प्रकृति

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृतिः, स्त्री, (प्रक्रियते कार्य्यादिकभनयेति । प्र + कृ + क्तिन् ।) स्वभावः । (यथा चरके विमानस्थाने प्रथमेऽध्याये । “तत्र प्रकृतिरुच्यते स्वभावो यः स पुनराहा- रौषधद्रव्याणां स्वभाविको गुर्व्वादिगुणयोगः । तद्यथा माषमुद्गयोः शूकरैणयोश्च ।”) योनिः । लिङ्गम् ॥ स्वामी । अमात्यः । सुहृत् । कोषः । राष्ट्रम् । दुर्गम् । बलम् । (यथा, मनौ । ९ । २९४ । “स्वाम्यमात्यौ पुरं राष्ट्रं कोषदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥” धर्म्माध्यक्षादिसप्तप्रकृतयो यथा, -- “धर्म्माध्यक्षो धनाध्यक्षः कोषाध्यक्षश्च भूपतिः । दूतः पुरीधा दैवज्ञः सप्त प्रकृतयोऽभवन् ॥”) पौराणां श्रेणयः । इत्यमरः । २ । ८ । १८ ॥ (यथा, मार्कण्डेये । १९ । २० । “प्रणिपत्य ततस्तस्मै दत्तात्रेयाय सोऽर्ज्जुनः । आनाप्य प्रकतीः सम्यगभिषेकमगृह्णत ॥” स्वरूपावस्था । यथा, हितोपदेशे । २ । १९६ । “स्वेदितो मर्द्दितश्चैव रज्जुभिः परिवेष्टितः । सुक्तो द्वादशभिर्वर्षैः श्वपुच्छः प्रकृतिं गतः ॥”) शिल्पी । इति हेमचन्द्रः ॥ शक्तिः । (यथा, -- “प्रधानं प्रकृतिः शक्तिर्नित्याचातिकृतिस्तथा । एतानि तस्या नामानि शिवमाश्रित्य याः स्थिताः ॥” इति पूर्ब्बखण्डे पञ्चमेऽध्याये शार्ङ्गधरेणोक्तम् ॥) योषित् । इति शब्दरत्नावली ॥ परमात्मा । इति धरणिः । पञ्चभूतानि । करणम् । गुह्यम् । जन्तुः । एकविंशत्यक्षरपादच्छन्दोविशेषः । माता । इति नानार्थरत्नमाला ॥ प्रत्ययात् प्रथमः । स च द्विधा धातुर्नाम च । इत्यजयपालः ॥ (प्रकर्षेण सृष्ट्यादिकं करोतीति । प्र + कृ + कर्त्तरि क्तिच् ।) भगवतो मायाख्या शक्तिः । सा च परापरभेदेन द्विधा । यथा, -- पृथिव्यां प्रथमे देवी सुयज्ञेनैव पूजिता । शङ्करेणोपदिष्टेन पुण्यक्षेत्रे च भारते ॥ त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः । पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सुरैः ॥ कलया याः समुद्भूताः पूजितास्ताश्च भारते । पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने ! ॥ एवं ते कथितं सर्व्वं प्रकृतेश्चरितं शुभम् । यथागमं लक्षणञ्च किं भूयः श्रोतुमिच्छसि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे प्रकृतिचरितं नामानुक्रमः प्रथमोऽध्यायः ॥ * ॥ पुरुषनाम्नो- ऽग्रे प्रकृतेर्न्नाम्न उच्चार्य्यता यथा, -- नारद उवाच । “आदौ राधांसमुच्चार्य्य पश्चात्कृष्णं विदुर्ब्बुधाः । निमित्तमस्य मां भक्तं वद भक्तजनप्रिय ! ॥ श्रीनारायण उवाच । निमित्तमस्य त्रिविधं कथयामि निशामय । जगन्माता च प्रकृतिः पुरुषश्च जगत्पिता । गरीयसीति जगतां माता शतगुणैः पितुः ॥ राधाकृष्णेति गौरीशेत्येवं शब्दः श्रुतौ श्रुतः । कृष्णराधेशगौरीति लोके न च कदा श्रुतः ॥ प्रसीद रोहिणीचन्द्र गृहाणार्घ्यामदं मम । गृहाणार्घ्यं मया दत्तं संज्ञया सह भास्कर ! ॥ प्रसीद कमलाकान्त गृहाण मम पूजनम् । इति दृष्टं सामवेदे कौथुमे मुनिसत्तम ! ॥ राशब्दोच्चारणादेव स्फीतो भवति माधवः । धाशब्दोच्चारतः पश्चाद्धावत्येव ससम्भ्रमः ॥ आदौ पुरुषमुच्चार्य्य पश्चात् प्रकृतिमुच्चरेत् । स भवेन्मातृगामी च वेदातिक्रमणे मुने ! ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५० अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृति स्त्री।

माया

समानार्थक:प्रधान,प्रकृति,कूट

1।4।29।1।5

क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्. विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः॥

पदार्थ-विभागः : , गुणः, बुद्धिः

प्रकृति स्त्री।

स्वभावः

समानार्थक:संसिद्धि,प्रकृति,स्वरूप,स्वभाव,निसर्ग,अनूक,सर्ग,आत्मन्,धर्म,शील,भाव

1।7।37।2।3

तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्. अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे॥

 : सुस्वभावः

पदार्थ-विभागः : , गुणः, मानसिकभावः

प्रकृति स्त्री।

राज्याङ्गाः

समानार्थक:राज्याङ्ग,प्रकृति

2।8।18।1।2

राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च। सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः॥

अवयव : राजा,मन्त्री,मित्रम्,भण्डारम्,स्वभूमिः,पर्वतादयः,सेना

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्

प्रकृति स्त्री।

पुरुषलिङ्गः

समानार्थक:शिश्न,मेढ्र,मेहन,शेफस्,लिङ्ग,प्रकृति

3।3।73।1।1

प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः। सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥

