प्रजापति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजापतिः, पुं, (प्रजानां पतिः ।) ब्रह्मा । इत्य- मरः । १ । १ । १७ ॥ (यथा, महाभारते । १ । १ । ३२ । “यस्मात् पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्म्मनुः कः परमेष्ठ्यथ ॥”) दक्षादिः । (यथा, -- “द्वितीये हि युगे सर्व्वमक्रोधव्रतमास्थितम् । दिव्यं सहस्रवर्षाणामसुरा अभिदुद्रुवुः ॥ तपोविघ्नं शमीकर्त्तुन्तपोविघ्नं महात्मनाम् । पश्यन् समर्थश्चोपेक्षाञ्चक्रे दक्षः प्रजापतिः ॥ पुनर्माहेश्वरं भागं ध्रुवं दक्षप्रजापतिः । प्रायो न कल्पयामास प्रोच्यमानः सुरैरपि ॥” इति चरके चिकित्सास्थाने तृतीयेऽध्याये ॥) महीपालः । इति मेदिनी । ते, २०८ ॥ (इन्द्रः । यथा, महामारते । ३ । १८५ । १६ । “अयमेव विधाता हि तथैवेन्द्रः प्रजापतिः ॥”) जामाता । दिवाकरः । वह्निः । त्वष्टा । इति हेम- चन्द्रः ॥ (यथा, वाजसनेयसंहितायाम् । १२ । ६१ । “तां विश्वैर्देवैरृतुभिः संविदानः प्रजापतिर्विश्वकर्म्मा विमुञ्चतु ॥” मनुः । यथा, मनौ । १० । ७८ । “न तौ प्रति हि तान् धर्म्मान् मनुराह प्रजा- पतिः ॥”) दश प्रजापतयो यथा, आह्रिकतत्त्वे । “मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वशिष्ठञ्च भृगुं नारदमेव च । देवान् सर्व्वानृषीन् सर्व्वांस्तर्पयेदक्षतोदकैः ॥” एकविंशतिप्रजापतयो यथा, -- “ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्म्मस्तथा व्यमः । मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ॥ वशिष्ठः परमेष्ठी च विवस्वान् सोम एव च । कर्द्दमश्चापि यः प्रोक्तः क्रोधोऽर्व्वाक् क्रीत एव च ॥ एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः ॥” इति महाभारते मोक्षधर्म्मः ॥ * ॥ पिता । यथा, -- “जनको जन्मदानाञ्च रक्षणाच्च पिता नृणाम् । ततो विस्तीर्णकरणात् कलया स प्रजापतिः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥ * ॥ स्वनामख्यातकीटविशेषश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजापति पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।17।2।2

धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः। स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृट्विधिः। नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः। सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजापति¦ पु॰

६ त॰।

१ चतुर्मुखे ब्रह्मणि अमरः।

२ दक्षादौ

३ नृपे च मेदि॰।

४ जामातरि

५ सूर्य्ये

६ वह्नौ

७ त्वष्टरिहेमच॰। प्रजापतयश्च बहुविधाः यथीक्तम्
“आत्मार्थे चा-सृजत् पुत्रान् लोककर्तॄन् पितापहः। विश्वे प्रजानांपतयो येभ्यो लोका विनिःसृताः। विश्वेशं प्रथमं नाममहातपसमात्मजम्। सर्वाश्रमपदं पुण्यं नाम्ना धर्मं ससृष्टवान्। दक्षं, मरीचिमत्रिञ्च पुलस्त्यं पुलहं क्रतुम्। बशिष्ठं गौतमञ्चैव भृगुमङ्गिरसं मनुम्। अथर्वभूताइत्येते ख्याताश्चैव महर्षयः। त्रयोदश सुता येषां वंशास्तुसंप्रतिंष्ठिताः” हरिवं॰

२०

४ अ॰
“ससर्ज सृष्टिं तद्रूपंस्रष्टुमिच्छन् प्रजापतीन्। मरीचिमत्र्यङ्गिरसं पुलस्त्यंपुलहं क्रतुम्। वसिष्ठञ्च महातेजाः सोऽसृजत् सप्त-मानसान्। सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः” हरिवं

१ अ॰। एकविंशतिः प्रजापतयो यथा
“ब्रह्मास्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तथा यमः। मरीचिरङ्गिरात्रिश्चपुलस्त्यि पुलहः क्रतुः। वशिष्ठः परमेष्ठी च विव-स्वान् सोम एव च। कर्दमश्चापि यः प्रोक्तः क्रोधोऽ-र्वाक् क्रीत एव च। एकविंशतिरुत्पन्ना ते प्रजापतयःस्मृताः” महाभारते मोक्षधर्मः। अन्येऽपि प्रजापतयःपुराणादौ प्रसिद्धा यथा
“शंयुः प्रजापतिः” श्रुतिः।

