सामग्री पर जाएँ

प्रत्यय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्ययः, पुं, (प्रति + इण् + भावकरणादौ यथा- यथं अच् ।) अधीनः । शपथः । ज्ञानम् । (यथा, गारुडे २३६ अध्याये । “जाग्रत्संस्कारसम्भूतः प्रत्ययो विषयान्वितः ॥”) विश्वासः । (यथा, कुमारे । ४ । ४५ । “इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम् । तत्प्रत्ययाच्च कुसुमायुधबन्धुरेना- माश्वासयत् सुचरितार्थपदैर्वचोभिः ॥”) हेतुः । (यथा, रघुः । १० । ३ । “अतिष्ठत् प्रत्ययापेक्षसन्ततिः स चिरं नृपः ॥”) रन्ध्रम् । शब्दः । इत्यमरः । ३ । ३ । १४७ ॥ प्रथितत्वम् । आचारः । इति मेदिनी । ये, ८९ ॥ निश्चयः । (यथा, मनुः । ८ । २५३ । “यदि संशय एव स्यात् लिङ्गानामपि दर्शने । साक्षिप्रत्यय एव स्यात् सीमावादविनिर्नयः ॥”) स्वादुः । इति हेमचन्द्रः ॥ प्रकृत्युत्तरजायमानः । वोपदेवेनास्य त्यसंज्ञा कृता । प्रत्याययन्तीति सुप्तिङ्कृत्तद्धिताः प्रत्ययाः । इति संक्षिप्तसार- व्याकरणम् ॥ (यथा, रघुः । ११ । ५६ । “ता नराधिपसुता नृपात्मजै- स्ते च ताभिरगमन् कृतार्थताम् । सोऽभवद्वरबधूसमागमः प्रत्ययप्रकृतियोगसन्निभः ॥”) सहकारी । इति त्रिकाण्डशेषः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यय पुं।

अधीनः

समानार्थक:अधीन,निघ्न,आयत्त,अस्वच्छन्द,गृह्यक,प्रत्यय,वक्तव्य

3।3।148।1।1

प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु। रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

प्रत्यय पुं।

ज्ञानम्

समानार्थक:दृष्टि,संविद्,प्रत्यय,दृश्

3।3।148।1।1

प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु। रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः॥

वैशिष्ट्य : ज्ञानशीलः

 : संशयज्ञानम्, अतस्मित्तज्ज्ञानम्, आद्यज्ञानम्, प्रकृतिपुरुषभेदज्ञानम्, इन्द्रियज्ञानम्, प्रमाज्ञानम्, अर्थादिदर्पाज्ञानम्

पदार्थ-विभागः : , गुणः, बुद्धिः

प्रत्यय पुं।

कारणम्

समानार्थक:हेतु,कारण,बीज,प्रमाण,निमित्त,प्रत्यय,इति,हि,यत्_तत्,यतः_ततः

3।3।148।1।1

प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु। रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः॥

 : मुख्यकारणम्

पदार्थ-विभागः : कारणम्

प्रत्यय पुं।

रन्ध्रम्

समानार्थक:प्रत्यय

3।3।148।1।1

प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु। रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

प्रत्यय पुं।

शब्दः

समानार्थक:शब्द,निनाद,निनद,ध्वनि,ध्वान,रव,स्वन,स्वान,निर्घोष,निर्ह्राद,नाद,निस्वान,निस्वन,आरव,आराव,संराव,विराव,रण,प्रत्यय,तुमुल,घोष

3।3।148।1।1

प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु। रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः॥

 : मेघध्वनिः, वज्रध्वनिः, अपशब्दः, उदात्तस्वरः, प्रीतिविशेषजनितमुखकण्ठादिशब्दः, शोकादिना_विकृतध्वनिः, रतिसमयकूजितम्, वस्त्रपर्णध्वनिः, भूषणध्वनिः, वीणादिध्वनिः, बहुभिः_कृतः_महाध्वनिः, पक्षिशब्दः, प्रतिध्वनिः, सूक्ष्मध्वनिः, अव्यक्तमधुरध्वनिः, गम्भीरध्वनिः, अत्युच्चध्वनिः, गीतवाद्यलयसाम्यध्वनिः, नीचां_प्रत्याह्वानः, चेडीं_प्रत्याह्वानः, सखीं_प्रत्याह्वानः, अश्वशब्दः, धनुषः_शब्दः, काकादिवद्रूक्षस्वरः, कृतशब्दः, ग्रामशब्दादिः, हस्तिगर्जनम्