सम्बन्धि1 : पुरुषः

पदार्थ-विभागः : अवयवः

प्रकृति स्त्री।

स्त्रीयोनिः

समानार्थक:भग,योनि,प्रकृति

3।3।73।1।1

प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः। सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥

सम्बन्धि1 : स्त्री

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृति¦ स्त्री प्र + कृ--कर्त्तरि क्तिच् भावादौ क्तिन् वा।

१ स्व-भावे

२ योनौ

३ लिङ्गे

४ स्वाम्यमात्यादौ राज्याङ्गे अमरः।

५ शिल्पिनि हेम॰।

६ शक्तौ

७ योषिति शब्दर॰।

८ परमा-त्मनि धरणिः।

१० आकाशादिभूतपञ्चके

११ करणे

१२ गुह्ये

१३ जन्तौ च

१४ एकविंशत्यक्षरपादके छन्दोभेदे।

१५ मा-तरि

१६ प्रत्ययनिमित्ते शब्दभेदे तल्लक्षणं शब्द॰ प्र॰ उक्तंयथा
“स्वोपस्थाप्ययदर्थस्य बोघने यस्य निश्चयः। तत्त्वेनहेतुरथवा प्रकृतिः सा तदर्थिका। तत्त्वेन यन्निश्चयत्वेनस्वोपस्थाप्ययादृशार्थस्यान्वयबोधं प्रति स्वाव्यवहितो-त्तरत्वसंसर्गेण यादृशशब्दवत्तानिश्चयत्वेन हेतुत्वंतादृश एव शब्दस्तथाविधार्थे प्रकृतिरिति तु फलितार्थः। बहुगुडो द्राक्षेत्यादौ बहुजाद्यर्थस्यान्वयबोधं प्रति गुडा-दिपदधर्मिकवहुजादिनिश्चयत्वेन न हेतुत्वमपि तु सुबा-दिधर्मिकबहुगुडादिपदनिश्चयत्वेन अन्यथा केवलाद्रपिवहुगुडादिशब्दात् द्राक्षादौ बहुजाद्यर्थस्यान्वयबोधा-पत्तेरिति न तत्र प्रसङ्गः”।
“निरुक्ता प्रकृतिर्द्वेधा नाम-धातुप्रभेदतः। यत् प्रातिपदिकं प्रोक्तं तन्नाम्नो नाति-रिच्यते। निरुक्ता न तु सांख्यानामिव जगदुपादान-भूता। यच्च पाणिनिप्रभृतिभिः प्रातिपादिकं प्रकृतिरि-त्युक्तं तदपि नाम्नो नातिरिच्यते नातो विभागन्यूनता”। वैयाकर्णमते तल्लक्षणन्तु शब्दार्थरत्नेऽस्माभिरुक्तं यथा
“एवं प्रकृतिप्रत्ययादिसमुदायरूपपदस्वरूपे तद्विभागे चदर्शिते इदानीं तदवयवरूपप्रकृतिप्रत्ययस्वरूपविभागौप्रदर्श्येते। तत्र प्रकृतिर्नाम अर्थावबोधहेतुः प्रत्यय-विधानावधिभूतः शब्दविशेषः सर्वेषामेव च प्रत्ययानांप्रकृतिं निमित्तीकृत्यैव विधानात्। प्रत्ययानाञ्च प्रत्याय-कत्वरूपेणैव निवेशः न तु वक्ष्यमाणप्रत्ययत्वेनतेन नान्योन्याश्रयः। अवधित्वञ्च पूर्वापरत्वरूपं ग्राह्यंतेन बहुजादेर्निमित्तप्रकृतौ नाप्रसङ्गः। वस्ततस्तुसिद्धान्ते वृत्तिशब्दानां समुदायशक्तिस्वीकारात् तद्धि-तादीमां निरर्थकत्वान्न तत्र प्रकृतिप्रत्ययादिविभागः। अत एव भाय्ये
“तायेव सुप्तिङौ यौ त{??} परौ सैव प्रकृ-तिराद्येति” सुप्तिङ्मात्रयोरेव प्रत्ययत्वमित्युक्तम्। [Page4428-a+ 38] ततोविधानाबधेः यौ परौ तावेव सुप्तिङौ या च तयो-राद्या विधानाबधिभूता सैव प्रकृतिरिति तदर्थः। एत-दभिप्रायेणैव हरिणा
“यः शब्दः स्वेतरस्यार्थे स्वार्थ-स्यान्वयबोधने। यदपेक्षस्तयोः पूर्वा प्रकृतिः प्रत्ययः परः” इति प्रकृत्यादिलक्षणमुक्तम्। अत्र च पूर्वत्वं बोधक-शब्दविधानावधित्वमेव बोध्यं भाष्यैकवाक्यत्वात् नत्वे-तत्कारिकीपात्तपूर्वापरत्वं तथासति पचतीत्यादौ तिङां-देरेव धात्वर्थे स्वार्थप्रकारकान्वयबोधजनकत्वस्वीका-रात् तत्रातिव्याप्तिः। एवञ्च निरुक्तपूर्वत्वरूपलक्षणे-नैव प्रसङ्गातिप्रसङ्गादिवारणसम्भवे प्रकृतिप्रत्यययोरर्थ-बोधकत्वसाकाङ्क्षत्वद्योतनायैव यः शब्द इत्यादिकथनंबोध्यमेवञ्च यस्यार्थे इत्यत्र विशेष्यतया विशेषणतयावान्वयबोधने इत्यर्थः तेन सिद्धान्ते तिङर्थप्रकारकान्वय-बोधेऽपि न क्षतिः। तथा च तदर्थान्वितस्वार्थबोधनेतदपेक्षत्वे सति तद्विधानावधिभूतत्वं तत्प्रकृतित्वमितिफलितम्। एवञ्चावयशक्तिस्वीकारेऽपि बहुजादावति-प्रसंङ्गादिशङ्कापि नोदेति बहुजादेः प्रकृतिविधाना-वधित्वाभावात् अवधित्वस्य पूर्वापरत्वरूपस्य निवेशाच्च। अतएतत्पक्षे भाष्ये सुप्तिङ्शब्दौ प्रत्ययान्तरस्याप्युलक्षका-विति द्रष्टव्यम् तथा शेखरकारेणापि प्रत्ययविधा-वुद्देश्यतावच्छेदकाक्रान्तत्वमेव प्रकृतित्वमित्यभिदधे पूर्व-सिद्धवस्तुन एव उद्देश्यत्वसम्भवात् पूर्वत्वमर्थायातं बहु-जादेरपि सुप उद्देश्यत्वान्न किञ्चिद्दूषणमावहतीति। एवञ्च प्रकरोति प्रत्ययं बोधञ्चेतिव्युत्पत्तिमत्त्वात्प्रकृतिशब्दो योगरूढ इति बोध्यम्”।

