प्रतीक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतीकः, पुं, (प्रतीयते प्रत्येति वा इति । प्रति + इ + अलीकादयश्चेति ईकन्प्रत्ययेन साधुः ।) एकदेशः । अङ्गम् । (यथा, ऋग्वेदे । ७ । ३६ । १ । “वि सानुना पृथिवी सस्र उर्व्वी पृथु प्रतीक मध्येधे अग्निः ॥” “तथाग्निः पृथु विस्तीर्णं प्रतीकं पृथिव्या अव- यवम् ॥” इति तद्भाष्ये सायनः ॥) स्वाङ्गवाद्य- निषेधो यथा, कौर्म्मे १५ अध्याये । “न स्वाङ्गनखवाद्यं वै कुर्य्यान्नाञ्जलिना पिबेत् ॥” अपि च, लक्ष्मीचरित्रे । “स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशव- स्यापि लक्ष्मीम् ॥” प्रतिकूले, त्रि । इत्यमरः । १ । ६ । ७० ॥ विलोमः । इति मेदिनी । के, ११२ ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतीक पुं।
देहावयवः
समानार्थक:अङ्ग,प्रतीक,अवयव,अपघन
2।6।70।1।2
अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्. गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः॥
: गर्भवेष्टनचर्मः, ग्रीवा, अन्त्रम्, स्नायुः, अस्थिः, पादाग्रम्, पादग्रन्थी, पादपश्चाद्भागः, जङ्घा, जानूरुसन्धिः, जानूपरिभागः, ऊरुसन्धिः, नाभ्यधोभागः, कटीफलकः, कटिः, स्त्रीकट्याः_पश्चाद्भागः, स्त्रीकट्याः_अग्रभागः, स्त्रीयोनिः, पुरुषलिङ्गः, अण्डकोशः, जठरम्, वक्षोजः, स्तनाग्रः, अङ्कः, उरस्, भुजशिरः, अंसकक्षसन्धिः, कक्षः, भुजः, कूर्परः, कूर्परोपरिभागः, कूर्परयोरधः_मणिबन्धपर्यन्तभागः, करबहिर्भागः, अङ्गुली, नखः, स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्, ग्रीवाग्रभागः, ग्रीवायामुन्नतभागः, वदनम्, ओष्ठाधोभागः, कपोलः, कपोलाधोभागः, दन्तः, तालुः, ओष्ठप्रान्तः, भालः, नेत्रोपरिभागस्थरोमराजिः, भ्रूमध्यम्, नेत्रकनीनिका, नेत्रप्रान्तः, शिरः, रोमः, ललाटास्थिः, अन्तर्जठरम्, रसरक्तादिः, अधोजिह्विका, अवयवविशेषः, नेत्रच्छदः, स्त्रीस्तनम्, वरस्त्रियाः_श्रोणी
पदार्थ-विभागः : अवयवः
प्रतीक पुं।
प्रतिकूलम्
समानार्थक:प्रसव्य,प्रतिकूल,अपसव्य,अपष्ठु,प्रतीक,वाम
3।3।7।2।1
किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः। प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम्.।
पदार्थ-विभागः : , द्रव्यम्
प्रतीक पुं।
एकदेशः
समानार्थक:प्रतीक
3।3।7।2।1
किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः। प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम्.।
पदार्थ-विभागः : , द्रव्यम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतीक¦ पु॰ प्रति + कन् नि॰ दीर्घः।
१ अवयवे अमरः।
२ प्रति-रूपे
३ विलोमे च मेदि॰ प्रतीकोपासनं च व्रह्मप्रतीकानामादित्यादीनां व्रह्मदृष्ट्युपासनं तच्च शा॰ सू॰ भा॰दर्शितं यथा
“न प्रतीके न हि सः” सू॰
“मनो ब्रह्मेत्युपासीतेत्य-ध्यात्ममथादिदैवतमाकाशी व्रह्म” (छा॰
३ ।
१८ ) इति,तथा
“आदित्यो ब्रह्मेत्यादेशः, (छा॰।
३
१९ ) स यो नामव्रह्मेत्युपास्ते” (छा॰।
७ ।
