प्रतिग्रह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्रहः, पुं, (प्रतिग्रहणमिति । प्रति + ग्रह + “ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति भावे अप् ।) स्वीकरणम् । सैन्यपृष्ठम् । (प्रति- गृह्णाति निष्ठीवनादिकमिति । प्रति + ग्रह + “विभाषा ग्रहः ।” ३ । १ । १४३ । इति पक्षे अच् ।) पतद्ग्रहः । (प्रतिगृह्यते इति । प्रति + ग्रह + अप् ।) द्विजेभ्यो विधिवद्देयम् । तद्- ग्रहः । ग्रहभेदः । इति मेदिनी । हे, ३१ ॥ * ॥ ब्राह्मणस्यार्थः प्रतिग्रहार्ज्जितः । यथा, -- “प्रतिग्रहार्जिता विप्रे क्षत्त्रिये शस्त्रनिर्जिताः । वैश्ये न्यायार्जिताश्चार्थाः शूद्रे शुश्रूषयार्जिताः ॥” अयाचितप्रतिग्रहे दोषाभावो यथा, -- “अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे । अमृतं तं विदुर्द्देवास्तस्मात्तन्नैव निर्णुदेत् ॥ * ॥ गुरुभृत्यांश्चोज्जिहीर्षुरर्च्चिष्यन् देवतातिथीन् । सर्व्वतः प्रतिगृह्णीयात् न तु तृप्येत् स्वयं ततः ॥ साधुतः प्रतिगृह्णीयादथवासाधुतो द्विजः । गुणवानल्पदोषश्च निर्गुणो हि निमज्जति ॥ एवं तस्करवृत्त्या वा कृत्वा भरणमात्मनः । कुर्य्याद्विशुद्धिं परतः प्रायश्चित्तं द्विजोत्तमः ॥” इति गारुडे २१५ अध्यायः ॥ * ॥ तीर्थे प्रतिग्रहनिषेधो यथा, -- “सुवर्णमथ युक्तात्मा तथैवान्यप्रतिग्रहम् । स्वकार्य्ये पितृकार्य्ये वा देवताभ्यर्च्चनेऽपि वा ॥ निष्फलं तस्य तत्तीर्थं यावत्तद्धनमश्नुते । अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ॥” इति कौर्म्मे ३३ अध्यायः ॥ * ॥ राजादितः प्रतिग्रहनिषेधो यथा, -- “न राज्ञः प्रतिगृह्णीयान्न शूद्रपतितादपि । न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद- बुधः ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ * ॥ विद्यारहितस्य प्रतिग्रहनिषेधो यथा, -- “हेम भूमिं तिलान् गाश्च अविद्वानाददाति यः । भस्मीभवति सोऽह्नाय दातुः स्यान्निष्फलञ्च तत् ॥ “प्रतिग्रहं समर्थो हि कृत्वा विप्रो यथाविधि । निस्तारयति दातारमात्मानञ्च स्वतेजसा ॥” स्कान्दे । “वेदाङ्गपारगो विप्रो यदि कुर्य्यात् प्रतिग्रहम् । न स पापेन लिप्येत पद्मपत्रमिवाम्भसा ॥” महाभारते । “तीर्थे न प्रतिगृह्णीयात् पुण्येष्वायतनेषु च । निमित्तेषु च सर्व्वेषु न प्रमत्तो भवेन्नरः ॥” प्रतिग्रहसमर्थस्य तदकरणे फलाधिक्यं यथा । याज्ञवल्क्यः । “प्रतिग्रहसमर्थो हि नादत्ते यः प्रतिग्रहम् । ये लोका दानशीलानां स तानाप्नोति पुष्क- लान् ॥” अपवादमाह स एव । “कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः । मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥” अन्यच्च । “शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि । मत्स्यान् धानाः पयो मांसं शाकञ्चैव न निर्णुदेत् ॥” मणीन् विषादिनिवारकान् । “एधोदकं फलं मूलमन्नमभ्युद्धृतञ्च यत् ॥” अभ्युद्धृतमभ्यर्थ्य दत्तम् । “सर्व्वतः प्रतिगृह्णीयात् मध्वथोभयदक्षिणाम् ॥” किमिति न प्रत्याख्येयमित्याह मनुः । “अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्म्मणः । अन्यत्र कुलटाषण्डपतितेभ्यस्तथा द्विषः ॥” प्रतिग्रहमात्रे प्रयोगसारे । “प्रतिग्रहं न गृह्णीयादात्मभोगविधित्सया । देवतातिथिपूजार्थं यत्नाद्धनमुपार्ज्जयेत् ॥” अङ्गिराः । “कुटुम्बार्थे द्बिजः शूद्रात् प्रतिगृह्णीत याचितम् । क्रत्वर्थमात्मने चैव न हि याचेत कर्हिचित् ॥” यज्ञार्थं याचने निन्दामाह याज्ञवल्क्यः । “चाण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् ॥” इति शुद्धितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्रह पुं।