पदार्थ-विभागः : , गुणः, शब्दः

प्रत्यय पुं।

शपथः

समानार्थक:शपन,शपथ,प्रत्यय,समय,सत्य

3।3।148।1।1

प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु। रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः॥

पदार्थ-विभागः : , गुणः, शब्दः

प्रत्यय पुं।

विश्वासः

समानार्थक:विस्रम्भ,विश्वास,प्रत्यय

3।3।148।1।1

प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु। रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यय¦ पु॰ प्रति + इण--भावकरणादौ अच्।

१ अधीने

२ श-पथे

३ ज्ञाने

४ विश्वासे प्रामाण्येन निश्चये

५ हेतौ

६ छिद्रे

७ शब्दभेदे अमरः।

८ आचारे

९ ख्यातौ मेदि॰।

१० नि-श्चये

११ स्वादुनि हेमच॰

१२ सहकारिकारणे त्रिका॰। शब्दभेदप्रत्ययलक्षणन्तु शब्दश॰ प्रका॰ उक्तं यथा
“लाघ-वादन्यथा निर्वक्ति
“इतरार्थानवच्छिन्ने स्वार्थे यो बोध-नाक्षमः। तिङर्थस्य निभाद्यन्यः स वा प्रत्यय उच्यते”। यः शब्दः शब्दान्तरार्थाविशेषिते यादृशस्वार्थे धर्मिणितिङर्थ स्यान्वयवोधने स्वरूपायोगृ स वा निभादिशब्देभ्योमिन्नस्तादृशार्थे प्रत्यय इत्यर्थः। चैत्रोऽस्तीत्यादावर्थान्त-[Page4464-b+ 38] रानवच्छिन्ने स्वार्थे नाम्नां तिङर्थान्वयबोधकत्वम्। एवंयजेत स्थीयेतेत्यादौ यजादिधातूनाम्। पचतीत्यादौ तिङांपाचकोऽस्तीत्यादौ कृतां काश्यपिरित्यादौ च तद्धिता-नाम् प्रकृत्यर्थावच्छिन्ने एव स्वार्थे कृत्यादौ तिङर्थस्यवर्त्तमानत्वादेर्बोधकत्वं न तु तदनवच्छिन्न इति न तेष्वप्र-{??}ङ्गः। निभनिपातादिकस्तु शब्दान्तरार्थानवच्छिन्नेसदृशसमुच्चयादिखार्थे तिङर्थास्यान्वयं प्रति स्वरूपायी-ग्योऽपि निभादिरेवेति न तत्र प्रसङ्गः”। वैयाकरणमते तु अस्माभिस्तल्लक्षणं शब्दार्थरत्नेउक्तं यथा
“प्रत्ययस्तु प्रकृतिमवधीकृत्य विधीयमानः स्वार्थवोधकःशब्दविशेषः प्रकृतिशब्ददर्शितभाष्योक्तेः।
“स्वीयमर्थं प्रत्या-यतीति” प्रत्ययलक्षणे भाष्योक्तेश्च तथैवावगम्यते। अव-धिश्च पूर्वापररूपो ग्राह्यः तेन बहुचि नाप्रसङ्गः तस्यापिप्रकृत्यवधिकत्वेन विधीयमानत्वात्। सिद्धान्ते तु वृत्तिश-ब्दानां समुदायशक्तिस्वीकारेण बहुजादेर्निरर्थकतया मु-ख्यप्रत्ययत्वाभावादेव पूर्बत्वरूपावधित्वप्रवेशेऽपि न क्षतिः। अतएव प्रकृतिशब्दोक्तहरिकारिकायां
“प्रत्ययः पर” इत्यनेनपरत्वेन विधीयमानत्वं प्रत्ययत्वमुक्तं तस्य च मुख्यत्वद्यो-तनार्थं स्वार्थकत्वसाकाङ्क्षत्वकथनाय च इतरत् द्विशेषणम्तथा च तदर्थान्वितस्वार्थबोधने तदपेक्षत्वे सति तदव-धिकत्वेन विधीयमानत्वं तत्प्रत्ययत्वमिति फलितोऽर्थः। अन्वितत्वञ्च विशेष्यतया विशेषणतया वा ग्राह्यं तेनतिङा धात्वर्थविशेष्यकान्वयस्य बोधकत्वेऽपि न क्षतिः। यदि चावयवशक्तिस्वीकारस्तदा परपदेनावधिमात्रं लक्ष-णीयम् अवधिश्च पूर्वापरान्यतरएव निबेशनीयः। एवञ्चप्रत्ययनिमित्तकप्रकृत्यङ्गकार्यविशेषे विकरणागमादीनांप्रत्ययत्वस्वीकारेण परत्वमात्रं प्रत्ययत्वमिति बोध्यम्। अथवा प्रत्यय इत्यधिकृत्या पञ्चमाध्यायसमाप्तेर्विधीय-मानत्वं प्रारिभाषिकप्रत्ययत्वं तत्रैव अर्थबोधकत्वे स-तीति विशेषणे मुख्यप्रत्ययत्वसामान्यलक्षण पर्व्यवस्यतितत्तत्प्रत्ययत्वन्तूक्तमेव। स्वार्थिकप्रत्ययानामपि प्रकृत्य-र्थानुवादितया स्वार्थबोधकत्वमतएवाभिहितं वाक्यपदीये
“स्वार्थिकाः प्रत्ययाः केचित् प्रकृत्यर्थानुबादिनः” इति। एतदनुरोधेनैव शेस्वरादौ स्वस्वप्रकृत्यर्थान्यतरप्रत्यायकत्वंप्रत्ययानामुक्तम्। विकरणादयः पुनः सर्वथा निरर्थकातेषां द्योतकत्वाद्यनङ्गीकारात् तद्व्यतिरेकेणापि कृदादौधातुमात्रादेवार्थप्रतीतेर्दर्शनात्। उक्तञ्च बाक्यपदीये
“यत्रवाऽव्यभिचारेण तयोः शक्तिप्रकल्पनम्। निश्चमस्तत्र[Page4465-a+ 38] नियमो न त्वेवं श्यन्शबादिष्विति”। यत्र ययोरव्यभिचारेणान्वयव्यतिरेकाभ्यां, नियमः अर्थप्रतीतिनिय-मस्तयोः प्रकृतिप्रत्यययोः शक्तिकल्पनम्। यत्र चैवं ननियमस्तत्र श्यन्शवादिषु नेत्यस्यावृत्त्या शक्तिकल्पनंनेत्यर्थः”।

