प्रत्यभिज्ञा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यभिज्ञा¦ स्त्री प्रतिगता अभिज्ञाम् अत्या॰ स॰।
१ अभिज्ञा-नुरूपे तज्जन्यसंस्कारसहकारेण जनिते प्रत्यक्षभेदे यथासोऽयं देवदत्त इत्यादि। तत्स्वरूपादिकं विवरणप्रमेयसंग्रहे निर्णीतं यथा
“ननु केयं प्रत्यभिज्ञा नाम न तावदेकस्यातीतवर्त्तमानका-लद्वयसम्बन्धविषयं प्रत्यक्षज्ञानं प्रत्यभिज्ञा, प्रत्यक्षज्ञानस्यवर्त्तमानमात्रार्थग्राहित्वात्। पूर्वानुभवसंस्कारसहि-तादिदानीन्तनवस्तुप्रमितिकारणाज्जातस्य तस्य तथात्व-मिति चेत् एवमप्यात्मनि सोऽहमिति प्रत्यभिज्ञा नसिद्धेत् नित्ये स्वयप्रकाशे तस्मिन् संस्कारसय जन्य-ज्ञानस्य वाऽसम्भवात्। नाषि स्वरूपज्ञानमेव प्रत्यभिज्ञा-तस्य प्रदीपप्रभावत् वर्त्तेमानार्थप्रकाशिनः पूर्वापरपरामर्शा-त्मकत्वायोगात्, अस्मन्मते तु सोऽहमित्याकारद्वयोपप्लुतंज्ञानद्वयमेतन्न प्रत्यभिज्ञा। तस्मादनया दुनिरूपया प्रत्यभि-ज्ञया कथमैक्यसिद्धिः। उच्यते। केवले चिदात्मनि जन्य-ज्ञानतत्संस्कारयोरसम्भवेऽत्यन्तः करणविशिष्टे तत्सम्भ-वादुक्ता प्रत्यभिज्ञा किं न स्यात्। न च विशिष्टस्य प्रत्यभि-ज्ञाविषयत्वे तस्यैव प्रत्यभिज्ञातृत्वमपीति कर्मकर्त्तृविरोधःशङ्कनीयः, सर्ववादिनां देहव्यतिरिक्ताद्यनुमानविषयत-यात्मनि कर्मकर्तृभावस्य संप्रतिपन्नत्वात्। अथ मतं नानु-मानादौ विषयस्य कर्मकारकत्वम् अतीतादेस्त्वनुमाने वि-षयस्याविद्यमानस्य ज्ञानजनकत्वायोगात् विषयत्वन्त्व-विद्यमानस्यापि कथञ्चित् सम्भविष्यति ज्ञानस्य तदाकार-त्वात् अतोऽनुमानादौ कर्तृत्वमेवात्मनः, प्रत्यक्षे तु विष-यस्य ज्ञानजनकतया कर्मकारकत्वम् अतो विरोधस्तदवस्थइति मैवम् अन्तःकरणविशिष्टतयैवात्मनः प्रत्यभिज्ञातृत्वंपूर्वापरकालविशिष्टतया च प्रत्यभिज्ञेयत्वमित्युषाधिभेदेना-विरोधात्। किमेतावता प्रयासेन प्रत्यभिज्ञैव मा भूदितिचेत् न, सोऽहमिति प्रत्यभिज्ञायाः स्वानुभवसिद्धत्वात्अविसंवादित्वेन च भ्रान्तित्वायोगात्। यदुक्तं सोऽह-मित्याकारद्वयोपप्लुतं ज्ञानद्वयमिति तदसत् तथ सतिविज्ञानं क्षणिकमित्यत्रापि ज्ञानद्वयप्रसङ्गेन विज्ञानस्यघणिकत्वासिद्धिप्रसङ्गात्। विज्ञानमात्रवादिनां क्षणिक-खादिधर्मा अवास्तवाएवेति चेत् तर्हि स्यायित्पादिधर्माएव[Page4461-b+ 38] वास्तवा उपादीयन्तां सोऽहमित्याद्यानुभवानुसारित्वात्। यच्च प्राभाकरा मन्यन्ते सोऽहमितिप्रत्यमिज्ञायां विषय-त्वेनाश्रयोनात्मा सिद्ध्यति किं तर्हि सोऽयं घट इत्यादिप्रत्यभिज्ञाश्रयत्वेनेति, तदयुक्तं पूर्वापरकालविशिष्टस्यक्षणमात्रवृत्तिप्रत्यभिज्ञाश्रयत्वासम्भवेन प्रत्यभिज्ञया स्था-यित्वासिद्धिप्रसङ्गात्। अथ मतं मम संवेदनं जातमितिइदानीमनुस्मर्य्यमाणा पूर्वकालीना घटादिसंवित् खाश्रयंतदानीन्तनमात्मानं साधयति स्मृतिश्च स्वाश्रयमिदानी-न्तनमात्मानं साधयति ततश्च स्थाय्यात्मसिद्धिः न पुनरप्र-माणिकं सोऽहमित्यात्मविषयकं प्रत्यभिज्ञानं