१७ उपादान-कारणे
“प्रकृतश्च दृष्टान्तानुपरोधात्” शा॰ सू॰
“सतीवाऽविद्यमाना वा प्रकृतिः परिणामिनी” हरिका॰।

१८ उ-पदिष्टसर्वाङ्गके कर्मभेदे। तदेतत् ताण्ड्य॰ भा॰ निर्णीतं यथा
“ननु का प्रकृतिः का विकृतिरिति चेत् उच्यते यत्र कर्त्तव्यंसर्वं प्रकर्षेण कर्मान्तरनैरपेक्ष्येणोपदिश्यते सा प्रकृतिःयत्र विशेषरूपमेव कर्त्तव्यं श्रुत्योपदिश्यते इतरत् सर्वंकर्मान्तरादतिदिशते सा विकृतिः। सचातिदेशः प्रत्यक्ष-वचनाद्वा साम्याद्वा लिङ्गाद्वाऽवगन्तव्यः। तत् सर्वंसप्तमाष्टमाध्यायाभ्यां वहुधा विचारितम्। प्रकृतिश्चद्विविधा{??}लप्रकृतिरवान्तरप्रकृतिश्चेति। सर्वात्मना कर्मा-न्तरामरपेक्षा मूसप्रकृतिः कतिपयेप्वङ्गेषु कर्मान्तरं चापे-क्षते स्वयञ्च कैसित् कर्ममिरपेक्षणीया मषति सयमवा-न्तरप्रकृतिः। तत्र तिहोमूसप्रकृतयः ताश्चाष्टमाध्या-[Page4428-b+ 38] यस्य प्रथमपादे तृतीयाधिकरणस्य द्वितीयवर्णके विचा-रिताः।
“इष्ट्यग्निहीत्रसोमानां मूलप्रकृतिता न हि। अस्ति वा नालौकिकत्वादियत्तानवधारणात्। लोकवत्सन्निपात्यारादुपकारिद्वयश्रुतेः। इयत्तायानिश्चितत्वान्मू-लप्रकृतिता त्रिषु। अलौकिकत्वेनैतावद्भिरङ्गैः सम्पूर्णउपकार इति निश्चेतुमशक्यत्वात् इष्ट्यादीनां नास्तिमूलप्रकृतित्वमिति चेत् मैवं लौकिकसदृशत्वात्। यथा-लोके भुजिक्रियायामोदनः करणं तस्य सन्निपत्योप-कारिणः शाकसूपादयः, आरादुपकारिणः पीठप्रदी-पादयः। तथा भावनायां यागः करणम् अवधातादयःसन्निपातिनः, प्रयाजादयः आरादुपकारिणः। अतोनात्यन्तिकमलौकित्वम्। इयत्ता लौकिके यथा प्रत्य-क्षेण निश्चीयते तथा श्रौते श्रुत्या निश्चीयतां तस्मा-दिष्ट्यग्निहोत्रसोमानां मूलप्रकृतित्वमस्ति”।

१९ सत्त्वरजस्तमसां साम्यावस्थायां साम्यावस्थोपलक्षितेसत्त्वादिगुणे।
“सत्त्वं रजस्तमश्चैव गुणत्रयमुदाहृतम्। साम्यावस्थितिरेतेषां प्रकृतिः परिकीर्त्तिता। केचित्प्रधानमित्याहुरव्यक्तमपरे जगुः। एतदेव प्रजासृष्टिंकरीति विकरीति च” मात्स्ये