सैन्यपृष्टानीकः

समानार्थक:प्रतिग्रह

2।8।79।2।3

व्यूहस्तु बलविन्यासो भेदादण्डादयो युधि। प्रत्यासारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्रह¦ पु॰ प्रति + ग्रह--अप्।

१ स्वीकारे

२ अदृष्टार्थदत्त-द्रव्यस्य ग्रहणे

३ सैत्यपृष्ठे

४ पतद्ग्रहे च मेदि॰। प्रति-ग्रहश्चादृष्टार्थत्यक्तद्रव्यस्वीकारः। तत्र दानस्यैव स्वस्वत्वध्वंसमित परस्वत्वोन्पत्तिं प्रति हेतुता प्रतिग्रहस्य तुयथेष्टविनियोगार्हताप्रयोजकस्वत्वं प्रति कारणतायथोक्तं दायभागे
“दृष्टञ्च लोकेऽपि दाने हि चेतनोद्देशविशिष्टत्यागादेवदातृव्यापारात् सम्प्रदानस्य द्रव्ये स्वामित्वम्। न चस्वोकरणात् स्वत्वं स्वकर्तुरेव दातृत्वापत्तेः परस्वत्वापत्तिफलेन हि दानरूपता तच्च फलं सम्प्रदानाधीनं यथादेवतोद्देशेन द्रव्यत्यागं कुर्वन्नपि यजमानो न होता किन्तुतस्यैव त्यागस्य होमाभिधाननिमित्तं प्रक्षेपं कुर्वन् ऋत्वेगेव होतेत्युच्यते तद्वदत्रापि स्यात्। किञ्च मनसा पात्र[Page4438-b+ 38] मुद्दिश्येत्यादिशास्त्रे स्वीकारात् प्रागेव दानपदा दृष्टम्। ननु ग्रहणं स्वीकारः अभूततद्भावे च्विप्रयोगात् अस्वं स्वंकुर्वन् व्यापारः स्वीकारो भवति कथं तत् प्रागेव स्वत्वम्। उच्यत उत्पन्नमपि स्वत्वं सम्प्रदानव्यापारेण ममेदमितिज्ञानेन यथेष्टव्यवहारार्हं क्रियत इति स्वीकारशब्दार्थः। याजनाध्यापनसाहचर्व्याच्च प्रतिग्रहस्य स्वत्वमजनयती-ऽपि अजेनरूपता न विरुद्धा याजनादौ दक्षिणादानादेवस्वत्वात्” मूलम्। व्याख्यातमेतत् श्रोकृष्णेन यथा
“ननु त्यागात् केवलं स्वत्वनाशः सम्प्रदानस्वत्वं तु ममे-दमिति भाविस्वत्वावगाहितत्स्वीकारादेवेति मतं निरा-करोति नचेति। स्वीकर्तुरेवेत्येवकारेण त्यक्तुर्व्यव-च्छेद। इदमुपपादयति परस्वत्वापत्तिफलेन हीति। अत्रायमाशयः धात्वर्यतावच्छेदकफलानुकूलव्यापारवतएव तृजन्ततद्धातुव्य्यदेश्यत्वं यथा धात्वर्यतावच्छेदकोत्तर-देशसंयोगानुकूलव्योपारवति चैत्रे गन्तेति व्यवहारः। स्वीकारस्य स्वत्वहेतुत्वे धात्वर्थतावच्छेदकपरस्वत्वामुकूल-स्वीकाररूपव्यापारवतः स्वीकर्त्तरेव दातृपदव्यपदेश्यत्वा-पत्तिरिति पूर्वस्वत्वध्वंसरूपफलस्य न तद्व्यपदेशनिया-मकता तथात्वे उपेक्षितुछपि दातृपदव्यपदेश्यत्वापत्ति-रिति। केचित्तु स्वीकारस्य स्वत्वहेतुत्वे परस्वत्वफलोप-हितत्यागात्मकदाने सर्वांशे एकस्यापि कर्तृत्वासन्धवात्एकांशमादायैव दातृत्वव्यवहारे कर्त्तव्ये प्रधानीभूतफलां-शानुकूलव्यः पारवत्येव दातृव्यवहारः स्यादिति व्याचक्रुः। दृष्टान्तेनेदं द्रढयति यथा होति। होमाभिधाननि-मित्तर्मिति। विशिष्टदेशावच्छिन्नपक्षेपोपहितत्यानस्यहोमत्वात् प्रक्षेपस्य तदभिधाननिमित्तत्वमित्यर्थः। तेनहुधात्वर्यतावच्छेदकप्रक्षेपानुकूलव्यापारवति ऋत्विजि-होतेति व्यपदेशो यथा तथेत्यर्यः। व्यागस्य स्वत्वहतुत्वस्फुटमेव शास्त्रं प्रमाणयति किञ्चेति। आदिना भूमौतोयं विनिःक्षिपेदित्युत्तरप्रतीकपरिग्रहः। शास्त्रे शास्त्र-कोधितत्यगे। दानपदं दृष्टमिति।
