पोतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतः, पुं, स्त्री, (पुनातीति । पू + “हसिमृग्रिण्- वामिदमिलूपूधूर्विभ्यस्तन् ।” उणा० ३ । ८६ । इति तन् ।) शिशुः । इत्यमरः । २ । ५ । ३८ ॥ (यथा, कथासरित्सागरे । १२ । १३३ । “तत्रस्थात् स्वर्णमूलाख्याद् गिरेः संप्रेष्य राक्ष- सान् । आनाययत् पक्षिपोतं गरुडान्वयसम्भवम् ॥”)

पोतः, पुं, (पुनाति इति । पू + “हसीति ।” उणा० ३ । ८६ । इति तन् ।) वहित्रम् । गृहस्थानम् । पोता इति भाषा । वस्त्रम् । इति मेदिनी । ते, ३७ ॥ दशवर्षीयहस्ती । इति हेमचन्द्रः ॥ समुद्रयानम् । जाहाज इति भाषा ॥ (यथा, देवीभागवते । १ । ३ । ४२ । “सम्प्राप्य मानुषभवं सकलाङ्गयुक्तं पोतं भवार्णवजलोत्तरणाय कामम् । सम्प्राप्य वाचकमहो न शृणोति मूढः सो वञ्चितोऽत्र विधिना सुहृदं पुराणम् ॥”) यथा, -- “समुद्रयाने रत्नानि महामौल्यानि साधुभिः । रत्नपारीक्षकैः सार्द्धमानयिष्ये बहूनि च ॥ शुकेन सह संप्राप्तो महान्तं लवणार्णवम् । पोतारूढास्ततः सर्व्वे पोतवाहैरुपासिताः । अपारे दुस्तरेऽगाधे यान्ति वेगेन नित्यशः ॥” इति वाराहे गोकर्णमाहात्म्याध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पोतः [pōtḥ], [पू-तन्; Uṇ.3.86]

The young of any animal, cub, colt, foal &c.; पिब स्तन्यं पोत Bv.1.6; मृगपोतः; शार्दूल˚ Mu.2.8; करिपोतः &c.; वीरपोतः a young warrior; कोप्ययं वीरपोतः U.5.3.

An elephant ten years old.

A ship, raft, boat; पोतो दुस्तरवारिराशितरणे H.2.124; नभस्वता प्रतीपेन भग्नपोता इवार्णवे Śiva B.22.11; हा विपद्- वारिनिधिपतितजनोद्धरणपोत Nāg.5.

A garment, cloth.

The young shoot of a plant.

The site or foundation of a house.

A foetus having no enveloping membrane. -Comp. -आच्छादनम् a tent. -आधानम् a shoal of small fish. -धारिन् m. the master of a vessel.-प्लवः a mariner, seaman. -भङ्गः a ship-wreck. -रक्षः the rudder of a boat or ship. -वणिज् m. a sea-faring merchant; धत्ते पोतवणिग्जनैर्धनदतां यस्यान्तिके सागरः Śiva B. 29.89. -वाहः a rower, steersman.

"https://sa.wiktionary.org/w/index.php?title=पोतः&oldid=324004" इत्यस्माद् प्रतिप्राप्तम्