४ अ॰।
“सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः” सा सू॰।
“तेषांसत्त्वादिद्रव्याणां या साम्यावस्थाऽन्यूनानतिरिक्तावस्था-न्यूनाधिकभावेनासंहतावस्थेति यावत् अकार्य्या-वस्थेति निष्कर्षः। अकार्थ्यावस्थोपलक्षितं गुणसाम्यान्यंप्रकृतिरित्यर्थः। यथाश्रुते वैषम्यावस्थायां प्रकृतिनाश-प्रसङ्गात्
“सत्त्वं रजस्तम इति एषैव प्रकृतिः सदा। एषैव संसृतिर्जन्तोरस्याः पारे परं पदम्” इत्यादिस्मृतिभिर्गु णमात्रस्यैव प्रकृतित्ववचनाच्च। सत्त्वादीनामनु-गमाय सामान्येति। पुरुषव्यवर्त्तनाय गुणेति। मह-दादिव्यावर्तनाय चोपलक्षितान्तमिति। महदादयोऽपिहि कार्य्यसत्त्वादिरूपाः पुरुषोपकरणतया गुणाश्चभवन्तीति। तदत्र प्रकृतेः स्वरूपमेवोक्तम्। अस्याविशेषस्तु पश्चाद्वक्ष्यते” प्र॰ भा॰।
“मूलप्रकृतिरविकृति-र्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकस्तु विकारोन प्रकृति र्न विकृतिः पुरुषः” सां॰ का॰।
“संक्षेपतोहि शास्त्रार्थस्य चतस्त्रो विधाः। कश्चिदर्थः प्रकृतिरेव,कश्चित् विकृतिरेव, कश्चित् प्रकृतिविश्चतिः कश्चिदनुभयरूपइति। तत्र का प्रकृतिरेवेत्यत सत्त्वम् नूलप्रकृति-रविक्ततिरिति तृकरोतीति प्रषतिः प्रभानं सत्त्वरस्य-[Page4429-a+ 38] स्तमसां साम्यावस्था सा अविकृतिः। प्रकृतिरेवेत्यर्थःकस्मादित्यत उक्तम् मूलेति मूलञ्चासौ प्रकृतिश्चेति मूल-प्रकृतिः विश्वस्य कार्य्यसंघातस्य सा मूलं नत्वस्या मूला-न्तरमस्तीति भावः। कतमाः पुनः प्रकृतिविकृतयः किय-त्यतश्चेत्यत उक्तम् महदाद्याः प्रकृतिविकृतयः सप्तेतिप्रकृतयश्च ता विकृतयश्च ता इति। तथा हि महत्तत्त्व-महङ्कारस्य घ्रकृतिर्विकृतिश्च मूलप्रकृतेः। एवमहङ्कारतत्त्वंतन्मात्राणामिन्द्रियाणाञ्च प्रकृतिर्वकृतयश्च महतः। एवंपञ्चतन्मात्राणि भूतानामाकाशादीनां प्रकृतयो विकृतयश्चाहङ्कारस्य। अत्र विकृतिरेव कियती चेत्यत उक्तंषोडशकस्तु विकार इति। षोडशसंख्यापरिमिती गणःषोडशकः तुशब्दोऽवधारणे भिन्नक्रमश्च पञ्चमहाभूतान्ये-कादशेन्द्रियाणि चेति षोडशको गणो विकार एव
“नप्रकृतिरिति। यद्यपि च पृथिव्यादीनामपि गोघटवृक्षा-दयो विकाराः एवं तद्विकारभेदानां दध्यङ्कु रादयस्त-थापि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वा-न्तरं तत्त्वान्तरोपादानत्वञ्च प्रकृतित्वमिहाभिप्रेतमिति नदोषः सर्वेषां गोघटादीनां स्थूलतेन्द्रियग्राह्यता च स-मेति न तत्त्वान्तरत्वम्। अनुभयरूपमुक्तं तदाह नप्रकृतिर्न विकृतिः पुरुषः” इति त॰ कौ॰। शब्दस्पर्शवि-हीनं तद्रूपादिमिरसंयुतम्। त्रिगुणं तत् जगद्योनिः” स्मृतिः। तदनुमापकाः कार्य्यभेदाः तद्धर्माश्च सा॰ सू॰भाष्याद्युक्ता यथा
“ततः प्रकृतेः” सा॰ सू॰
“ततोमहत्तत्त्वात् कार्य्यात् कारणतया प्रकृतेरनुमानेन बोधइत्यर्थः। अन्तःकरणसामान्यस्यापि कार्य्यत्वं तावदे-कदा पञ्चेन्द्रियज्ञानानुत्पत्त्या मध्यमपरिमाणतया-देहा-दिवदेव सिद्धं श्रुतिस्मृतिप्रमाण्याच्च। तस्य च प्रकृति-कार्यत्वेऽयं प्रयोगः। सुखदुःखमोहधर्मिणी बुद्धिः सुखदुःखमोहधर्मकद्रव्यजन्या कार्यत्वे सति सुखदुःखमोहा-त्मकत्वात् कान्तादिवदिति कारणगुणानुसारेणैव कार्य्य-गुणौचित्यं चात्रानुकूलस्तर्कः श्रुतिस्मृतयोऽपीतिमन्तव्यम्भा॰
“हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्” सू॰ कारणानुमापकत्वाल्लयगमनाद्वाऽत्र लिङ्गं कार्य्य-जातम् न तु महत्तत्त्वमात्रमत्र विवक्षितं हेतुमत्त्वादीनामखिलकार्थ्यसाधारण्यात्।
“हेतुमदनित्यमव्यापि सक्ति-यमनेकमाश्रितं लिङ्गम्। सावयवं परतन्त्रं व्यक्तं वि-परीतमव्यक्तम्” इति कारिकायामप्यत एव व्यक्ताख्यं सर्वंकार्यमेव लिङ्गमित्य क्तम्। तथा च तल्लिङ्गं हेतुमत्त्वा-[Page4429-b+ 38] दिधर्मकमिति वाक्यार्थः। तत्र हेतुमत्त्वं कारणवत्त्वम्अनित्यत्वं विनाशिता प्रधानस्य या व्यापिता पूर्वोक्तातद्वैप्ररीत्यमव्यापित्वम्। सक्रियत्वमध्यवसायादिरूपनि-यतकार्य्यकारित्वम्। प्रथानस्य तु सर्वक्रियासाधार-ण्येन कारणत्वान्न कार्य्यैकदेशमात्रकारित्वम्। न चक्रिया कर्मैव वक्तुं शक्यते प्रकृतिक्षोभात् सृष्टिश्रव-णेन प्रकृतेरपि कर्मवत्तया सक्रियत्त्वापत्तेरिति। अने-कत्वं सर्गभेदेन भिन्नत्वम्। सर्गद्वयासाधारण्यमितियावत्। न पुनः सजातीयानेकव्यक्तिकत्वम् प्रकृतावतिव्याप्तेः प्रकृतेरपि सत्त्वाद्यनेकरूपत्वात्
“सत्त्वादीनामत-द्धर्मत्वं तद्रूपत्वात्” इत्यागामिसूत्रादिति। आश्रितत्वंचावयवेष्विति” सा॰ प्र॰ भा॰। एतद्विपरीतत्वमेव तद्धर्मत्वम्।