५ ) इत्येवभादिषु प्रतीकोपा-सनेषु सशयः, किमेष्वप्यात्मग्रहः कर्त्तव्यो न वेति। किं तावत् प्राप्तमेतेष्यप्यात्मग्रह इव युक्तः, कस्मात्,[Page4457-b+ 38] व्रह्मणः श्रुतिष्व त्मत्वेन प्रसिद्धत्वात्। प्रतीकानामपिब्रह्मविकारत्वात् व्रह्मत्वे सत्यात्मत्वोपपत्तेरित्येवं प्राप्तेब्रूमः। न प्रतीकेष्वात्ममतिं बध्नीयात्, न हि स उपा-सकः प्रतीकानि व्यस्तान्यात्मत्वेनाकलयेत्। यत्पुनर्ब्रह्म-विकारत्वात् प्रतीकानां ब्रह्मत्व ततश्चात्मत्वमिति। तदसत्प्रतीकाभावप्रसङ्गात्। विकारस्वरूपोपमर्देन हि ना-मादिजातस्य ब्रह्मत्वमेवाश्रितं भवति, स्वरूपोपमर्दे चनामादीनां कुतः प्रतीकत्वमात्मग्रहो वा। न च ब्रह्मणआत्मत्वात् ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या, कर्तृत्वा-द्यनिराकरणात्, कर्तृत्वादिसर्वसंसारधर्मनिराकरणेनहि ब्रह्मण आत्मत्वोपदेशस्तदनिराकरणेन चोपासनवि-धानम्, अतश्चोपासकस्य प्रतीकैः समत्वादात्मग्रहो नोप-पद्यते, न हि रुचकस्वस्तिकयोरितरेतरात्मत्वमस्ति, सु-वर्णात्मनैव तु ब्रह्मात्मत्वेनैकत्वे प्रतीकाभावप्रसङ्गमवो-चाम। अतो न प्रतीकेष्वात्मदृष्टिः क्रियते” भा॰
“ब्रह्म-दृष्टिरुत्कर्षात्” सू॰
“तेष्वेवोदाहरणेषु अन्यः संशयः,किमादित्यादिदृष्टयो ब्रह्मण्यध्यसितव्याः किंवा ब्रह्म-दृष्टिरादित्यादिष्विति। कुतः संशयः, सामानाधिकरण्येकारणानवधारणात्। अत्र हि ब्रह्मशब्दस्यादित्यादि-शब्दैः सामानाधिकरण्यमुपलभ्यते,
“आदित्यो ब्रह्मप्राणो ब्रह्म विद्युद्ब्रह्म” इत्यादिसमानविभक्तिनिर्दे-शात्। न चात्राञ्जसं सामानाधिकरण्यमवकल्पते अर्था-न्तरवचनत्वात् ब्रह्मादित्यादिशब्दानां, न हि भवतिगौरश्व इति सामानाधिकरण्यम्। ननु प्रकृतिविकार-भावात् ब्रह्मादित्यादीनां मृच्छरावादिवत् सामानाधि-करण्यं स्यात्, नेत्युच्यते, विकारप्रविलयोह्येवं प्रकृति-सामानाधिकरण्यात् स्यात्, ततश्च प्रतीकाभावप्रसङ्गम-वोचाम, परमात्मवाक्यञ्चेदन्तदानीं स्यात्, ततश्चोपासना-धिकारो बाध्येत, परिमितविकारोपासनञ्च व्यर्थम्। तस्मात् ब्राह्मणोऽग्निर्वैश्वानर इत्यादिवदन्यतरत्रान्यतर-दृष्ट्यध्यासे सति क्क किंदृष्टिरध्यस्यतामिति संशयःतत्रानियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्रा-प्तम्। अथ वादित्यादिदृष्टय एव ब्रह्मणि कर्त्तव्याइत्येवं प्राप्तम्। एवं हि आदित्यादिदृष्टिभिर्व्रह्मोपा-सनञ्च फलवदिति शास्त्रमर्य्यादा। तस्मात् न ब्रह्मदृष्टि-रादित्यादिष्वित्येवं प्राप्ते ब्रूमः। ब्रह्मदृष्टिरेवादित्या-दिषु स्यादिति। कस्मात् उत्कर्षात्, एवमुत्कर्षेणादित्या-दयो दृष्टा भवन्त्युत्कृष्टदृष्टेस्तेष्वध्यासात्। तथा च[Page4458-a+ 38] लौकिको न्यायोऽनुगतो भवति, उत्कृष्टदृष्टिर्हि निकृ-ष्टेऽध्यसितव्येति लौकिको न्यायः। यथा राजदृष्टिःक्षत्तरि, स चानुगन्तव्यो विपर्य्यये प्रत्यवायप्रसङ्गात्। न हि क्षत्तृदृष्टिपरिगृहीती राजा निकर्षं नीयमानःश्रेयसे स्यात्। ननु शास्त्रप्रासाण्यादनाशङ्कनीयीऽत्रप्रत्यवायप्रसङ्गः, न च लौकिकेन न्यायेन शास्त्रीया दृ-ष्टिर्नियन्तुं युक्तेति। अत्रोच्यते, निर्द्धारिते