्य तिथिः । यथा, -- “तस्य ब्रह्मा ददौ प्रीतः पौर्णमासीं तिथिं प्रभुः । तस्यामुपोषयेद्राजंस्तमर्थं प्रतिपादयेत् ॥ न चान्नाहारश्च भवेत्तस्य ज्ञानं प्रयच्छति । कान्तिं पुष्टिञ्च राजेन्द्र ! धनं धान्यञ्च केवलम् ॥” इति वराहपुराणे सोमोत्पत्तिरहस्यम् ॥ * ॥ तस्यां जातफलम् । “कन्दर्पतुल्यो युवतीप्रियश्च न्यायाप्तवित्तः सततं सहर्षः । शूरो बली शास्त्रविचारदक्ष- श्चेत् पूर्णिमा जन्मनि यस्य जन्तोः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ स्कन्दपुराणीयपुरुषोत्तममाहात्म्ये ऊनत्रिंशा- ध्याये । “फाल्गुन्यां क्रीडनं कुर्य्यात् दोलायां मम भूमिप ! ॥” इति तिथितत्त्वम् ॥ * ॥ तस्याः पर्व्वत्वं पर्व्वशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णिमा स्त्री।

पूर्णिमा

समानार्थक:पौर्णमासी,पूर्णिमा

1।4।7।2।4

स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम्. पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा॥

 : एककलाहीनचन्द्रयुक्ता_पूर्णिमा, पूर्णचन्द्रसहिता_पूर्णिमा

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णिमा¦ स्त्री पूर्णिं पूर्त्तिं मिमीते म--क।

१ पौर्णमास्यतिथौ मरीचेः कलायां पत्न्यां जाते

२ कन्याभेदे
“भार्य्यामरीचेस्तु कला सुषुवे कर्दमात्मजा। कश्यपं पूर्णिकाञ्चैवययोरापूरितं जगत्। पूर्णिकाऽसूत विरजं विश्वगञ्चपरन्तप!। भाग॰