२० प्रकृत्यंशदेवीपञ्चकरूपशक्तिभेदे
“गणेशजननी दुर्गा

१ राधा

२ लक्ष्मीः

३ सरस्वती

४ । सावित्री

५ च सृष्टिविधौप्रकृतिः पञ्चमी स्मृता”। पकृतिशब्दनिरुक्तिर्यथा
“प्रकृष्टवाचकः प्रश्च भृतिश्च सृष्टिवा{??}कः। सृष्टौप्रकृष्टा या देवी प्रकृतिः सा प्रकीर्त्तिता। गुणे प्रकृथेसत्त्वे च प्रशब्दो वर्त्तते श्रुतौ। मध्यमे रजसि कृश्चतिशब्दस्तामसः स्मृतः। त्रिगुणात्मस्वरूपा या सर्वशक्तिसमन्विता। प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते। प्रथमे वर्त्तते प्रश्च कृतिश्च सृष्टिवाचकः। सृष्टेराद्या चया देवी प्रकृतिः सा प्रकीर्त्तिता”। तस्या आविर्भूतिःस्वरूपञ्च यथा
“योगेनात्मा सृष्टिविधौ द्विधारूपो बभूवसः। पुमांश्च दक्षिणार्द्धाङ्गात् वामाङ्गात् प्रकृतिः स्मृता। सा च ब्रह्मस्वरूपा च यथा नित्या सनातनी। यथात्माच यथाशक्तिर्यथाग्नौ दाहिका स्मृता। अत एव हियोगीन्द्रः स्त्रीपुंभेदं न मन्यते। सर्वं व्रह्ममयं व्रह्मन्। शश्वत् पश्यति नारद!। स्वेच्छामयं स्वेच्छय चश्रीकृष्णस्य सिसृक्षया। साविर्बभूव सहसा मूलप्रकृति-रीश्वरी। तथा ज्ञेया पञ्चविधा सृष्टिकर्मणि भेदतः। सर्वाः प्रकृतिसम्भूता उत्तमाधाममध्यमाः। सत्त्वांशा-श्चोत्तमा ज्ञेयाः सुशीलाश्च प्रतिव्रताः। मध्यमा राजसा-श्चांशास्ताश्च भोग्याः प्रकीर्त्तिताः। सुखसम्भोगवश्याश्चस्वकार्य्ये तत्पराः सदा। अधमास्ताससाश्चांशा अजातकुलसम्भवाः। दुर्मुखाः कुलटा धूर्त्ताः स्वतन्त्राः कलह-प्रियाः। पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः। प्रकृतेस्तामसांशास्ताः पुंश्चल्यः परिकीर्त्तिताः। एवंनिगदितं सर्वं प्रकृतेः परिकीर्त्ततम्”। [Page4430-a+ 38] इति स्त्रीमात्रस्य प्रकृत्यंशतया प्रकृतिवाचकशब्दस्यैव प्रा-गुत्कीर्त्त्यत्वं निर्णीतं यथा
“आदौ राधां समुच्चार्य्य पश्चात् कृष्णं विदुर्बुधाः। निमित्त-मस्य मां भक्तं वद भक्तजनप्रिय!” श्रीनारायण उवाच
“निमित्तमस्य त्रिविधं कथयामि निशामम। जगन्मा-ता च प्रकृतिः पुरुषश्च जगत्पिता। गरीयसीति जगतांमाता शतगुणैः पितुः। राधकृष्णेति गौरीशेभ्येवंशब्दः श्रुतौ श्रुतः। कृष्णराधेशगौरीति लोके न च कदाश्रुतः। प्रसीद रोहिणीचन्द्र! गृहाणार्घ्यमिदं मम। गृहाणार्घ्यं मया दत्तं संज्ञया सह भास्कर!। प्रसीदकमलाकान्त! गृहाण मम पूजनम्। इति दृष्टं साम-वेदे कौथुमे मुनिसत्तम!। राशब्दोच्चारणादेव स्फीतोभवति माधवः। धाशब्दोच्चारतः पश्चाद्धावत्येव ससम्भ्रमः। आदौ पुरुषमुच्चार्य्य पश्चात् प्रकृतिमुच्चरेत्। स भवेन्मातृ-गामी च वेदातिक्रमणे मुने!” व्रह्मवैपु॰ जन्म॰ ख॰

५० अ॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृति¦ f. (-तिः)
1. Nature; in philosophy the passive or material cause of the world, as opposed to the active or spiritual; and in my- thology, a goddess, the personified will of the Supreme in the creation identified with Ma4ya4 or illusion, and in an especial manner the prototype of the female sex; hence it is the same with the Sakti or personified energy or bride of a deity, as LAKSHMI, DURGA4, &c. in some systems Prakriti is considered the same with the Supreme Being.
2. The natural state or condition of any thing.
3. A radical form or predicament of being, an illusion, intelligence, consciousness, and the five elements, or A4ka4s, fire, air, earth, and water.
4. The five elements collectively.
5. Cause, origin.
6. A woman or womankind.
7. A mother.
8. An animal.
9. The male organ of generation.
10. The female organ of genera- tion.
11. An uninflected word; the radical form of a word, before the affixes forming cases, &c. are subjoined.
12. A requisite of regal administration, of which seven are enumerated; the king, the minister, an ally, treasure, territory, fortresses, and an army: the corporations or companies of citizens are sometimes added, making an eighth class.
13. A form of metre, consisting of a stanza of four lines, each line containing twenty-one syllables.
14. (In arithmetic,) A given coefficient. (In anatomy,) Temperament, [Page473-a+ 60] the predominance of one of the humours at the time of generation. E. प्र implying priority or precedence, कृ to make aff. क्तिन् or क्तिच्; being the first step towards creation.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृतिः [prakṛtiḥ], f.

