प्रतिमा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमा, स्त्री, (प्रतिमीयते इति । प्रति + मा + अङ् । टाप् ।) अनुकृतिः । गजदन्तस्य वन्धः । इति मेदिनी । मे, ४८ ॥ (प्रतिविम्बम् । यथा, रघुः । ७ । ६४ । “निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥” तथा च कुमारे । ७ । ३६ । “आत्मानमासक्तगणोपनीते खड्गे निषक्तप्रतिमं ददर्श ॥” प्रतिमीयते अनयेति करणे अङ् ।) मूर्त्ति- सदृशमृच्छिलादिनिर्म्मितप्रतिरूपकम् । तत्- पर्य्यायः । प्रतिमानम् २ प्रतिविम्बम् ३ प्रति- यातना ४ प्रतिच्छाया ५ प्रतिकृतिः ६ अर्च्चा ७ प्रति- निधिः ८ । इत्यमरः । २ । १० । ३६ ॥ प्रतिच्छन्दः ९ प्रतिकायः १० प्रतिरूपम् ११ । इति हेम- चन्द्रः ॥ * ॥ (यथा, महाभारते । १ । १७२ । २७ । “गिरिपृष्ठे तु सा तस्मिन् स्थिता स्वसितलोचना । विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी ॥”) देवप्रतिमाघटनप्रमाणादि यथा, -- “विष्णोस्तावत् प्रवक्ष्यामि यादृग्रूपं प्रशस्यते । शङ्खचक्रधरं शान्तं पद्महस्तं गदाधरम् ॥ छत्राकारं शिरस्तस्य कम्बुग्रीवं शुभेक्षणम् । तुङ्गनासं शुक्तिकर्णं प्रशान्तोरुभुजक्रमम् ॥ क्वचिदष्टभुजं विद्याच्चतुर्भुजमथापि वा । द्विभुजं वापि कर्त्तव्यं भवनेषु पुरोधसा ॥” * ॥ देयमष्टभुजस्यास्य यथास्थानं निबोध मे । खड्गो गदा शरः पद्मं देयं दक्षिणतो हरेः । धनुश्च खेटकञ्चैव शङ्खचक्रे च वामतः ॥ * ॥ चतुर्भुजस्य वक्ष्यामि यथैवायुधसंस्थितिः । दक्षिणेन गदां पद्मं वासुदेवस्य कारयेत् ॥ वामतः शङ्खचक्रे च कर्त्तव्ये भूतिमिच्छता । कृष्णावतारे तु गदा वामहस्ते प्रशस्यते ॥ यथेच्छया शङ्खचक्रमुपरिष्टात् प्रकल्पयेत् । अधस्तात् पृथिवी तस्य कर्त्तव्या पादमध्यतः । दक्षिणे प्रणतं तद्वत् गरुत्मन्तं निवेशयेत् । वामतस्तु भवेल्लक्ष्मीः पद्महस्ता सुशोभना । गरुत्मानग्रतो वापि संस्थाप्यो भूतिमिच्छता ॥ श्रीश्च पुष्टिश्च कर्त्तव्ये पार्श्वयोः पद्मसंयुते । तोरणञ्चोपरिष्टाच्च विद्याधरसमन्वितम् ॥ देवदुन्दुभिसंयुक्तं गन्धर्व्वमिथुनान्वितम् । पत्रवल्लीसमोपेतं सिंहव्यालसमन्वितम् । तथा कल्पलतोपेतं स्तुवद्भिरमरेश्वरैः । एवंविधो भवेद्बिष्णुस्त्रिभागेनास्य पीठिका ॥ नवतालप्रमाणास्तु देवदानवकिन्नराः । अतःपरं प्रवक्ष्यामि मानोन्मानं विशेषतः ॥ * ॥ जालान्तरप्रविष्टानां भानूनां यद्रजः स्फुटम् । अपि च । “अग्नौ क्रियावतामस्मि हृदि चाहं मनीषिणाम् । प्रतिमा स्वल्पबुद्धीनां ज्ञानिनामस्मि सर्व्वतः ॥ * ॥ प्रतिमां लक्षणवतीं यः कुर्य्याच्चैव मानवः । केशवस्य परं लोकमक्षयं प्रतिपद्यते ॥ षष्टिवर्षसहस्राणां सहस्राणि महामुने ! ॥ क्रीडते देववत्तत्र अप्सरोभिः सकिन्नरैः ॥ यः स्थापयेद्धरेरर्च्चां सुप्रशस्ते निवेशने । पुरुषः कृतकृत्यत्वान्नैनञ्च मरणं नयेत् ॥ * ॥ संस्थाप्य प्रतिमां विष्णोर्हेमरूप्यसुशैलजाम् । रत्नजां रैतिकीं वापि बहिस्तीर्थे गृहेऽपि वा ॥ महास्नानेन गोविन्दं सम्यक् संस्नाप्य मानवः । यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥” इत्यग्निपुराणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमा स्त्री।