४ ।

१ ।

१२ तत्तिविस्वरूपं द्वैधे खण्ड-भेदस्य कर्मभेदे ग्राह्यतादिकं च कालमा॰ न्यरूपि यथा
“तत्र शुक्लायां पञ्चदश्यां चन्द्रमण्डलं स्वकलामिः सर्वा-त्मना पूर्य्यते सेयं मण्डलपरिपूर्त्तिः पूर्णिमेत्यनेन नाम्नाज्ञायते। तदुक्तं ब्रह्माण्डमत्स्यपुराणयोः
“कालक्षयेव्यतिक्रान्ते दिवापूर्णौ परस्परम्। चन्द्रादित्यौ प-[Page4404-a+ 38] राह्णे तु पूर्णत्वात् पूर्णिमा स्मृता” इति। अह्नःपरो भागः पराह्णः सूर्य्यास्तमयकाल इत्यर्थः। तत्रयथादित्यः संपूर्णमण्डलः सन्नस्तमेति तथोत्तरक्षणे चन्द्रःसम्पूर्णमण्डलः सन्नुदेतीति। दृष्टान्तदार्ष्टान्तिकभावस्यविवक्षितत्वाद् द्वयोरादित्यचन्द्रयोरुपन्यासः। यथा म-ण्डलपूर्णत्वविवक्षया पूर्णिमाशब्दः प्रयुज्यते तथा मास-पूर्णत्वविवक्षया पौर्णमासीशब्दः प्रयुज्यते। नदुर्क्तंभविष्योत्तरे
“पौर्णमासी महाराज। सोमस्य दयितातिथिः। पूर्णो मासो भवेद् यस्मात् पौर्णमासी ततःस्मृता” इति। पूर्णिमामावास्ययोर्विकल्पेन मासा-न्तत्वं मासप्रस्तावे दर्शितम्। अतएव पौर्णमास्या-मत्यन्तविप्रकर्षे सत्यनभिभूतत्वाच्चन्द्रमण्डलः सम्पूर्णोदृश्यते। तावेतौ सन्निकर्षविप्रकर्षौ गोभिल आह
“यःपरो विप्रकर्षः सूर्य्याचन्द्रमसीः सा पौर्णमासी। यःपरः सन्निकर्षः सामावास्येति”। तदेवं पर्वाभिधायाःपञ्चदश्याः पूर्णिमादिनामनिर्वचनेन स्वभावविशेषो ज्ञा-प्रितो भवति। ते च पूर्णमास्यामावास्ये प्रत्येकं द्विविधे। तच्च पुराणे दर्शितम्
“राका चानुमतिश्चैव पौर्णमासीद्विधा स्मृता। सिनीबाली कुहूश्चैवममावास्या द्विधैव तु” इति। एतासां चतसृणां स्वरूपं काठकशाखायां वि-स्पष्टं श्रूयते
“या पूर्वा पौर्ण्णमासी सानुमतिर्योत्तरासा राका। या पूर्वाऽमावास्या सा सिनीबाली योत्तरासा कुहूः” इति। वृहद्वशिष्ठोऽपि
“राका आनुमति-श्चैव पौर्णमासीद्वयं विदुः। राका संपूर्णचन्द्रा स्यात्कलोनाऽनुमतिर्मता। पौर्णमासी दिवा दृष्टे शशि-न्यनुमतिः स्मृता। रात्रिदृष्टे पुनस्तस्मिन् सैव राकेतिकीर्त्तिता”। मत्स्यब्रह्माण्डपुराणयोः
“यस्मात्तामनु-मन्थन्ते पितरो दैवतैः सह। तस्मादनुमतिर्नाम पूर्णिमाप्रथमा स्मृता। अत्थर्थं राजते यस्मात् पौर्णमास्यां निशा-करः। रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः” इति।
“अथ पञ्चदशी निर्णीयते। सा द्विविधा पौर्णसास्य-मावास्या च। तत्र पौर्णमास्यां परस्परविरुद्धानि वा-क्यान्युपलभ्यन्ते। तत्र परविद्धाथा ग्राह्यत्वं विष्णु-धर्मोत्तरे
“एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी। अमावास्या तृतीया च उपोष्या स्युः परात्विताः”। परविद्धानिषैधः पूर्बविद्धाविधिश्च ब्रह्मपुराणपद्मपुराणयोः
“घष्ठ्येकादश्यमावास्या पूर्बविद्धा तथाऽष्टमी। पूर्ण्णिमापरविद्धा च नोपोष्यं तिथिपञ्चकम्। पूर्वबिद्धा तु[Page4404-b+ 38] कर्त्तव्या सप्तमी ब्रतिभिर्नरैः। पौर्णमासी, महीपाल-पराया नियमाङ्गता” इति। पूर्बबिद्धाग्राह्यत्व चयुन्मवाक्ये।
“चतुर्दश्या च पूर्ण्णिमति”। एवं परस्पर-विरोधे सति या व्यवस्था सा ब्रह्मवैवर्त्ते दर्शिता
“पूर्वविद्धा न कर्त्तव्या अमावास्या च पूर्णिमा। वर्ज-यित्वा मुनिश्नेष्ठ! सावित्रीव्रतमुत्तमम्” इति। सा-वित्री राजकन्या तया चीर्णं व्रतं सावित्रोव्रतम्। तच्चमविष्योत्तरपुराणे दर्शितम्