८ विष्णौ पु॰
“पद्मनाभः प्रजापतिः” विष्णुस॰।

९ यज्ञेनिघण्टुः।

१० स्वनामख्याते कीटभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजापति¦ m. (-तिः)
1. A name of BRAHMA
4.
2. The epithet common to the ten divine personages, who were first created by BRAHMA; they are also termed Brahma4dikas, and their names are MARICHI, ATRI, ANGIRAS, PULASTYA, PULAHA, KRATU, PRACHE4TAS, VASIHT'HA, BHRIGU, and NA4RADA: some authorites make the [Page476-a+ 60] Praja4patis only seven in number, others reduce them to three, such as DAKSHA, NA4RADA, and BHRIGU, and others make them twenty-one.
3. A king, a sovereign.
4. A father.
5. A son-in-law, a daughter's husband.
6. The sun.
7. Fire.
8. A name of VISWA- KARMA4, the architect of gods. E. प्रजा people or the world, and पति master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रजापति/ प्रजा--पति ( जा-) m. " lord of creatures " , N. of सवितृ, सोम, अग्नि, इन्द्रetc. RV. AV.

प्रजापति/ प्रजा--पति ( जा-) m. a divinity presiding over procreation , protector of life ib. VS. Mn. Sus3r. BhP. Page658,3

प्रजापति/ प्रजा--पति ( जा-) m. lord of creatures , creator RV. etc. etc. (N. of a supreme god above or among the Vedic deities [ RV. (only x , 21 , 10) AV. VS. Br. ] but in later times also applied to विष्णु, शिव, Time personified , the sun , fire , etc. , and to various progenitors , esp. to the 10 lords of created beings first created by ब्रह्मा, viz. मरीचि, अत्रि, अङ्गिरस्, पुलस्त्य, पुलक, क्रतु, वसिष्ठ, प्रचेतस्or दक्ष, भृगु, नारद[ Mn. i , 34 ; See. IW. 206 n. 1 ] , of whom some authorities count only the first 7 , others the last 3)

प्रजापति/ प्रजा--पति ( जा-) m. a father L.

प्रजापति/ प्रजा--पति ( जा-) m. a king , prince L.

प्रजापति/ प्रजा--पति ( जा-) m. a son-in-law L.

प्रजापति/ प्रजा--पति ( जा-) m. the planet Mars , a partic. star , ? Aurigae Su1ryas.

प्रजापति/ प्रजा--पति ( जा-) m. (in astrol. ) = 2. काल-नरSee.

प्रजापति/ प्रजा--पति ( जा-) m. a species of insect L.

प्रजापति/ प्रजा--पति ( जा-) m. N. of sev. men and authors Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a title of honour earned by Manu and the mind-born and other sons of ब्रह्मा; फलकम्:F1:  M. 1. ३३.फलकम्:/F describes the creator; फलकम्:F2:  Ib. 4. 8.फलकम्:/F anointment of the दिक्पालस् by; फलकम्:F3:  Ib. 8. 9.फलकम्:/F दक्ष a प्रजापति; फलकम्:F4:  भा. II. 6. 7; IV. 5. १७; VII. १२. २६; V. २३. 5; X. ५४. ४९.फलकम्:/F Nine in number, worshipped for the sake of progeny. फलकम्:F5:  Ib. I. 3. २७; II. 3. 2; VII. 8. ३८.फलकम्:/F
(II)--the lord of वैराजक Kalpa; wife गायत्री; son Snigdhasvara. वा. २१. ४१-2.
(III)--the Veda-व्यास of the second द्वापर. Vi. III. 3. ११.
(IV)--the son of प्राम्शु and father of Khanitra. Vi. IV. 1. २३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAJĀPATI(S) : Creators of the world. With a view to making creation easy Brahmā at first created twentyone Prajāpatis (creators). They are Brahmā, Rudra, Manu, Dakṣa, Bhṛgu, Dharma, Tapa, Yama Marīci, Aṅgiras, Atri, Pulastya, Pulaha, Kratu, Vasiṣṭha, Parameṣṭhī, Sūrya, Candra, Kardama, Krodha and Vikrīta. (Chapter 384, Śānti Parva).


_______________________________
*5th word in left half of page 599 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रजापति&oldid=501348" इत्यस्माद् प्रतिप्राप्तम्