१३ विष्णौ पु॰
“प्रत्ययः सर्वदर्शनः” विष्णुसं। तस्य ज्ञानरूपत्वात् तथात्वम् भाष्ये दृश्यम्। प्रत्ययश्चबुद्धिरात्मगुण इति नैयायिकाः। महत्तत्त्वधर्म इतिसांख्याः।
“एष प्रत्ययसर्गो विपर्य्ययाशक्तितुष्टीनाम्” सा॰ का॰।
“प्रतीयतेऽनेनेति प्रत्ययो बुद्धिस्तस्य सर्गः तत्रविपर्य्ययोऽज्ञानमविद्या च बुद्धिधर्मः अशक्तिरपि करणवै-कल्यहेतुका बुद्धिधर्म एव तुष्टिसिद्धो अपि वक्ष्यमाणेबुद्धिधर्मावेव, तत्र विपर्य्ययाशक्तितुष्टिषु कथायोगंसप्तानां धर्मादीनां ज्ञानवर्जमन्तर्भावः सिद्धौ च ज्ञान-स्येति” त॰ कौ॰। कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति न्यायात् सर्गपदं सृज्यमानपरं तथा चाविद्या-देर्बुद्धिधर्मत्वात् तत्सृष्टत्वम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यय¦ m. (-यः)
1. Trust, faith, belief, confidence.
2. Oath, ordeal.
3. Cause, motive.
4. Usage, custom, practice.
5. Fame, celebrity.
6. Certainty, ascertainment.
7. Knewledge, apprehension.
8. A termination or an affix to roots and words forming derivatives and inflections, (in Gram.)
9. A dependent, a subject,
10. Instrument, means of agency, a helpmate or associate, applicable either to persons or things.
11. A householder who keeps a sacred fire.
12. Religious contemplation.
13. A hole. E. प्रति again, against, to or towards, इण् to go, aff. अच् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्ययः [pratyayḥ], 1 Conviction, settled belief; मूढः परप्रत्ययनेयबुद्धिः; M.1.2; संजातप्रत्ययः Pt.4.