प्रतिमा

समानार्थक:प्रतिमान,प्रतिबिम्ब,प्रतिमा,प्रतियातना,प्रतिच्छाया,प्रतिकृति,अर्चा,प्रतिनिधि,छाया

2।10।35।2।3

सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम्. प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया॥

 : लोहप्रतिमा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमा¦ स्त्री प्रति + मा--भावे अङ्।

१ सादृश्ये। करणेअङ्।

२ मृदादिनिर्मितदेवतादिमूर्त्तौ तन्मानादि देवता” प्रतिमाशब्दे

३६

८५ पृष्ठादौ दृश्यम्।

३ अनुकृतौ

४ गजदन्तबन्धे हेमच॰ उत्तरपदस्थः।

५ सदृशार्थे त्रि॰हेमच॰। यथा देवपतिमः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमा [pratimā], 3, 4 Ā. To compare, liken.

प्रतिमा [pratimā], m. Ved. A creator, maker.

मा An image, a likeness, statue, figure, an idol; पुरः परार्ध्यप्रतिमागृहायाः R.16.39.

Resemblance, similitude; oft. in comp. in the sense of 'like, similar, or equal to'; देवप्रतिम, अप्रतिम &c.; गुरोः कुशानुप्रतिमात् R.2.49; पतत्पतङ्गप्रतिमस्तपोनिधिः Śi.1.12.

A reflection, reflected image; मुखमिन्दु- रुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् Śi.9.48,73; R.7. 64;12.1.

A measure, extent.

The part of an elephant's head between the tusks.

A symbol.-Comp. -गत a. present in an idol. -गृहम्, -गेहम् A statue-house; Pratimā 3; R.16.39. -चन्द्रः the reflected moon, reflection of the moon; उवास प्रतिमाचन्द्रः प्रसन्नाना- मपामिव R.1.65; so प्रतिमेन्दुः, प्रतिमाशशाङ्क. -परिचारकः an attendant upon an idol.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमा/ प्रति- A1. -मिमीते(Ved. inf. प्रति-मै) , to imitate , copy RV. VS. Kaus3.

प्रतिमा/ प्रति-मा m. a creator , maker , framer AV. VS.

प्रतिमा/ प्रति-मा f. an image , likeness , symbol RV. etc.

प्रतिमा/ प्रति-मा f. a picture , statue , figure , idol Mn. Hariv. Ragh. ( IW. 218 , 1 ; 241 )

प्रतिमा/ प्रति-मा f. reflection (in comp. after a word meaning " moon " See. below)

प्रतिमा/ प्रति-मा f. measure , extent(See. below)

प्रतिमा/ प्रति-मा f. N. of a metre RPra1t.

प्रतिमा/ प्रति-मा f. the part of an elephant's head between the tusks (also मm. ) L. ( ifc. like , similar , resembling , equal to TBr. MBh. etc. ; having the measure of , as long or wide etc. as e.g. त्रि-नल्व-प्र्, 3 नल्वs long Hariv. ; 632863 म-ताf. 632863.1 म-त्वn. reflection , image , shadow W. )

"https://sa.wiktionary.org/w/index.php?title=प्रतिमा&oldid=501686" इत्यस्माद् प्रतिप्राप्तम्