किञ्चित् क-ल्पनीयमिति चेत् नैतत् सारम् स्मृतिपूर्वानुभवौ ह्यभिज्ञाद्वयवत्ततकालीनमात्मानं यद्यपि साधयतः तथाप्येकस्या-त्मनः कालद्वयसम्बन्धो न केनापि सिध्यति। संविद्-द्वयमेव सम्बन्धस्यापि साधकमिति चेत् तर्हि तथैव घटा-दिष्वपि स्थायित्वसिद्धौ तत्सिद्धये प्रत्यभिज्ञा नापेक्ष्येत। दार्ढ्याय प्रत्यभिज्ञेति चेत् एवमपि प्रकृते संविद्द्वयं किंसाक्षात्सम्बन्धस्य साधकसुत प्रत्यभिज्ञामुत्पाद्य, आद्यन तावदेकैकं तत्साधकम् एकैकस्य कालद्वयविशिष्टात्म-न्यनाश्रितत्वात् नापि संभूय तत्साधकम्, अतीतानु-भवस्य वर्त्तमानस्मृतेश्च यौगपद्यायोगात्। द्वितीये स्था-य्यात्मविषयं सोऽहमिति प्रत्यभिज्ञानं त्वयैवाङ्कीकृतंस्यात्। न च वाच्यं क्वचिदपि न ज्ञानविषयत्वमात्मन-स्तत्कथं प्रत्यभिज्ञाविषयत्वमिति। मम संवेदनं जात-मिति स्मृतिज्ञानविषयत्वात् यद्यप्यनेन स्मृतिज्ञानेनस्वोत्पत्तिकालीन आत्मा स्वाश्रयत्वेनैव प्रकाश्यते नविषयत्वेन तथापि स्मर्य्यमाणसंवेदनाश्रयभूतस्ततसंवेदन-कालीन आत्मा विषयीक्रियत एव। अथोच्यते स्मृत्यासंवेदनमेव विषयीक्रियते तच्च संवेदनं स्मृतं सत् स्वा-श्रयमात्मानमाश्रतयैव प्रत्यायिष्यतीति तदसत् स्मृति-काले संवेदनस्याविद्यमानस्य स्वाश्रयसाधकत्वायोगात्। स्वयंप्रकाशमानं हि संवेदनमाश्रयं साधयति न तुस्मृतिविषयतया परप्रकाश्यम् अन्यथा धर्भादीनामपिपरतः सिद्धानां स्वाश्रयात्मसाधकत्वप्रसङ्गात्। तस्मा-दतीतकालीन आत्मा स्मृतिविषय एवेत्यभ्युपेयम्। तथाचसोऽहमिति प्रत्यभिज्ञाप्यात्मानं विषयीकरिष्यतीति प्रा-भाकरैरप्यात्मविषयप्रत्यभिज्ञयैव संविदात्मना क्षणिकत्वंनिराकरणीयम्”।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यभिज्ञा [pratyabhijñā], 9 U.
To recognize; ततस्ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन् Rām.7.33.5.
To come to oneself, recover consciousness.
प्रत्यभिज्ञा [pratyabhijñā], 1 Knowing, recognition; सप्रत्यभिज्ञमिव मामव- लोक्य Māl.1.25.
(Phil.) A particular type of knowledge; ननु केयं प्रत्यभिज्ञा नाम न तावदेकस्यातीतवर्तमानकाल- द्वयसम्बन्धविषयं प्रत्यक्षज्ञानं प्रत्यमिज्ञा, प्रत्यक्षज्ञानस्य वर्तमानमात्रार्थ- ग्राहित्वात् Vivaraṇaprameya-samgraha. -Comp. -दर्शनम् Maheśvaraśāstra; a work on Śaiva philosophy.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रत्यभिज्ञा/ प्रत्य्-अभि- P. A1. -जानाति, -जानीते, to recognize , remember , know , understand MBh. Ka1v. etc. ; to come to one's self , recover consciousness Katha1s. : Caus. -ज्ञापयति, to recall to mind S3am2k.
प्रत्यभिज्ञा/ प्रत्य्- f. recognition Kap. Bha1sha1p. etc. ( ifc. ज्ञmfn. Das3. Ra1jat. )
प्रत्यभिज्ञा/ प्रत्य्- f. regaining knowledge or recognition (of the identify of the Supreme and individual soul) Sarvad.