“विद्यते सागर-स्वान्तो दानस्यान्तो न विद्यते” इति तद्वचनस्योत्तरार्द्धेदानपदं प्रयुक्तमित्यर्थः। तथाच निरन्वरयोरेव स्वस्वत्ववंस-परस्वत्वात्पत्तिफलयोर्ददातिघात्वर्थतावच्छेदकत्वात् दा-नस्य परस्वत्वहेतुता शास्त्रसिद्धैवेति भावः। स्वीका-रात् प्रागेव स्वत्वे ग्रहणस्य स्वीकारपदार्थत्वासम्भबमाश-ङ्कते नन्विति। खीकारशब्दार्थ इति। तथाच स्वपदस्ययथेष्टविनियोगार्हत्वविशिष्टे लक्षणेति भावः। ननु याज-[Page4439-a+ 38] नाध्यापनप्रतिग्रहैर्ब्राह्मणो धनमार्जयेदित्यत्र राजसूयेनयजेतेत्यादिवत् याजनाद्यात्मकैर्द्धनमर्जयेदित्यन्वयात् प्रति-ग्रहस्यार्जनरूपता सिद्धा प्रतिग्रहस्य स्वत्वाहेतुत्व च त-द्विरुद्धं स्वत्वहेतुव्यापारस्येवार्जनत्वादत आह याजनेति। अर्जनरूपता अर्जनपदव्यपदेशः। अविरोधमुपपादयतियाजनादाविति तथा च याजनादीनां स्वत्वाहेतुत्वेन तद-न्वयानुरोधवत् अर्जयेदित्यत्रार्जनत्वं न स्वत्वजनकत्वंकिन्तु स्वत्वप्रयोजकत्वमेव तच्च प्रतिग्रहेऽप्यक्षतं दत्तेसत्ययं प्रतीगृह्णातीत्यवधारण एव तदुद्देशेन दातुस्त्या-नात् तत्स्वत्वोदयात् प्रतिग्रहवैमुख्यज्ञाने तद्व्यतिरेका-च्चेति भावः”।
“न च दानस्य स्वत्वहेतुत्वे प्रमाणाभावः
“सप्तावित्तागमाधर्म्यादायो लाभः क्रयो जयः। प्रयोगः कर्मयोगश्चसत्प्रतिग्रह एव च” इत्यादिमन्वादिवचनैस्तस्य स्वत्वहेतुत्वाप्रतिपादनादिति वाच्यं ब्राह्मणाय त्यक्तायां गविगौरियं ब्राह्मणस्य न तु ममेत्यादिसार्वजनीनप्रतीतेरेवतत्र प्रमाणत्वात् प्रदानं स्वाम्यकारणमितिवचनाच्च अतएव विदेशस्थं पात्रमुद्दिश्य त्यक्तधने स्वीकारमन्वरेणैवपात्रस्य मरणस्थले पिवृदायत्वेन तद्धनं पुत्रादिभिर्विभज्यमृह्यते अन्यथा तैरिव उदासीनैरपि तद्धनस्यारण्यकुशादेरिवोपादाने यथेष्टनियोगे च प्रत्यवायो न स्यात्। नन्वेवं दानादेव स्वत्वसिद्धेर्दत्तवस्तुनि स्वीकारो व्यर्थइति चेन्न
“लब्ध्वा चाष्टगुणं फलमित्यादि” स्मृतेः प्रतिग्रहीतरि द्रव्यदानस्य फलविशेषं प्रति हेतुत्वोन तादृशफल-सम्पत्त्यर्थमेव प्रतिग्रहस्योपयोगात् याजनाध्यापनप्रति-ग्रहैर्द्विजो धनमर्जयेदित्यादिश्रुन्या प्रामुक्तस्मृत्या च प्रति-यहस्यापि स्वत्वहेतुत्वबोधनाच्च स्वत्वजनकव्यापारस्यैवा-र्जनपदार्थत्वात्” शब्दशक्तिप्र॰। अधिकं दानशब्दे दृश्यम्। द्रव्यगेद{??}तिग्रहे दोषस्तु अग्राह्यशब्दे उक्तस्तत्रअयाचितस्य विषयभेदे प्रतिग्रहे न दोषः यथा
“अयाचितोपपम्ने तु नास्ति दोषः प्रतिग्रहे। अमृतंतं विदर्देवास्तस्मात्तन्नैव निर्णुदेत्। मुरुभृत्यांश्चोज्जि-हीर्षुरर्चिष्यत् देवतातिथीन्। सर्वतः प्रतिगृह्णीयात्न तु तृप्येत् स्वयं ततः। साधुतः पतिगृह्णीयादथ बाऽ-साधुतो द्विजः। गुणवानल्पदोषश्च निर्गुणो हि नि-मज्जकि। एवं तस्करवृत्त्या वा कृत्वाभरणमात्मनः। कुर्य्याद्विशुद्धि परतः प्रायश्चित्तं द्विजोत्तमः”। गारुडे

