प्रकृतिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृतिः, स्त्री, (प्रक्रियते कार्य्यादिकभनयेति । प्र + कृ + क्तिन् ।) स्वभावः । (यथा चरके विमानस्थाने प्रथमेऽध्याये । “तत्र प्रकृतिरुच्यते स्वभावो यः स पुनराहा- रौषधद्रव्याणां स्वभाविको गुर्व्वादिगुणयोगः । तद्यथा माषमुद्गयोः शूकरैणयोश्च ।”) योनिः । लिङ्गम् ॥ स्वामी । अमात्यः । सुहृत् । कोषः । राष्ट्रम् । दुर्गम् । बलम् । (यथा, मनौ । ९ । २९४ । “स्वाम्यमात्यौ पुरं राष्ट्रं कोषदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥” धर्म्माध्यक्षादिसप्तप्रकृतयो यथा, -- “धर्म्माध्यक्षो धनाध्यक्षः कोषाध्यक्षश्च भूपतिः । दूतः पुरीधा दैवज्ञः सप्त प्रकृतयोऽभवन् ॥”) पौराणां श्रेणयः । इत्यमरः । २ । ८ । १८ ॥ (यथा, मार्कण्डेये । १९ । २० । “प्रणिपत्य ततस्तस्मै दत्तात्रेयाय सोऽर्ज्जुनः । आनाप्य प्रकतीः सम्यगभिषेकमगृह्णत ॥” स्वरूपावस्था । यथा, हितोपदेशे । २ । १९६ । “स्वेदितो मर्द्दितश्चैव रज्जुभिः परिवेष्टितः । सुक्तो द्वादशभिर्वर्षैः श्वपुच्छः प्रकृतिं गतः ॥”) शिल्पी । इति हेमचन्द्रः ॥ शक्तिः । (यथा, -- “प्रधानं प्रकृतिः शक्तिर्नित्याचातिकृतिस्तथा । एतानि तस्या नामानि शिवमाश्रित्य याः स्थिताः ॥” इति पूर्ब्बखण्डे पञ्चमेऽध्याये शार्ङ्गधरेणोक्तम् ॥) योषित् । इति शब्दरत्नावली ॥ परमात्मा । इति धरणिः । पञ्चभूतानि । करणम् । गुह्यम् । जन्तुः । एकविंशत्यक्षरपादच्छन्दोविशेषः । माता । इति नानार्थरत्नमाला ॥ प्रत्ययात् प्रथमः । स च द्विधा धातुर्नाम च । इत्यजयपालः ॥ (प्रकर्षेण सृष्ट्यादिकं करोतीति । प्र + कृ + कर्त्तरि क्तिच् ।) भगवतो मायाख्या शक्तिः । सा च परापरभेदेन द्विधा । यथा, -- पृथिव्यां प्रथमे देवी सुयज्ञेनैव पूजिता । शङ्करेणोपदिष्टेन पुण्यक्षेत्रे च भारते ॥ त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः । पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सुरैः ॥ कलया याः समुद्भूताः पूजितास्ताश्च भारते । पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने ! ॥ एवं ते कथितं सर्व्वं प्रकृतेश्चरितं शुभम् । यथागमं लक्षणञ्च किं भूयः श्रोतुमिच्छसि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे प्रकृतिचरितं नामानुक्रमः प्रथमोऽध्यायः ॥ * ॥ पुरुषनाम्नो- ऽग्रे प्रकृतेर्न्नाम्न उच्चार्य्यता यथा, -- नारद उवाच । “आदौ राधांसमुच्चार्य्य पश्चात्कृष्णं विदुर्ब्बुधाः । निमित्तमस्य मां भक्तं वद भक्तजनप्रिय ! ॥ श्रीनारायण उवाच । निमित्तमस्य त्रिविधं कथयामि निशामय । जगन्माता च प्रकृतिः पुरुषश्च जगत्पिता । गरीयसीति जगतां माता शतगुणैः पितुः ॥ राधाकृष्णेति गौरीशेत्येवं शब्दः श्रुतौ श्रुतः । कृष्णराधेशगौरीति लोके न च कदा श्रुतः ॥ प्रसीद रोहिणीचन्द्र गृहाणार्घ्यामदं मम । गृहाणार्घ्यं मया दत्तं संज्ञया सह भास्कर ! ॥ प्रसीद कमलाकान्त गृहाण मम पूजनम् । इति दृष्टं सामवेदे कौथुमे मुनिसत्तम ! ॥ राशब्दोच्चारणादेव स्फीतो भवति माधवः । धाशब्दोच्चारतः पश्चाद्धावत्येव ससम्भ्रमः ॥ आदौ पुरुषमुच्चार्य्य पश्चात् प्रकृतिमुच्चरेत् । स भवेन्मातृगामी च वेदातिक्रमणे मुने ! ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५० अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृतिः [prakṛtiḥ], f.

The natural condition or state of anything, nature, natural form (opp. विकृति which is a change or effect); तं तं नियममास्थाय प्रकृत्या नियताः स्वया Bg. 7.2. प्रकृत्या यद्वक्रम् Ś1.9; उष्णत्वमग्न्यातपसंप्रयोगात् शैत्यं हि यत् सा प्रकृतिर्जलस्य R.5.54; मरणं प्रकृतिः शरीरिणां विकृति- र्जीवितमुच्यते बुधैः R.8.87; U.7.19; अपेहि रे अत्रभवान् प्रकृतिमापन्नः Ś.2. 'has resumed his wonted nature'; प्रकृतिम् आपद् or प्रतिपद् or प्रकृतौ स्था 'to come to one's senses', 'regain one's consciousness.'