The natural condition or state of anything, nature, natural form (opp. विकृति which is a change or effect); तं तं नियममास्थाय प्रकृत्या नियताः स्वया Bg. 7.2. प्रकृत्या यद्वक्रम् Ś1.9; उष्णत्वमग्न्यातपसंप्रयोगात् शैत्यं हि यत् सा प्रकृतिर्जलस्य R.5.54; मरणं प्रकृतिः शरीरिणां विकृति- र्जीवितमुच्यते बुधैः R.8.87; U.7.19; अपेहि रे अत्रभवान् प्रकृतिमापन्नः Ś.2. 'has resumed his wonted nature'; प्रकृतिम् आपद् or प्रतिपद् or प्रकृतौ स्था 'to come to one's senses', 'regain one's consciousness.'

Natural disposition, temper, temperament, nature, constitution; प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया Ki.2.21; कथं गत एव आत्मनः प्रकृतिम् Ś.7. 'natural character'; अपश्यत् पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः Mb.39.66 (com. प्रकृतिं स्वास्थ्यम्); so प्रकृतिकृपण, प्रकृतिसिद्ध; see below.

Make, form, figure; महानुभावप्रकृतिः Māl.1.

Extraction, descent; गोपालप्रकृतिरार्यको$स्मि Mk.7.

Origin, source, original or material cause, the material of which anything is made; नार्थानां प्रकृतिं वेत्सि Mb.4.49.1; प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यम् Ś. B. (see the full discussion on Br. Sūt.1.4.23); यामाहुः सर्वभूतप्रकृतिरिति Ś.1.1; Bhāg.4.28.24.

(In Sāṅ. phil.) Nature (as distinguished from पुरुष,) the original source of the material world, consisting of the three essential qualities सत्त्व, रजस् and तमस्. It is also mentioned as one of the four contentments; प्रकृत्युपादानकालभागाख्याः Sāṅ. K.5.

(In gram.) The radical or crude form of a word to which case-terminations and other affixes are applied; प्रकृतिप्रत्यययोरिवानुबन्धः Ki.13.19.

A model, pattern, standard, (especially in ritualistic works); Bhāg.5.7.5.

A woman.

The personified will of the Supreme Spirit in the creation (identified with माया or illusion); मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् Bg.9.1.

The male or female organ of generation.

A mother.

(In arith.) A coefficient, or multiplier.

(In anatomy) Temperament of the humours; प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति Bg.3.33.

An animal.

An artisan.

The Supreme Being; न ह्यस्ति सर्वभूतेषु दुःख- मस्मिन् कुतः सुखम् । एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् ॥ Mb.12. 152.16.

Eight forms of the Supreme Being; भूमि- रापो$नलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृति- रष्टधा ॥ Bg.7.4.

The way of life (जीवन); सतां वै ददतो$न्नं च लोके$स्मिन् प्रकृतिर्ध्रुवा Mb.12.18.27. (pl.)

A king's ministers, the body of ministers or counsellors, ministry; अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् R.12.12; Pt.1.48; अशुद्धप्रकृतौ राज्ञि जनता नानुरज्यते 31.

The subjects (of a king); प्रवर्ततां प्रकृतिहिताय पार्थिवः Ś.7.35; नृपतिः प्रकृतीरवेक्षितुम् R.8.18,1.

The constituent elements of the state (सप्ताङ्गानि), i. e. 1 the king; -2 the minister; -3 the allies; -4 treasure; -5 army; -6 territory; -7 fortresses &c.; and the corporations of citizens (which is sometimes added to the 7); स्वाम्यमात्य- सुहृत्कोशराष्ट्रदुर्गबलानि च Ak.

The various sovereigns to be considered in case of war; (for full explanation see Kull. on Ms.7.155 and 157).

The eight primary elements out of which everything else is evolved according to the Sāṅkhyas; see Sāṅ. K.3.

The five primary elements of creations (पञ्चमहाभूतानि)i. e. पृथ्वी, अप्, तेजस्, वायु and आकाश; प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो मयि Mb.5.73.17. -Comp. -अमित्रः an ordinary foe; प्रकृत्यमित्रानुत्थाप्य Dk.2.4. -ईशः a king or magistrate. -कल्याण a. beautiful by nature.-कृपण a. naturally slow or unable to discern; Me.5.-गुणः one of the three constituent qualities of nature; see गुण. -ज a. innate, inborn, natural. -तरल a. fickle by nature, naturally inconsistent; प्रकृतितरले का नः पीडा गते हतजीविते Amaru.3. -पाठः a list of verbal roots (धातुपाठ). -पुरुषः a minister, a functionary (of the state); जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः Me.6.

a standard or model of a man. -षौ nature and spirit.-भाव a. natural, usual. (-वः) natural or original state. -भोजनम् usual food. -मण्डलम् the whole territory of kingdom; अधिगतं विधिवद्यदपालयत् प्रकृतिमण्डलमात्म- कुलोचितम् R.9.2. -लयः absorption into the Prakṛiti, dissolution of the universe. -विकृतिः mutation of the original form. -श्रैष्ठ्यम् superiority of origin; Ms. 1.3. -सिद्ध a. inborn, innate, natural; सुजनबन्धुजने- ष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् Bh.2.52. -सुभग a. naturally lovely or agreeable. -स्थ a.

being in the natural state or condition, natural, genuine; दृष्ट्वा चाप्रकृतिस्थां ताम् Rām.7.58.17.

inherent, innate, incidental to nature; रघुरप्यजयद् गुणत्रयं प्रकृतिस्थं समलोष्ट- काञ्चनः R.8.21.

healthy, in good health.

recovered.

come to oneself.

stripped of everything, bare.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृति/ प्र- f. See. next p.