१५ अ॰। अधिकम् अग्रे दर्शयिष्यमाणे शु॰ तत्त्वग्रन्थे[Page4439-b+ 38] दृश्यम्। तीर्थप्रतिग्रहनिषेधो यथा
“स्वकार्ये पितृकार्य्येवा देवताभ्यर्चनेऽपि वा। निष्फलं तस्य तत्तीर्थं यावत्तद्धनमश्नुते। अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषुच” कौर्मे

३३ अ॰। राजादितः प्रतिग्रहनिषेधो यथा
“न राज्ञः प्रतिगृह्णीयान्न शूद्रपतितादषि। न चान्य-स्मादशक्तश्च निन्दितात् वर्जयेद्बुधः” कौर्मे

१५ अ॰। आपदि गर्हितप्रतिग्रहस्थादोषः वृहत्परा॰
“प्रोक्तप्र-तिग्रहामावे प्राप्तायां वृहदापदि। विपोऽश्नन् प्रतिगृ-ह्नन् वा यतस्ततोऽपि नाघमाक्। गुर्वादिपोष्यवर्गार्थंदेवाद्यर्थञ्च सर्वशः। प्रत्यादद्याद्द्विजो यस्तु भृत्यर्थमा-त्मनोऽपि च। दधिक्षीराज्यमांसानि नन्घपुष्याम्बुमत्स्य-कान्। शव्यामांसासनं शाकं प्रत्याख्येयं न कर्हिचित्। अपि दुष्कृतकर्मभ्यः समांदद्यादयाचितम्। पतितेभ्यस्त-थाऽन्येभ्यः प्रतिग्राह्यमसंशयम्”। प्रतिग्रहीतुं शक्तस्यतत्त्यागे तत्रैव स्थानान्तरे स्वर्ग उक्तो यथा
“शक्तःप्रति-ग्रहीतुं यो वेदवृत्तः सुसंयतः। लभ्यमानं न गृह्णातिस्वगंस्तस्य सुनिश्चितम्। प्रतिग्रहमृणं वापि याचितं योन यच्छति। तत्कोटिगुणितिग्रस्तो मृतो दासत्वमृच्छति”। दाता च न स्मरेद्दानं प्रातिग्राही न याचते। तावुभौनरकं याठो दाता चैव प्रतिग्रही। वदन्ति कवयःकेचिद्दानप्रतिग्रहौ प्रति। प्रत्यक्षं लिङ्गमेवेह दातृ-याचकयोर्बलम्। दातृहस्तो भवेदूर्द्ध्वमधस्तिष्ठेत् प्रति-ग्रही। यद्दानं प्रतिगृह्णीयात् प्रतिग्राही व्रजत्यधः। ” तस्य प्रकारमाह शु॰ त॰ विष्णुधर्मोत्तरे
“भूमेः प्रतिग्रहंकुर्य्याद्भूमेः कृत्वा प्रदक्षिणम्”। प्रदक्षिणं न सर्वस्याभूमेःकिन्तु तत्रस्थस्य प्रदक्षिणावर्त्तनमात्रं भूमेरसन्निधानेतामुद्दिश्य प्रदक्षिणम्।
“करे गृह्य तथा कन्यां दास-दास्यौ द्विजोत्तमाः!। करन्तु हृदि विन्यस्य धर्मो ज्ञेयःप्रतिग्रहे”
“आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्त्तितः। तथाचैकशफानान्तु सर्वेषामविशेषतः। प्रतिगृह्णीत गांपुच्छे पुच्छे कृष्णाजिनं तथा। आरण्याः पशवश्चान्येग्राह्याः पुच्छे विचक्षणैः। प्रतिग्रहमथोष्ट्रस्य आरुह्यच तथाचरेत्। वीजानां सुष्टिमादाय रत्नान्यादायसर्वशः। वस्त्र दशान्त आदद्यात् परिघाय तथा पुनः। आरुह्योपानहौ यानमारुह्यैव च पादुके। ईषायान्तुरथं ग्राह्यं छत्रं दण्डे च धारयेत्। आयुधानि समा-दाय तथाभूष्य विभूषणम्। वर्मध्वजौ तथा स्पृष्ट्वाप्रविश्य च तथा गृहम्। अवतीर्य्य च सर्वाणि जल-[Page4440-a+ 38] स्थानानि वै द्विजाः। द्रव्याण्यन्यान्यथादाय स्पृष्ट्वायो ब्राह्मणः पठेत्। प्रतिग्रहीता सावित्रीं सर्वत्रैवप्रकीर्त्तयेत्। ततस्तु सार्द्धं द्रव्येण तस्य द्रव्यस्य दैव-तम्” भूमिर्विष्णुदेवताकेत्यादि कीर्त्तयेदित्यर्थः।