Trust, reliance, faith, confidence; रक्षन् प्रत्ययमात्मनः Rām.3.9.19; बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः Ś.1.2; Ku.6.2; Śi.18.63; Bh.3.6; प्रत्ययार्थं हि लोकानामेवमेव मया कृतम् Abhiṣeka. 6.29.

Conception, idea, notion, opinion.

Surety, certainty; प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा Rām.7.45. 7.

Knowledge, experience, cognition; स्थानप्रत्ययात् Ś.7 'judging by the place'; so आकृतिप्रत्ययात् M.1; Me.8.

A cause, ground, means of action; स्वकर्म- प्रत्ययाँल्लोकान् मत्वा$र्जुनमब्रवीत् Mb.13.1.77; अपेक्षते प्रत्ययमुत्तमं त्वाम् Ku.3.18.

Celebrity, fame, renown.

A termination, an affix or suffix; केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि Śi.14.66.

An oath.

A dependant.

A usage, practice.

A hole.

Intellect, understanding (बुद्धि).

An assistant or associate.

An epithet of Viṣṇu; नामरूपे भगवती प्रत्यय- स्त्वमपाश्रयः Bhāg.6.19.14.

(With Buddhists) A co-operating cause.

An instrument, a means of agency.

Religious contemplation.

A householder who keeps a sacred fire.

Function of the organs (इन्द्रियवृत्ति); सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे Bhāg.8.3. 14. -Comp. -कारकः, -कारिन् a. producing assurance, convincing. (-णी) a seal, signet-ring.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्यय m. belief firm conviction , trust , faith , assurance or certainty of( gen. loc. or comp. )

प्रत्यय m. proof , ascertainment Mn. MBh. etc. ( प्रत्ययं-गम्, to acquire confidence , repose -cconfidence in MBh. ; अस्त्य् अत्र प्रत्ययो मम, that is my conviction Katha1s. ; कह् प्रत्ययो ऽत्र, what assurance is there of that? ib. )

प्रत्यय m. conception , assumption , notion , idea Ka1tyS3r. Nir. S3am2k. etc.

प्रत्यय m. (with Buddhists and जैनs) fundamental notion or idea(633622 -त्वn. ) Sarvad.

प्रत्यय m. consciousness , understanding , intelligence , intellect (in सांख्य= बुद्धि)

प्रत्यय m. analysis , solution , explanation , definition L.

प्रत्यय m. ground , basis , motive or cause of anything MBh. Ka1v. etc. (in med.)= निमित्त, हेतुetc. Cat.

प्रत्यय m. (with Buddhists) a co-operating cause

प्रत्यय m. the concurrent occasion of an event as distinguished from its approximate cause

प्रत्यय m. an ordeal Ka1ty.

प्रत्यय m. want , need Ka1ran2d2.

प्रत्यय m. fame , notoriety Pa1n2. 8-2 , 58

प्रत्यय m. a subsequent sound or letter Pra1t.

प्रत्यय m. an affix or suffix to roots (forming verbs , substantives , adjectives and all derivatives) Pra1t. Pa1n2.

प्रत्यय m. an oath L.

प्रत्यय m. usage , custom L.

प्रत्यय m. religious meditation L.

प्रत्यय m. a dependant or subject L.

प्रत्यय m. a householder who keeps a sacred fire L.

प्रत्यय etc. See. p. 673 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=प्रत्यय&oldid=501985" इत्यस्माद् प्रतिप्राप्तम्