प्रगल्भा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगल्भा, स्त्री, (प्रगल्भते धृष्टा भवतीति । प्र + गल्भ धार्ष्ट्ये + पचादित्वादच् । ततष्टाप् ।) नायिकाभेदः । अस्या लक्षणम् । पतिमात्र- विषयकेलिकलापकोविदा । अस्याश्चेष्टा रति- प्रीतिः । आनन्दादात्मसंमोहः । रतिप्रीति- र्यथा, -- “संस्पृश्य स्तनमाकलय्य वदनं संश्लिष्य कण्ठस्थलं निष्पीयाधरविम्बमम्बरमपाकृष्य व्युदस्यालकम् । देवस्याम्बुजिनीपतेः समुदयं जिज्ञासमाने प्रिये वामाक्षी वसनाञ्चलैः श्रवणयोर्नीलोत्पलं निह्नुते ॥” आनन्दादात्मसंमोहो यथा, -- “नखाङ्कितमुरःस्थलेऽधरतले रदस्य क्षतं च्युता वकुलमालिका विगलिता च मुक्तावली । रतान्तसमये मया सकलमेतदालोचितं स्मृतिः क्व च पतिः क्व च क्व च तवालिशिक्षा- विधिः ॥” सा मानावस्यायां त्रिविधा । धीरा अधीरा धीराधीरा च । व्यङ्ग्यकोपप्रकाशा धीरा । अव्यङ्ग्यकोपप्रकाशा अधीरा । व्यङ्ग्याव्यङ्ग्यकोप- प्रकाशा धीराधीरा । प्रौढाधीरायास्तु रता- वौदास्यम् । अधीरायास्तर्ज्जनताडनादि । धीराधीराया रतावौदास्यं तर्ज्जनादि च कोपस्य प्रकाशकम् । प्रौढाधीरा यथा, -- “नो तल्पं भजसे न जल्पसि सुधाधारानुकारा गिरो दृक्पातं कुरुषे न वा परिजने कोपप्रकाश- च्छलात् । इत्थं केतकगर्भगौरि दयिते कोपस्य संगोपनं किं स्यादेव नचेत् पुनः सहचरी कुर्व्वीत साचि स्मितम् ॥” प्रगल्भा अधीरा यथा, -- “प्रतिफलमवलोक्य स्वीयमिन्दोः कलायां हरशिरसि परस्या वासमाशङ्कमाना । गिरिशमचलकन्या तर्ज्जयामास कम्प प्रचलबलयवेल्लत्कान्तिभाजा करेण ॥” प्रगल्भा धीराधीरा यथा, -- “तल्पोपान्तमुपेयुषि प्रियतमे साचीकृतग्रीवया काकुव्याकुलवाचि साचिहसितस्फुर्जत्कपोल- श्रिया । हस्तन्यस्तकरे पुनर्मृगदृशा लाक्षारसक्षालित- प्रोष्ठीपृष्ठमयूखमांसलरुचो विस्फारिता दृष्टयः ॥” इति रसमञ्जरी ॥ (तल्लक्षणञ्च यथा साहित्यदर्पणे । ३ । १०१ । “स्मरान्धा गाढतारुण्या समस्तरतकोविदा । भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका ॥” तस्या उदाहरणभेदादिकं तत्रैव विशेषतो द्रष्ट- व्यम् ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगल्भा/ प्र- f. a bold and confident woman ( esp. one of the classes of heroines in dram. composition) Sa1h.

प्रगल्भा/ प्र- f. N. of दुर्गाL.

"https://sa.wiktionary.org/w/index.php?title=प्रगल्भा&oldid=501215" इत्यस्माद् प्रतिप्राप्तम्