पेशल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशलः, त्रि, (पिश अवयवे + भावे घञ् । पेशं लातीति । ला + कः । यद्वा, पेशोऽस्यास्तीति । सिध्मादित्वात् लच् ।) चारुः । (यथा, देवी- भागवते । ५ । ९ । ५९ । “महिषस्य वचः श्रुत्वा पेशलं मन्त्रिसत्तमः । जगाम तरसा कामं गजाश्वरथसंयुतः ॥”) सुन्दरः । (यथा, रघुः । ९ । ४० । “युवतयः कसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥”) दक्षः । चतुरः । कोमलः । इत्यमरभरतौ ॥ (यथा, मुकुन्दमालायाम् । २१ । “इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसन्धि जर्जरम् । किमौषधैः क्लिश्यसि मूढ दुर्म्मते ! निरामयं कृष्णरसायनं पिब ॥”) घूर्त्तः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशल पुं।

चतुरः

समानार्थक:दक्ष,चतुर,पेशल,पटु,सूत्थान,उष्ण

2।10।19।1।3

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च। चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पेशल वि।

चारपुरुषः

समानार्थक:यथार्हवर्ण,प्रणिधि,अपसर्प,चर,स्पश,चार,गूढपुरुष,पेशल

3।3।205।2।2

प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च। करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेश(ष)(स)ल¦ त्रि॰ पिश(ष)(स)--अलच्।

१ सुन्दरे

२ दक्षे

३ कोमले च अमरः। मूर्द्धन्यदन्त्यमध्योऽप्युक्तार्थेषुभरतः।

४ धूर्त्ते शब्दर॰। पेशोरूपमस्त्यस्य सिध्मा॰ लच्।

५ विष्णौ पु॰।
“अक्रूरः पेशलो दक्षः” विष्णुस॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशल¦ mfn. (-लः-ला-लं)
1. Dexterous, clever.
2. Beautiful, agreeable,
3. Fraudulent, crafty.
4. Soft, smooth.
5. Tender, delicate.
6. Thin, slender. E. पिश् to be a component part, अलच् aff.; also पेषल and पेसल |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशल mf( आ)n. ( g. सिध्मा-दि)artificially formed , adorned , decorated VS. TBr.

पेशल mf( आ)n. beautiful , charming , lovely , pleasant MBh. Ka1v. etc.

पेशल mf( आ)n. soft , tender , delicate , Ka1lid.

पेशल mf( आ)n. expert , skilful , clever Bhartr2.

पेशल mf( आ)n. fraudulent , crafty L.

पेशल m. N. of विष्णु, V.

पेशल n. charm , grace , beauty , loveliness BhP.

"https://sa.wiktionary.org/w/index.php?title=पेशल&oldid=322710" इत्यस्माद् प्रतिप्राप्तम्