प्रतिमान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमानम्, क्ली, (प्रतिमीयतेऽनेनेति । प्रति + मि मा वा + ल्युट् ।) प्रतिविम्वम् । वाहित्थस्याधोभागः । इत्यमरः । २ । १० । ३६, २ । ८ । ३९ । “अस्य वाहित्थस्याधोभागो दन्तयोर्मध्यं प्रतिमान- मुच्यते प्रतिमीयते अनेन प्रतिमानं डु मिञ न क्षेपे अनट्मिम्योरिति ङा । प्रतिमानं प्रति- च्छाया गजदन्तान्तरालयोरिति रुद्रः ।” इति भरतः ॥ (यथा, महाभारते । ८ । २८ । २९ । “प्रतिमानेषु कुम्भषु दन्तवेष्टेषु चापरे । निगृहीता भृशं नागाः प्रासतोमर- शक्तिभिः ॥” हस्तिललाटदेशः । इति महाभारतटीकायां नीलकण्ठः । ६ । ४५ । २७ ॥ * ॥ सादृश्यम् । यथा, ऋग्वेदे । १ । ३२ । ७ । “वृष्णो वध्रिः प्रतिमानं बुभूषन् । पुरुत्रा वृत्रो अशयद्व्यस्तः ॥” “प्रतिमानं सादृश्यम् ।” इति तद्भाष्ये सायनः ॥ प्रतिनिधिः । यथा, ऋग्वेदे । ६ । १८ । १२ । “नास्य शत्रुर्न प्रतिमानमस्ति ।” “प्रतिमानं प्रतिनिधिर्नास्ति ।” इति तद्भाष्ये सायनः ॥ * ॥ दृष्टान्तम् । यथा, भागवते । ७ । ४ । ३५ । “यं साधुगाथासदसि रिपवोऽपि सुरा नृप ! । प्रतिमानं प्रकुर्व्वन्ति किमुतान्ये भवादृशाः ॥” तथा च महाभारते । ९ । २ । ३६ । “उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम् ॥” धान्यादिपरिमाणनिर्द्धारार्थप्रस्थद्रोणादिकम् । यथा, याज्ञवल्क्ये । २ । १०० । “तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥” मनुसंहितायान्तु । ८ । ४०३ । श्लोके प्रतीमानं इत्येव दृश्यते ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमान नपुं।

वाहित्थाधोभागदन्तमध्यम्

समानार्थक:प्रतिमान

2।8।39।1।2

अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत्. आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम्.।

पदार्थ-विभागः : अवयवः

प्रतिमान नपुं।

प्रतिमा

समानार्थक:प्रतिमान,प्रतिबिम्ब,प्रतिमा,प्रतियातना,प्रतिच्छाया,प्रतिकृति,अर्चा,प्रतिनिधि,छाया

2।10।35।2।1

सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम्. प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया॥

 : लोहप्रतिमा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमान¦ न॰ प्रतिमीयतेऽनेन प्रति + मि--मा--बा ल्युट्।

१ प्रतिबिम्बे

२ प्रतिमायां

३ गजकुम्भस्याधीभागे

४ तद्दन्त॰योर्मध्यस्थाने च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमान¦ n. (-नं)
1. Resemblance, an image, picture.
2. An idol.
3. A model.
4. Likeness, similarity.
5. A reflection.
6. A weight.
7. The part of an elephant's head between the tusks. E. प्रति before, मा to measure, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमानम् [pratimānam], 1 A model, pattern; सो$र्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् Mb.8.9.18.

An image, idol.

Likeness, similitude, similarity; हेरम्बकण्ठरसितप्रतिमानमेति Māl.9.3.

A weight; रत्नसारफल्गुकुप्यानामर्घप्रतिवर्णक- प्रतिमानमानोन्मानावमानभाण्डम् Kau. Ā.2.7.25.

The part of an elephant's head between the tusks and below the वाहित्थ; Mb.8.28.38; also 6.46.29; पृथुप्रतिमानभाग &c. Śi.5.36, Mātaṅga L.5.7;6.8.

A reflection.

A picture.

Ved. An adversary.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिमान/ प्रति- n. a counterpart , well-matched opponent , adversary RV.

प्रतिमान/ प्रति- n. a model , pattern MBh. BhP.

प्रतिमान/ प्रति- n. an image , picture , idol L.

प्रतिमान/ प्रति- n. comparison , likeness , similarity , resemblance MBh. Ma1lati1m.

प्रतिमान/ प्रति- n. a weight Vishn2. Ya1jn5. (See. प्रती-म्)

प्रतिमान/ प्रति- n. = -भागMBh.

"https://sa.wiktionary.org/w/index.php?title=प्रतिमान&oldid=501687" इत्यस्माद् प्रतिप्राप्तम्