“समा-पयेत्ततः पश्चात् कामस्तुत्या प्रतिग्रहम्। विधिं धर्म-मथो ज्ञात्वा यस्तु कुर्य्यात् प्रतिग्रहम्। दात्रा सहतरत्येव नानादुर्गाण्यसौ द्विजः”। ब्रह्मपुराणे
“व्रा-ह्मणः प्रतिगृह्णीयाद्वृत्त्यर्थं साधुतस्तथा। अव्यश्वमपिमातङ्गतिललौहांश्च वर्जयेत्। कृष्णाजिनहयग्राही नभूयः पुरुषो भवेत्। शय्यालङ्कारवस्त्रादि प्रतिगृह्यमृतस्य च। नरकान्न निवर्त्तन्ते धेनुं तिलमयीं तथा”। तथा
“ब्रह्महत्या सुरापानमपि स्तेयं तरिष्यति। आ-तुराद् यद्गृहीतन्तु तत्कथं वै तरिष्यति” एतदादि-दव्य दानं ग्रहीतुर्दोषजनकम्। अनिच्छवे विद्यारहित-त्वेनासमर्थाय च दातुरपि दोषजनकमाह दक्षः
“नकेवलं हि तद्याति शेषमस्य च नश्यति”। तत् द्रव्यंशेषं द्रव्यस्य अतएव याज्ञवल्क्यः
“विद्यातपोभ्यां ही-नेन न तु ग्राह्यः प्रतिग्रहः। गृह्णन् प्रदातारमधो-नयत्यात्मानमेव च”। अधो नरकम्। एतद्दानप्रति-ग्रहणोत्तरं तपोजपादिभिरात्मतारणक्षमाय स्वेच्छयाप्रतिग्रहीत्रे दानं न दोषायेत्याह विष्णुः
“एतानि यदिगृह्णाति स्वेच्छयाभ्यर्थितो न तु। तस्मै दाने न दोषो-ऽस्ति यस्त्वात्मानन्तु तारयेत्”। तारणप्रकारमाह हा-रीतः
“मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्टसहस्रंजपेत् पञ्चमध्यमे दशोत्तमे द्वादशरात्रं पयोव्रतं शत-सहस्रं मसत्प्रतिग्रहेष्विति” अष्टसहस्रमष्टाधिकसहस्रम्असत्प्रतिग्रहेषु उभयतोमुख्यादिप्रतिग्रहेषु तथाचादि-पुराणे
“किं करिष्यत्यसौ मूतो गृह्णात्युभयतोमुखीम्। सहस्रं वारुणाः पाशाः खुरधाराऽग्निसन्निभाः। पूर्णे व-र्षसहस्रे तु पाश एकः प्रमुच्यते”। अत एव देवलः
“प्रतिग्रहसमर्थो हि कृत्वा विप्रो यथाविधि। नि-स्तांरयति दातारमात्मानञ्च स्वतेजसा”। स्कान्दे
“वे-दाङ्गपारगो विप्रो यदि कुर्य्यात् प्रतिग्रहम्। न सपापेन लिप्येत पद्ममत्रमिव म्भसा” एवं
“तीर्थे न प्रति-गृह्णीयात् पुण्येष्वायतनेषु च। निमित्तेषु च सर्वेषु नप्रमत्तो भवेन्नरः” इति महाभारतवचनम्। प्रतिग्रहीतृ-दोषजनके गङ्गातीरादिदेशग्रहणादिकाले दानेऽपि बोध्यम्। किन्त्विदानीन्तथाविधपात्राभावात्
“मनसा पात्रमुद्दिश्य” [Page4440-b+ 38] इत्यादि प्रागुक्तवचनात्तत्तद्देशकालयोरुत्सृज्य देशान्तरेकालान्तरे च प्रतिपादनाचारः सर्वथा समीचीनः। गङ्गावाक्याबल्यप्येवम्। याज्ञवल्क्यः
