प्रणाम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रणामः, पुं, (प्र + णम + भावे घञ् ।) प्रणतिः । प्रणिपातः । भक्तिश्रद्धातिशययुक्तनमस्कारः । स तु स्वापकर्षबोधकव्यापारविशेषः । इति मुग्ध- बोधटीकायां दुर्गादासः ॥ स चतुर्व्विधः । अभि- वादनम् १ अष्टाङ्गः २ पञ्चाङ्गः ३ करशिरः- संयोगश्च ४ । प्रथमस्य लक्षणं तच्छब्दे द्रष्ट- व्यम् ॥ द्वितीयो यथा, -- “पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा । वचसा मनसा चैव प्रणामोऽष्टाङ्ग ईरितः ॥” तस्य फलम् । “भूमौ निपत्य यः कुर्य्यात् कृष्णेऽष्टाङ्गनतिं सुधीः । सहस्रंजन्मजं पापं त्यक्त्वा वैकुण्ठमाप्नुयात् ॥” तृतीयो यथा, -- “बाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा दृशा । पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रवरा- विमौ ॥” * ॥ प्रकर्षेण नमनम् । तद्विधिर्यथा, कालिकापुराणे । “शिरोमत्पादयोः कृत्वा बाहुभ्याञ्च परस्परम् । प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥” किञ्चागमे । “दोर्भ्यां पद्भ्याञ्च जानुभ्यामुरसा शिरसा दृशा । मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ * ॥ अपि च । “सकृद्भूमौ निपतितो न शक्तः प्रणमेन्मुहुः । उत्थायोत्थाय कर्त्तव्यं दण्डवत् प्रणिपातनम् ॥” इति श्रीहरिभक्तिविलासे ८ विलासः ॥ नतिविशेषस्तु यामले । “त्रिकोणाकारा सर्व्वत्र नतिः शक्तेः समीरिता । दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्भवीम् ॥ ततश्च दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् ॥” * ॥ एकहस्तप्रणामनिषेधो यथा, -- “एकहस्तप्रणामश्च एकं वापि प्रदक्षिणम् । अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् ॥” इति तन्त्रसारः ॥ * ॥ कायिकवाचिकमानसमेदेन प्रत्येकं त्रिविधः । यथा, कालिकापुराणे ७० अध्याये । “कायिको वाग्भवश्चैव मानसन्त्रिविधः स्मृतः । नमस्कारस्तु तत्त्वज्ञैरुत्तमाधममध्यमः ॥ प्रसार्य्य पादौ हस्तौ च पतित्वा दण्डवत् क्षितौ । जानुभ्यामवनीं गत्वा शिरसा स्पृश्य मेदिनीम् ॥ क्रियते यो नमस्कार उत्तमः कायिकस्तु सः । जानुभ्यां क्षितिं संस्पृष्ट्वा शिरसा स्पृश्य मेदि- नीम् ॥ क्रियते यो नमस्कारो मध्यमः कायिकस्तु सः । पुटीकृत्य करौ शीर्षे दीयते यद्यथा तथा ॥ अस्पृष्ट्वा जानुशीर्षाभ्यां क्षितिं सोऽधम उच्यते ॥ यः स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः । क्रियते भक्तियुक्तैर्व्वा वाचिकस्तूत्तमः स्मृतः ॥ पौराणिकैर्वैदिकैर्व्वा मन्त्रैर्य्या क्रियते नतिः । मध्यमोऽसौ नमस्कारो भवेद्वाचनिकः सदा । स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्त्रकौ ॥ * इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं पुनः । मननं मानसं प्रोक्तमुत्तमाधममध्यमम् ॥ त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः । कायिकैस्तु नमस्कारैर्देवास्तुष्यन्ति नित्यशः ॥ अयमेव नमस्कारो दण्डादिप्रतिपत्तिभिः । प्रणाम इति विज्ञेयः स पूर्ब्बं प्रतिपादितः ॥” * ॥ शूद्रपूजितदेवताप्रणामनिषेधो यथा, -- “यः शूद्रेणार्च्चितं लिङ्गं विष्णुं वा प्रणमेद्यदि । निष्कृतिस्तस्य नास्त्येव प्रायश्चित्तायुतैरपि ॥” इति कर्म्मलोचनम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रणाम¦ पु॰ प्र +{??}म--भावे घञ्। प्रणबौ