शास्त्रार्थेएतदेवं स्यात्, सन्दिग्धे तु तस्मिन् तन्निर्णयं प्रति लौ-किकोऽपि न्याय आश्रीयमाणो न विरुध्यते, तेन चोत्-कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्य्यमाणे निकृष्टदृष्टिमध्यस्यप्रत्यवेयादिति श्लिष्यते। प्राथम्याच्चादित्यादिशब्दानांमुख्यार्थत्वमविरोधात् ग्रहीतव्यम्। तैः खार्थवृत्तिभि-रवरुद्धायां बुद्धौ पश्चादवतरतो ब्रह्मशब्दस्य मुख्यवृत्त्यासामानाधिकरण्यासम्भवात् ब्रह्मदृष्टिविधानार्थतैवावति-ष्ठते। इतिपरत्वादपि ब्रह्मशब्दस्यैष एवार्थो न्याय्यः। तथा हि ब्रह्मेत्यादेशः ब्रह्मेत्युपासीत ब्रह्मेत्युपास्त इतिच सर्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति शुद्धांस्त्वादित्थादि-शब्दान्। ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्रशुक्तिवचन एव शुक्तिकाशब्दः रजतशब्दस्तु रजतप्रतीतिलक्षणार्थः प्रतीत्यैव हि केवलं रजतमिति न तु तत्ररजतमस्ति, एवमत्राप्यादित्यादीन् ब्रह्मेति प्रतीयादितिगम्यते। बाक्यशेषोऽपि च द्वितीयानिर्देशेनादित्यादी-नेवोपास्तिक्रियया व्याप्यमानान् दर्शयति
“स य एतदेषंविद्वानादित्यं ब्रह्मेत्युपास्ते” (छा॰।
३ ।
१९ )
“यो वाचंब्रह्मेत्युपास्ते” (छा॰
७ ।
५ ।
२ )
“यः सङ्कल्पं ब्रह्मेत्युपास्ते” (छा॰
७ ।
५ ।
२ ) इति। यत्तूक्तं ब्रह्मोपासनमेवात्रादरणीयंफसवत्त्वायेति, तदयुक्तं उक्तेन न्यायेनादित्थादीनामे-वोपास्यत्वावगमात्। फलन्त्वतिथ्याद्युपासन इवादित्या-द्युपासनेऽपि
“ब्रह्मैव दास्यति सर्वाध्यक्षत्वात्। वर्णितञ्चै-तत्,
“फलम् अत उपपत्तेः” इत्यत्र (वे॰ सू॰।
३ ।
२ ।
३८ )। ईदृशञ्चात्र ब्रह्मण उपास्यत्वं यत्प्रतीकेषु तदृष्ट्यध्यारो-पणं प्रतिमादिष्विव विष्ण्वादीनाम्”। तत्फलविशेषोऽपि तत्र निर्णीतो यथा
“अप्रतीकालम्बनान्नयतीति वादरायण उभयथाऽदोषात्तत्क्रतुश्च” सू॰
“स्थितमेतत् कार्यविपया गतिर्न पर-विषयेति। इदमिदानीं सन्दिह्यते, किं सर्वान् विका-राकम्बनानविशेषेणैवामानवः पुरुवः प्रापयति ब्रह्मलोकमुत कांश्चिदेवेति। किं तावत् प्राप्तं सर्वसामेवैषां विदु-[Page4458-b+ 38] षामन्यत्र परस्मात् ब्रह्मणो गतिः स्यात्। तथा हि
“अनियमः सर्वासाम्” इत्यत्राविशेषेणेवैषा विद्यान्तरेष्व-वतारितेत्येवं प्राप्ते प्रत्याह अप्रतीकालम्बनानिति। प्रतीकालम्वनान् वर्जयित्वा सर्वानन्यान् विकारालम्ब॰नान्नयति ब्रह्मलोकमिति वादरायण आचार्य्यो मन्यते। न ह्येवमुभयथाभावाभ्युपगमे कश्चित् दोषोऽस्ति। अनि-यमन्यायस्य प्रतीकव्यतिरिक्तेष्वप्युपासनेषूपपत्तेः। तत्-क्रतुश्चास्योभयथाभावस्य समर्थकी हेतुर्द्रष्टव्यः। योहि व्रह्मक्रतुः स ब्राह्ममैश्वर्य्यमासीदेदिति श्लिष्यते
“तंयथा यथीपासते तदेव भवन्ति” इति श्रुतिः। न तुप्रतीकेषु व्रह्मक्रतुत्वमस्ति प्रतीकप्रधानत्वादुपासनस्य। नन्वब्रह्मक्रतुमानपि ब्रह्म गच्छतीति श्रूयते” यथा पञ्चा-ग्निविद्यायाम्
“स एतान् ब्रह्म गमयति” इति। भवतुयत्रैवमपवाद उपलभ्यते, तदभावे त्वौत्सर्गिकेनं तत्क्रतु-न्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिर्नेतरेषामिति मन्यते” भा॰