“प्रतिग्रहसमर्थो॰हि नादत्ते यः प्रतिग्रहम्। ये लोका दानशीलानां सतानाप्नोति पुष्कलान्”। अपबादमाह स एव
“कुशाःशाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः। मांस-शय्यासनं धानाः प्रताख्येयं न वारि च”। चकाराद्-गृहादि
“शय्यागृहान् कुशान् गन्धानपः पुष्पं मणीन्दधि। मत्स्यान् धानाः पयोमांसं शाकस्वैव न निर्णुदेत्” इति वचतात्। मणीन् विषादिनिवारकान्। तथा
“एधोदकं फलं मूलमन्नमभ्युद्धृतञ्च यत्। सर्वतः प्रति-गृह्णीयात् मध्वथाभयदक्षिणाम्”। अभयद्रक्षिणाम् अ-भयदानं अभयप्रद इति वक्ष्यसाणवचनात्। अभ्युद्धृतम्अभ्यर्थ्य दत्तम्। किमिति प्रत्याख्येयम् इत्याह। तथा स्यमनुः
“अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः। अन्यत्रकुलटाषण्डपतितेभ्यस्तथा द्विषः” एतद्वचनं याज्ञवल्क्य-स्येति मिताक्षराकुल्लू कभट्टमाधवाचार्य्याः। मनोरितिशूलपाणिः। भरद्वाजः
“अयाचितोपपन्ने तु नास्तिदोषः प्रतिग्रहे। अमृतं तद्विदुर्देवास्तस्मात्तं नैव निर्णु-देत्”। अपवादान्तरमाह स एव
“देवातिर्थ्यर्च्च नकृते गुरु-भृत्यार्थमेव च। सर्वतः प्रतिगृह्णोयादात्मवृत्त्यर्थमेव च” भृत्या भरणीयाः भार्य्यापुत्रादयः। तथा च मनुः
“वृद्धौच मातापितरौ साध्वी भार्य्या सुतः शिशुः। अप्यकार्य्यशतं कृत्वा भर्त्तव्या मनुरब्रवीत्”। आत्मवृत्त्यर्थं जीवन-मात्रम्।
“न तु तृप्येत् स्वयं ततः” इति मनुस्मृतेः। प्रयोगसारे
“प्रतिग्रहं न गृह्णीयादात्मभोगोपलिपूसया। देवतातिथिपूजार्थं धनं यत्नादुपार्जयेत्”। अङ्गिराः
“कुटुम्बार्थं द्विजः शूद्रात् प्रतिगृह्णीत याचितम्। क्र-त्वर्थमात्मने चैव न हि याचेत कर्हिचित्”। अत एवयज्ञार्थे याचकत्रे निन्दामाह याज्ञवल्क्यः
“चाण्डालोजायते यज्ञकरणाच्छूद्रभिक्षणात्” शूद्रस्यापि अयाचित-दातृत्वमाह नृसिंहपुराणम्
“अयाचितप्रदाता च कृषिवृत्त्यर्थमाश्रयेत्। पुराणं शृणुयान्नित्यं नरसिंहस्य पूजनम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्रह¦ m. (-हः)
1. Acceptance, assent.
2. Proper donation to Bra4h- [Page478-b+ 60] mans, whatever is a fit present to a Bra4hman at suitable periods.
3. The acceptance of such a gift.
4. Friendly reception.
5. Favor.
6. Marrying.
7. A spitting-pot.
8. The reserve of an army, a4 detachment posted with the general four hundred yards in the rear of the line.
9. The sun near the moon's node. E. प्रति again, &c. and ग्रह taking.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्रहः [pratigrahḥ], 1 Receiving, accepting.