१ स्वापकर्षबोधकव्यापारेकरशिरःसंयोगादौ
“पद्ग्यां कराभ्यां जासुभ्यामुरसाशिरदा दृशा। वचसा मनसा चैव प्रणामोऽष्टाङ्ग उच्यते” इत्युक्ते
२ अष्टाङ्गव्याषारभेदे च प्रणामश्च चतुर्द्धाभिवादनम् अष्टाङ्ग पच्चाङ्गः करशिरसंयोनश्च। तत्रा-[Page4435-b+ 38] भिवादनशब्दे अभिवादनलक्षणं दृश्यम्। अष्टाङ्गलक्षणम-त्रोक्तं तृतीयो यथा
“घाहुभ्याञ्चैव जानुभ्यां शिरसा वचसादृशा। पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रवरः स्मृतः”। नतिविशेषस्तु जामले
“त्रिकोणाकारा सर्वत्र नतिः शक्तेःसमीरिता। दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शा-म्भवीम्। ततश्च दक्षिणां गत्वा नमस्कारस्त्रिकोणवत्” एकहस्तबणामनिषेधो यथा
“एकहस्तप्रणामश्च एक” वापि प्रदक्षिणम्। अकाले दर्शनं विष्णोर्हन्ति पुण्यंपुराकृतम्” इति तन्त्रसारः। स च कायिकवाचिकमान-सभेदेन प्रत्येकं त्रिविधः यथा
“कायिको वाग्भवश्चैवमानसस्त्रिविधः स्मृतः। नमस्कारस्तु तत्त्वज्ञैरुत्तमाधमम-ध्यमः। प्रसार्य्य पादौ हस्तौ च पतित्वा दण्डवत्क्षितौ। जानुभ्यामवनीं गत्वा शिरसास्पृश्य मेदि-नीम्। क्रियते यो नमस्कार उत्तमः कायिकस्तु सः। जानुभ्यां क्षितिमस्पृष्ट्वा शिरसास्पृश्य मेदिनीम्। कियते यो नमस्कारो मध्यमः कायिकस्वु सः। पुटीकृवकरौ शीर्षे दीयेते यद्यथा तथा। अस्पृष्ट्वा जानुशी-र्षाभ्यां क्षितिं सोऽधन उच्यते। यः स्वयं गद्यपद्याभ्यांघटिताभ्यां नमस्कृतिः। क्रियते भक्तियुक्तैर्वा वाचिक-स्तूत्तनः स्मृतः। पौराणिकैर्वेदिकैर्वा मन्त्रैर्या क्रियतेनतिः। मध्यनोऽसौ नमस्कारो भवेद्वाचनिकः सदा। स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्रकौ!। इष्टम-ध्यानिष्टगतैर्मनोभिस्त्रिविधं पुनः। मननं मानसं प्रोक्तमु-त्तमाधममव्यमम्। त्रिविधे च नमस्कारे कायिकश्चोत्तमःस्मृवः। कायिकैस्तु नमस्कारैर्देवास्तुयन्ति नित्यशः। अवमेव नमस्कारो दण्डादिप्रतिपत्तिभिः। प्रणाम इतिविज्ञेयः सपूर्वं प्रतिपादितः” कालिकापु॰
७० अ॰। शूद-सस्कृतपूजितदवताप्रणामनिषेधो यथा
“यः शूद्रोणार्च्चितंलिङ्गं विष्णुं वा प्रणमेद्यदि। निष्कृतिस्तस्य ना-स्त्येव प्रायश्चित्तायुतैरपि” इति कर्मलोचनम्।
“नमेत्यः शूद्रसंस्कृतम्” इत्यादि च।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रणाम¦ m. (-मः) Respectful or reverential salutation, addressed especial- ly to a Brahman or deity. E. प्र before, णम् to bow, aff. घञ् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रणामः [praṇāmḥ], 1 Bending, bowing, stooping.
A reverential salutation, obeisance, prostration, bow (used with dat.); as in साष्टाङ्गप्रणाम; Ku.6.91; मूर्ध्ना प्रणामं वृषभध्वजाय चकार 3.62; अस्मै प्रणाममकरवम् K.142. -Comp. -अञ्जलिः a respectful salutation with the hands folded together; Ku.4.35; for अष्टाङ्ग˚ see अष्टाङ्ग.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रणाम/ प्र-णाम m. ( ifc. f( आ). )bending , bowing , a bow , respectful salutation , prostration , obeisance ( esp. to a Brahman or to a deity) MBh. Ka1v. etc.