“विशेषञ्च दर्शयति” सू॰
“नामादिष्र प्रतीकोपासनेषु पूर्व-स्मात् पूर्वस्मात् फलविशेषमुत्तरस्मि नुत्तरस्मिन्नुपासने दर्श-यति
“यावन्नाम्नो गतं तत्रास्य यथा कामचारो भवति”
“वाग्वाव नाम्नो भूयसी यावद्वाचो गतं तत्रास्य यथाकामचारो भवति”
“मनो वाव वाचो भूयः” इत्यादिना। स चायं फलविशेषः प्रतीकतन्त्रत्वादुपासनानामुपपद्यते,ब्रह्मतन्त्रे तु व्रह्मणोऽविशिष्टत्वात् कथं फलविशेषः स्यात्। तस्मान्न प्रतीकालम्बनानामितरैस्तु ल्यफलत्वमिति” भा॰। वसुनृपस्य
४ पुत्रभेदे भाग॰
९ ।
२ ।
१३
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतीक¦ mfn. (-कः-का-कं)
1. Contrary, adverse.
2. Inverted, reversed, against the natural order or state.
3. Directed towards. m. (-कः)
1. A limb, a member.
2. A part, a portion n. (-कं)
1. the face.
2. The front.
3. An image.
4. The first word of a verse or sentence. E. प्रति before, ई to go, ईकन् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतीक [pratīka], a.
Directed or turned towards.
Inverted, reverse.
Contrary, unfavourable, adverse.
कः A limb, member; अप्राणद्भिः प्राणभाजां प्रतीकैः Śi.18.79.
A part, portion.
कम् An image.
Mouth, face.
The front (of anything).
The first word (of a verse, sentence &c.).
A lamp; L. D. B.
A symbol.
A copy. -Comp. -दर्शनम् a symbolic conception.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रतीक See. p. 675 , col. 1.
प्रतीक mf( आ)n. (for प्रत्य्-अक; See. अनूक, अपाक, अभीक)turned or directed towards
प्रतीक mf( आ)n. ( ifc. )looking at BhP.
प्रतीक mf( आ)n. (prob.) going uphill MBh.
प्रतीक mf( आ)n. adverse , contrary , inverted , reversed L.
प्रतीक n. exterior , surface RV.
प्रतीक n. outward form or shape , look , appearance , face(See. घृत-प्, चारु-प्, त्वेष-प्) ib. Nir.
प्रतीक n. the face ( esp. the mouth) RV. S3Br. Pa1rGr2.
प्रतीक n. the front MW.
प्रतीक n. an image , symbol ChUp. Sch.
प्रतीक n. a copy Va1m.
प्रतीक n. (also m. )the first part (of a verse) , first word Br. etc.
प्रतीक m. a part , portion , limb , member L. (See. प्रति-प्र्, p. 662 , col. 2)
प्रतीक m. N. of a son of वसुand father of ओघ-वत्BhP.
प्रतीक m. of a son of मरुVP.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the son of Vasu and father of Oghavan and ओघवती; फलकम्:F1: भा. IX. 2. १८.फलकम्:/F the गोदावरि split herself, out of fear of him. फलकम्:F2: M. २२. ५८.फलकम्:/F
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PRATĪKA : Son of a King called Vasu. (9th Skandha, Bhāgavata).
_______________________________
*13th word in right half of page 604 (+offset) in original book.