Natural disposition, temper, temperament, nature, constitution; प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया Ki.2.21; कथं गत एव आत्मनः प्रकृतिम् Ś.7. 'natural character'; अपश्यत् पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः Mb.39.66 (com. प्रकृतिं स्वास्थ्यम्); so प्रकृतिकृपण, प्रकृतिसिद्ध; see below.

Make, form, figure; महानुभावप्रकृतिः Māl.1.

Extraction, descent; गोपालप्रकृतिरार्यको$स्मि Mk.7.

Origin, source, original or material cause, the material of which anything is made; नार्थानां प्रकृतिं वेत्सि Mb.4.49.1; प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यम् Ś. B. (see the full discussion on Br. Sūt.1.4.23); यामाहुः सर्वभूतप्रकृतिरिति Ś.1.1; Bhāg.4.28.24.

(In Sāṅ. phil.) Nature (as distinguished from पुरुष,) the original source of the material world, consisting of the three essential qualities सत्त्व, रजस् and तमस्. It is also mentioned as one of the four contentments; प्रकृत्युपादानकालभागाख्याः Sāṅ. K.5.

(In gram.) The radical or crude form of a word to which case-terminations and other affixes are applied; प्रकृतिप्रत्यययोरिवानुबन्धः Ki.13.19.

A model, pattern, standard, (especially in ritualistic works); Bhāg.5.7.5.

A woman.

The personified will of the Supreme Spirit in the creation (identified with माया or illusion); मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् Bg.9.1.

The male or female organ of generation.

A mother.

(In arith.) A coefficient, or multiplier.

(In anatomy) Temperament of the humours; प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति Bg.3.33.

An animal.

An artisan.

The Supreme Being; न ह्यस्ति सर्वभूतेषु दुःख- मस्मिन् कुतः सुखम् । एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् ॥ Mb.12. 152.16.

Eight forms of the Supreme Being; भूमि- रापो$नलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृति- रष्टधा ॥ Bg.7.4.

The way of life (जीवन); सतां वै ददतो$न्नं च लोके$स्मिन् प्रकृतिर्ध्रुवा Mb.12.18.27. (pl.)

A king's ministers, the body of ministers or counsellors, ministry; अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् R.12.12; Pt.1.48; अशुद्धप्रकृतौ राज्ञि जनता नानुरज्यते 31.

The subjects (of a king); प्रवर्ततां प्रकृतिहिताय पार्थिवः Ś.7.35; नृपतिः प्रकृतीरवेक्षितुम् R.8.18,1.

The constituent elements of the state (सप्ताङ्गानि), i. e. 1 the king; -2 the minister; -3 the allies; -4 treasure; -5 army; -6 territory; -7 fortresses &c.; and the corporations of citizens (which is sometimes added to the 7); स्वाम्यमात्य- सुहृत्कोशराष्ट्रदुर्गबलानि च Ak.

The various sovereigns to be considered in case of war; (for full explanation see Kull. on Ms.7.155 and 157).

The eight primary elements out of which everything else is evolved according to the Sāṅkhyas; see Sāṅ. K.3.

The five primary elements of creations (पञ्चमहाभूतानि)i. e. पृथ्वी, अप्, तेजस्, वायु and आकाश; प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो मयि Mb.5.73.17. -Comp. -अमित्रः an ordinary foe; प्रकृत्यमित्रानुत्थाप्य Dk.2.4. -ईशः a king or magistrate. -कल्याण a. beautiful by nature.-कृपण a. naturally slow or unable to discern; Me.5.-गुणः one of the three constituent qualities of nature; see गुण. -ज a. innate, inborn, natural. -तरल a. fickle by nature, naturally inconsistent; प्रकृतितरले का नः पीडा गते हतजीविते Amaru.3. -पाठः a list of verbal roots (धातुपाठ). -पुरुषः a minister, a functionary (of the state); जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः Me.6.

a standard or model of a man. -षौ nature and spirit.-भाव a. natural, usual. (-वः) natural or original state. -भोजनम् usual food. -मण्डलम् the whole territory of kingdom; अधिगतं विधिवद्यदपालयत् प्रकृतिमण्डलमात्म- कुलोचितम् R.9.2. -लयः absorption into the Prakṛiti, dissolution of the universe. -विकृतिः mutation of the original form. -श्रैष्ठ्यम् superiority of origin; Ms. 1.3. -सिद्ध a. inborn, innate, natural; सुजनबन्धुजने- ष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् Bh.2.52. -सुभग a. naturally lovely or agreeable. -स्थ a.

being in the natural state or condition, natural, genuine; दृष्ट्वा चाप्रकृतिस्थां ताम् Rām.7.58.17.

inherent, innate, incidental to nature; रघुरप्यजयद् गुणत्रयं प्रकृतिस्थं समलोष्ट- काञ्चनः R.8.21.

healthy, in good health.

recovered.

come to oneself.

stripped of everything, bare.

"https://sa.wiktionary.org/w/index.php?title=प्रकृतिः&oldid=501140" इत्यस्माद् प्रतिप्राप्तम्