प्रकृति/ प्र-कृति f. " making or placing before or at first " , the original or natural form or condition of anything , original or primary substance ( opp. to वि-कृतिSee. ) Pra1t. Nir. Jaim. MBh.

प्रकृति/ प्र-कृति f. cause original source Mn. MBh. S3ak. etc.

प्रकृति/ प्र-कृति f. origin , extraction Mr2icch.

प्रकृति/ प्र-कृति f. nature , character , constitution , temper , disposition MBh. Ka1v. Sus3r. etc. ( ibc. and 630027 त्याind. by nature , naturally , unalterably , properly Pra1t. S3rS. Mn. etc. )

प्रकृति/ प्र-कृति f. fundamental form , pattern , standard , model , rule ( esp. in ritual) S3rS.

प्रकृति/ प्र-कृति f. (in the सांख्यphil. ) the original producer of (or rather passive power of creating) the material world (consisting of 3 constituent essences or गुणs called सत्त्व, रजस्and तमस्) , Nature (distinguished from पुरुष, Spirit as मायाis -ddistinguished from ब्रह्मन्in the वेदान्तs)

प्रकृति/ प्र-कृति f. pl. the 8 producers or primary essences which evolve the whole visible world (viz. अ-व्यक्त, बुद्धिor महत्, अहं-कार, and the 5 तन्-मात्रस्or subtle elements ; rarely the 5 elements alone) IW. 80 etc.

प्रकृति/ प्र-कृति f. (in mythol.) a goddess , the personified will of the Supreme in the creation (hence the same with the शक्तिor personified energy or wife of a deity , as लक्ष्मी, दुर्गाetc. ; also considered as identical with the Supreme Being) W. IW. 140 RTL. 223

प्रकृति/ प्र-कृति f. ( pl. )N. of a class of deities under मनुरैभ्यHariv.

प्रकृति/ प्र-कृति f. (in polit.) pl. a king's ministers , the body of ministers or counsellors , ministry Mn. MBh. etc.

प्रकृति/ प्र-कृति f. the subjects of a king , citizens , artisans etc. ib.

प्रकृति/ प्र-कृति f. the constituent elements or powers of the state (of which are usually enumerated , viz. king minister , allies , treasure , army , territory , fortresses Mn. ix , 294 ; 295 )

प्रकृति/ प्र-कृति f. the various sovereigns to be considered in case of war (viz. the मध्यम, विजिगीषु, उदासीनand शत्रु; to which should be added 8 remoter princes , viz. the मित्र, अरिमित्र, मित्र-मित्र, अरिमित्र-मित्र, पार्ष्णि-ग्रह, आक्रन्द, पार्ष्णिग्राहा-सार, आक्रन्दा-सास; each of these 12 kings has 5 प्रकृतिs in the form of minister , territory , fortresses , treasure and army , so that the total number of प्रकृतिs may be 72) Mn. vii , 155 ; 157 Kull.

प्रकृति/ प्र-कृति f. (in gram.) the crude or elementary form of a word , base , root , an uninflected word Sa1h. Pa1n2. Sch. Vop.

प्रकृति/ प्र-कृति f. N. of 2 classes of metres Col.

प्रकृति/ प्र-कृति f. (in arithm. ) a co-efficient multiplier ib.

प्रकृति/ प्र-कृति f. (in anat. ) temperament , the predominance of one of the humours at the time of generation W.

प्रकृति/ प्र-कृति f. (with त्रितीया)the third nature , a eunuch MBh.

प्रकृति/ प्र-कृति f. matter , affair Lalit.

प्रकृति/ प्र-कृति f. the male or female organ of generation L.

प्रकृति/ प्र-कृति f. a woman or womankind L.

प्रकृति/ प्र-कृति f. a mother L.

प्रकृति/ प्र-कृति f. an animal L.

प्रकृति/ प्र-कृति f. N. of a woman Buddh.

प्रकृति/ प्र-कृति f. N. of wk.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Matter as opposed to पुरुष; could be conquered by one's योगबल; फलकम्:F1:  भा. I. 8. १८; III. 5. ४६; Br. II. १९. १७३, १९५-7; III. ४२. ४७; ४३. 3.फलकम्:/F has the three गुणस्--सत्व, रजस् and तमस्। फलकम्:F2:  भा. VII. 1. 7.फलकम्:/F Eight kinds of; फलकम्:F3:  Ib. VII. 7. २२; XI. २२. १८-24.फलकम्:/F the seven principles leading to pralaya; फलकम्:F4:  Ib. XII. 4. 5; Br. IV. 2. २३१; 6. 6; १५. 7; ४३. ७६.फलकम्:/F also known as प्रधान and अव्यक्त; makes and unmakes the universe; created by the unborn इश्वर; फलकम्:F5:  M. 3. १४; १५४. ३५६; Vi. I. 2. १९.फलकम्:/F is योगनिद्रा। फलकम्:F6:  Ib. V. 2. 7; VI. 4. ३४-5.फलकम्:/F
(II)--the subjects of a king; पृथु treated them with respect; फलकम्:F1:  भा. IV. १७. 2; Br. III. ४९. १७; M. ३४. २६; २२६. 6; २४०. ११.फलकम्:/F acquiesed in selecting पूरु and also Dyumatsena. फलकम्:F2:  Ib. ३६. 5; २१४. १६.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAKṚTI : ; PURUṢA. Prakṛti (matter) and Puruṣa (spirit) are two basic factors essential for production of the Prapañca (the visible world which is the scene of manifold action) as man and woman are for the product- ion of progeny. From Puruṣa (male), Prakṛti (female) originated and then they together created the Prapañca. The Vedas and Purāṇas make statements everywhere regarding Prakṛti and Puruṣa and three of the most important ones are given below:

1) ‘Pra’ means ‘principal’ and ‘Kṛti’ means ‘creation’. Therefore the word is meant to convey the meaning ‘one that is the principal factor for creation’, ‘Pra’ means ‘sāttvic’, ‘Kṛ’ means ‘rājasic’ and ‘ta’ means ‘tāmasic’ and the word ‘Prakṛti’ thus conveys the power of the three guṇas’. ‘Pra’ means ‘before’ and ‘Kṛti’ means creation and so Prakṛti means that which existed be- fore creation.