“कथयामि कुलस्त्रीणांमहिम्नो वर्द्धनं परम्। यथा चीर्ण्णं व्रतं पूर्बं सा-वित्र्या राजकन्यया” इति। एतच्च पौर्ण्णमास्याममा-वास्यायां च विहितम्। तस्मिन् व्रते पूर्बविद्धा ग्राह्या। व्रतान्तरे पूर्बबिद्धा न कर्त्तव्या किन्तु परविद्धैव कर्त्त-व्येति परस्परविरुद्धस्य शास्त्रद्वयस्य व्यवस्था। यदा तुचतुर्दश्यष्टादशनाडिका भवति तदा सावित्रीव्रतमपितत्र परित्याज्यस्।
“भूतोऽष्टादशनाडोभिर्दूषयत्युत्तरांतिथिमिति” स्मृतेः। योऽयं पौर्णमासीनिर्ण्णव सएवामावास्यायासप्यवगन्तव्यः। तत्रापि सावित्रीव्रतंपूर्वदिने कर्त्तव्यं व्रतान्तराण्युत्तरदिने। अस्यांच व्यवस्थायां ब्रह्मवैवर्त्तवचनं पूर्बमुदाहृतम्। स्कन्द-पुराणेऽपि
“भूतविद्धा सिनीवाली न तु तत्र व्रतं च-रेत्। वर्जयित्वा तु सावित्रीव्रतं तु शिखिनाहन!” इति। एवं च सति युग्मशास्त्रं सावित्रीव्रतव्यति-रिक्तेषु व्रतेषु द्रष्टव्यम्। प्रचेता अपि
“नागबिद्धा तुया षष्ठी सप्तम्या च युताष्टमी। दशस्येकादशीविद्धात्रयोदश्या चतुर्दशी। भूतबिद्धाप्यमावास्या न ग्राह्यामुनिपुङ्गवैः। उत्तरोत्तरविद्धास्ताः कर्त्तव्याः काठकीश्रुतिः” इति। पद्मपुराणेऽपि
“षष्ठ्यष्टमी तथा दर्शः कृष्ण-पक्षे त्रयोदशी। एताः परयुताः कार्य्याः पराः पूर्बेणसंयुताः” इति। यत्तु नारदीयपुराणे
“दर्शं च पौर्णमासं च षितुः सांवत्सरं दिनम्। पूर्बबिद्धमकुर्वाणोनरकं प्रतिप्रद्यते” इति तत् सावित्रीव्रतविषयं श्रा-विषयं वा। अमावास्यायामिव पौर्णमास्यामपि श्राद्धविहितम् तथाच पितामहः
“अमावास्याव्यतीपातपौर्ण-मास्यष्टकासु च। विद्वान् श्राद्धमकुर्वाणः प्रायश्चित्तीयते हिसः” इति। अमाबास्याश्राद्धस्य च पार्वणरूपत्वमपराह्णस्यतत्कर्मकालत्वं कुतपस्य प्रारम्भकालत्वमित्येतत्त्रितयं प्रति-पत्प्रकरणे प्रत्याव्दिकनिर्णये प्रपञ्चितम्”।
“सा चतुर्द{??}युता ग्राह्या युम्मात्। यमः
“पह्मान्ते{??}[Page4405-a+ 38] तसि स्नायात् तेन नायाति मत्पुरम्” विष्णुः
“दृश्येतेसहितौ यस्यां दिवि चन्द्रवृहस्पती। पौर्ण्णमामी तुमहती ज्ञेया संवत्सरे तु सा। तस्यां स्नानोपवासाभ्यामक्षयं परिकीर्त्तितम्”। सहितो मासमंज्ञानि-मित्तकृत्तिकादिनक्षत्रगतौ महाकार्त्तिक्यादिदर्शनात्। नथा च राजमार्त्तण्डः
“माससंज्ञे यदा ऋक्षे चन्द्रःसम्पूर्णमण्डलः। गुरुणा याति संयोगं सा तिथि-र्महती स्मृता”। स्कान्दमात्स्ययोः
“पौर्ण्णमासीषु चै-ताषु मासर्क्षसहितासु च। एतासु स्नानदानाभ्यांफलं दशगुणं स्मृतम्” ति॰ त॰ स्थितम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णिमा¦ f. (-मा) Day of full moon. E. पूर्ण full, (the moon,) इमक् aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णिमा [pūrṇimā] पूर्णिमासी [pūrṇimāsī] पूर्णमा [pūrṇamā], पूर्णिमासी पूर्णमा The day of full moon; निखिलान्निशि पूर्णिमा तिथीनुपतस्थे$तिथिरेकिका तिथिः N.2.76.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्णिमा f. the night or day of full moon Ra1jat. Su1ryas.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शक्ति on the षोडश-patra1bja1. Br. IV. ३२. १२.
(II)--the meeting of the night at the Full Moon day; here both the Devas and पितृस् see it; फलकम्:F1:  वा. ५६. ३९, ४३.फलकम्:/F एत्य्। फलकम्:F2:  M. १४१. ३९.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=पूर्णिमा&oldid=459359" इत्यस्माद् पुनः प्राप्तिः