Receiving or accepting a donation; अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे

The right of receiving or accepting a donation.

The right of receiving gifts (which is a peculiar prerogative of Brāhmaṇas); अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ Ms.1.88;4.86; Y.1.118

A gift, present, donation; राज्ञः प्रतिग्रहो$यम् Ś.1; Śi.14.35.

A receiver (of a gift).

Kind or friendly reception; प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् Mb.1.27.12.

Favour, grace.

Marrying; तत्प्रतिग्रहलाभाय जित्वा भूपान् स्वयंवरे Bm.1.456.

Listening to.

The rear of an army.

A spitting-pot.

The sun near the moon's node.

a chambervessel (for sick persons).

a grasper, seizer; केश- प्रतिग्रहः = barber.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिग्रह/ प्रति- m. receiving , accepting , acceptance of gifts (as the peculiar prerogative of Brahmans ; See. IW. 237 ; 262 ) S3Br. S3rS. Mn. MBh. etc. ( ग्रहं-कृ, to receive presents Mn. )

प्रतिग्रह/ प्रति- m. friendly reception MBh.

प्रतिग्रह/ प्रति- m. favour , grace MBh.

प्रतिग्रह/ प्रति- m. taking a wife , marrying R.

प्रतिग्रह/ प्रति- m. receiving with the ear i.e. hearing Katha1s.

प्रतिग्रह/ प्रति- m. a grasper , seizer( केश-, a hair-cutter , barber) Gobh. a receiver Ka1tyS3r. R.

प्रतिग्रह/ प्रति- m. a chamber-vessel or any similar convenience for sick persons Car.

प्रतिग्रह/ प्रति- m. a spittoon L.

प्रतिग्रह/ प्रति- m. a gift , present ( esp. a donation to a Brahman at suitable periods) Ya1jn5. MBh. etc. ( instr. " as a present " Katha1s. )

प्रतिग्रह/ प्रति- m. N. of the objects or functions corresponding to the 8 ग्रहs L.

प्रतिग्रह/ प्रति- m. = क्रिया-कारL.

प्रतिग्रह/ प्रति- m. the reserve of an army (a detachment posted with the general 400 yards in the rear of a line) W.

प्रतिग्रह/ प्रति- m. the sun near the moon's node ib.

"https://sa.wiktionary.org/w/index.php?title=प्रतिग्रह&oldid=501510" इत्यस्माद् प्रतिप्राप्तम्