Before creation Prakṛti lay merged with the Supreme Spirit without separate existence. But when the desire for creation was aroused, this Supreme Spirit divided itself into Prakṛti and Puruṣa. Then the right half becomes ‘Puruṣa’ and the left half ‘Prakṛti’ Even though they are thus two yogīndras (kings among sages) they see themselves as merged with the eternal One like fire and heat and assert the truth Sarvaṁ Brahma- mayam (everything is Brahman, the Supreme Spirit). It was this basic Prakṛti that took forms as the five goddesses, Durgā, Lakṣmī, Sarasvatī, Sāvitrī and Rādhā. (9th Skandha, Devī Bhāgavata).

2) Puruṣa is the vital sentient Truth that sets in action the entire Prapañca. This Puruṣa is Supreme among the Supreme, beyond human comprehension, without form, colour, name, without origin, growth, change or end, residing in himself and that which can only be imagined to exist. This puruṣa has got two different forms, the visible and the invisible and also a third imaginary one, time. The sages call Puruṣa the Sūkṣma- prakṛti (The subtle all-pervading spirit, the supreme soul). This Sūkṣmaprakṛti which cannot be measured by any unit of measure, is not attached to anyhing, is imperishable, is without decrepitude, is immovable and is without the senses of sound, touch smell or form. This Prakṛti endowed with the three guṇas, without beginning or end is eternal, is the root cause of this Prapañca. This Prakṛti pervaded over Prapañca from the beginning of the great Deluge to the beginning of creation. Brahmajñānins who were great seers and who knew the truth of the Vedas speak about Prakṛti thus: “There was no night or day then, neither the earth nor the sky, neither light nor darkness. There was no- thing but this. There was only one Brahman merged in which were Prakṛti and Purusa, a brahman which could not be understood by any of the five senses nor by intelligence. It was from the supreme being of Viṣṇu that the two forms Prakṛti and Puruṣa originated. These two were separated from Viṣṇu at the time of the great deluge and again joined together at the time of creation. The form of Viṣṇu from which these occurred was termed Time. During the last great deluge this visible Prapañca merged with it and so, this deluge was called Prākṛtapralaya. Time is eternal, having no end and so the process of Sṛṣṭi, Sthiti and Saṁhāra (creation, existence and destruction) continued without any interruption.

After that, during Pralaya (deluge), Prakṛti and Puruṣa stand apart due to equality of the guṇas, Sattva, Rajas and Tamas in Prakṛti. Viṣṇu in the form of Time starts the work to join them both together. Then when the time of creation came Viṣṇu, the Supreme Being, the supreme soul, the god of all living beings, omnipresent and omnipotent by his will entered the emotionless Puruṣa and emotional Prakṛti and created sensations in them. Smell is the sense which creates sensation in one by its nearness to it. Just like that Viṣṇu by his very presence near them created disturbances in them. It is Viṣṇu, the best of Puruṣas, who acts as Prakṛti which can disturb and which can be disturbed, which exists in states of contraction and expansion. It is Viṣṇu, the god of the gods, who exists in forms of Sūkṣma and Sthūla, and as the great tattva and as the devas like Brahmā.

The Mahattattva originated from Prakṛti, which was existing as emotionless due to the equalisation of the three guṇas, when at the time of creation Viṣṇu, Truth in the form of Kṣetrajña (knower), merged with Pra- kṛti. The Mahattattva in its three forms, Sattva, Rajas and Tamas lay enveloped by Prakṛti just as a seed is covered by its husk. From this Mahattattva originat- ed the three egos, Vaikārika, Taijasa and Tāmasa, the cause of the Pañcabhūtas. Because that ego contained the three guṇas it became the cause of the origin of the bhūtas (elements) and indriyas (senses). Ego pervaded the Mahattattva just as the Mahattattva pervaded (Aṁśa 1, Chapter 2, Viṣṇu Purāṇa).

3) In the beginning during the Deluge the world was all water. Then Śiva tore open his thigh and dropped a drop of blood in the waters. It became a huge egg. He broke it and from it came out Puruṣa and from Puruṣa he made Prakṛti for the creation of the Prapañca. These two, Prakṛti and Puruṣa, created the Prajāpatis and they in turn created the prajās. Puruṣa seeing the vast creation going on due to him became arrogant and Śiva chopped off his head. Śiva became repentant of his hasty deed later. To atone for his sin he took the skull in his hand and vowed that he would ever carry a skull in his hand and that he would live in cremation grounds. The two halves of the great egg became ākāśa and bhūmi (earth and sky). (Taraṅga 2, Kathāpīṭhalambaka, Kathāsaritsāgara).


_______________________________
*12th word in left half of page 599 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृति स्त्री.
(प्र + कृ + क्तिन्) स्वाभाविक क्रम या व्यवस्था; सभी अन्य कृत्यों (विकृतियों) का प्रतिदर्श (आद्य प्रारूप)। सभी इष्टियां ‘दर्शपूर्णमास’ पर अवलम्बित हैं, जो उनके लिए प्रकृति है, आप.श्रौ.सू. 24.3.32; अगिन्ष्टोम सभी अन्य सोम-यागों की प्रकृति (प्रतिदर्श) है।

"https://sa.wiktionary.org/w/index.php?title=प्रकृति&oldid=501139" इत्यस्माद् पुनः प्राप्तिः