प्रत्ययः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्ययः, पुं, (प्रति + इण् + भावकरणादौ यथा- यथं अच् ।) अधीनः । शपथः । ज्ञानम् । (यथा, गारुडे २३६ अध्याये । “जाग्रत्संस्कारसम्भूतः प्रत्ययो विषयान्वितः ॥”) विश्वासः । (यथा, कुमारे । ४ । ४५ । “इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम् । तत्प्रत्ययाच्च कुसुमायुधबन्धुरेना- माश्वासयत् सुचरितार्थपदैर्वचोभिः ॥”) हेतुः । (यथा, रघुः । १० । ३ । “अतिष्ठत् प्रत्ययापेक्षसन्ततिः स चिरं नृपः ॥”) रन्ध्रम् । शब्दः । इत्यमरः । ३ । ३ । १४७ ॥ प्रथितत्वम् । आचारः । इति मेदिनी । ये, ८९ ॥ निश्चयः । (यथा, मनुः । ८ । २५३ । “यदि संशय एव स्यात् लिङ्गानामपि दर्शने । साक्षिप्रत्यय एव स्यात् सीमावादविनिर्नयः ॥”) स्वादुः । इति हेमचन्द्रः ॥ प्रकृत्युत्तरजायमानः । वोपदेवेनास्य त्यसंज्ञा कृता । प्रत्याययन्तीति सुप्तिङ्कृत्तद्धिताः प्रत्ययाः । इति संक्षिप्तसार- व्याकरणम् ॥ (यथा, रघुः । ११ । ५६ । “ता नराधिपसुता नृपात्मजै- स्ते च ताभिरगमन् कृतार्थताम् । सोऽभवद्वरबधूसमागमः प्रत्ययप्रकृतियोगसन्निभः ॥”) सहकारी । इति त्रिकाण्डशेषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्ययः [pratyayḥ], 1 Conviction, settled belief; मूढः परप्रत्ययनेयबुद्धिः; M.1.2; संजातप्रत्ययः Pt.4.

Trust, reliance, faith, confidence; रक्षन् प्रत्ययमात्मनः Rām.3.9.19; बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः Ś.1.2; Ku.6.2; Śi.18.63; Bh.3.6; प्रत्ययार्थं हि लोकानामेवमेव मया कृतम् Abhiṣeka. 6.29.

Conception, idea, notion, opinion.

Surety, certainty; प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा Rām.7.45. 7.

Knowledge, experience, cognition; स्थानप्रत्ययात् Ś.7 'judging by the place'; so आकृतिप्रत्ययात् M.1; Me.8.

A cause, ground, means of action; स्वकर्म- प्रत्ययाँल्लोकान् मत्वा$र्जुनमब्रवीत् Mb.13.1.77; अपेक्षते प्रत्ययमुत्तमं त्वाम् Ku.3.18.

Celebrity, fame, renown.

A termination, an affix or suffix; केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि Śi.14.66.

An oath.

A dependant.

A usage, practice.

A hole.

Intellect, understanding (बुद्धि).

An assistant or associate.

An epithet of Viṣṇu; नामरूपे भगवती प्रत्यय- स्त्वमपाश्रयः Bhāg.6.19.14.

(With Buddhists) A co-operating cause.

An instrument, a means of agency.

Religious contemplation.

A householder who keeps a sacred fire.

Function of the organs (इन्द्रियवृत्ति); सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे Bhāg.8.3. 14. -Comp. -कारकः, -कारिन् a. producing assurance, convincing. (-णी) a seal, signet-ring.

"https://sa.wiktionary.org/w/index.php?title=प्रत्ययः&oldid=343891" इत्यस्माद् प्रतिप्राप्तम्