सामग्री पर जाएँ

प्रत्याहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याहारः, पुं, (प्रति + आ + हृ + भावे घञ् ।) स्वस्वविषयेभ्य इन्द्रियाकर्षणम् । तत्पर्य्यायः । उपादानम् २ । इत्यमरः ॥ प्रत्याहरणम् ३ । इति शब्दरत्नावली ॥ स च योगाङ्गविशेषः । यथा, “प्रत्याहारश्च तर्कश्च प्राणायामस्तृतीयकः । समाधिर्धारणं ध्यानं षडङ्गो योगसंग्रहः ॥” इति तट्टीकायां भरतः ॥ प्रत्याहारमाह । “शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्य्याच्चित्तान्तकारीणि प्रत्याहारपरायणः ॥” इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥ अपि च । “इन्द्रियाणीन्द्रियार्थेभ्यः समाहृत्य स्थितो हि सः । मनसा सह बुद्ध्या च प्रत्याहारेषु संस्थितः ॥” इति गारुडे २४० अध्यायः ॥ (यथा च पातञ्जले साधनपादे । “यमनियमासनप्राणायामप्रत्याहारधारणा- ध्यानसमाधयोऽष्टावङ्गानि ॥” २९ ॥ “स्वस्वविषयसंप्रयोगाभावे चित्तस्वरूपानुकार इन्द्रियाणां प्रत्याहारः ॥” ५४ ॥) अल्पेन बहूनां ग्रहणम् । यथा, अच् इति द्व्यक्षरेण सर्व्वस्वराणां ग्रहणम् । इति भरतः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याहार पुं।

इन्द्रियाकर्षणम्

समानार्थक:प्रत्याहार,उपादान

3।2।16।2।1

अपहारस्त्वपचयः समाहारः समुच्चयः। प्रत्याहार उपादानं विहारस्तु परिक्रमः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याहार¦ पु॰ प्रति + आ + हृ--भावे घञ्। चित्तेन्द्रियादेःविषयेभ्यो निवारणे योगाङ्गभेदे तल्लक्षणं च अष्टाङ्गयोगशब्द

५२

४ पृ॰ उक्तं तत्कालमानञ्च
“प्राणायामाद्वषट् केनप्रत्याहार उदाहृतः” काशीख॰

४१ अ॰ उक्तम्।
“स्वविष-याऽसम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्या-हारः” पात॰ सू॰
“स्वविषयसम्प्रयोगाभावे चित्तस्वरूपानुकारइवेति चित्तनिरोधे चित्तवन्निरुद्धानीन्द्रियाणि नेतरे-न्द्रियजयवदुपायान्तरमपेक्षन्ते। यथा मधुकरराज म-क्षिका उत्पतन्तमनूत्पतन्ति निविशमानमनुविशन्ते तथेन्द्रियाणि चित्तनिरोधे निरुद्धानीत्थेष प्रत्याहारः” भा॰।
“ततः परमा वश्यतेन्द्रियाणाम्” पात॰ सू॰ शब्दादिष्वव्यसनमिन्द्रिवजय इति केचित् शक्तिर्व्यसनं व्यस्यत्येनंश्रेयस इति अविरुद्धा प्रतिपत्तिर्न्याय्या शब्दादिसम्प्रयोगःस्वेच्छयेत्यन्ये रागद्वेषाभावे सुखदुःखशून्यं शब्दादि-ज्ञानमिन्द्रियजय इति केचित् चित्तैकाग्र्यादप्रवृत्ति-रेवेति जैगीषव्यः। ततश्च परमा त्वियं वश्यता यच्चित्त-निरोधे निरुद्धानीन्द्रियाणि नेतरेन्द्रियजयवत् प्रत्यत्नकृत-मुपायान्तरमपेक्षन्ते योगिनः इति” भा॰। अत्र चित्तस्यैव प्रत्थाहारेऽन्येन्द्रियस्य प्रत्याहारोऽर्थसिद्धइति बोध्यम् तत्फलञ्च। मनुना उक्तम्
“प्रत्याहारेणसंसर्गान् ध्यानेनानीश्वराम् गुणान्”। प्रत्याह्रियन्ते सं-क्षिप्य गृह्यन्ते वर्णां अनेन प्रति + आ + हृ--करणे घञ्।
“आदिरन्त्येन सहता” पा॰ सूत्रेण

२ कृतसंज्ञायां चयथा
“अण इति अ इ उ इति वर्णानां ग्रहणम् एवंसुप् तिङप्रभृतिष्वपि स्वादीनां तिबादीनाञ्च ग्रहण-मिति।
“प्रत्याहारेष्वितां न ग्रहणमिति” तेन् अच् प्रत्या-हारे णकङचां न ग्रहणम् बोध्यम्। भावे घञ्।

३ उपादाने पु॰ अमरः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याहार¦ m. (-रः)
1. Abstraction, insensibility, restraining the organs so as to be indifferent to disagreeable or agreeable excitement, (in Yoga Phil.)
2. Abridgement, compendium.
3. (In gram. Combination of two or more letters of the alphabet to form a class of letters; the inclusion of a number of letters into one syllable effected by combining the first letter of a Su4tra with its final indicatory consonant:--as “अच्” or “हल्” in Pa4nini's gram.
4. Substitution of one thing for another.
5. Withholding.
6. Taking back.
7. March- ing back, retrating.
8. The dissolution of the world. E. प्रति and आङ् before, हृ to seize or convey, aff. घञ् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याहारः [pratyāhārḥ], 1 Drawing back, marching back, retreat.

Keeping back, withholding.

Restraining the organs; स्वविषया$संप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्या- हारः Pātañjala.

Dissolution of the world; प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गते$हनि Mb.12.233.1.

(In gram.) The comprehension of several letters or affixes into one syllable, effected by combining the first letter of a Sūtra with its final indicatory letter, or in the case of several Sūtras, with the final letter of the last member; thus अण् is the प्रत्याहार of the Sūtra अइउण्; अच् (vowels) of the four Sūtras अइउण्, ऋलृक्, एओङ्, ऐऔच्; हल् of the consonants; अल् of all letters.

Abridgment.

(In drama) N. of a particular part of the पूर्वरङ्ग.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्याहार/ प्रत्य्-आहार m. drawing back (troops from a battle) , retreat MBh.

प्रत्याहार/ प्रत्य्-आहार m. withdrawal ( esp. of the senses from external objects) , abstraction MBh. Mn. Pur. Veda7ntas. (See. IW. 93 )

प्रत्याहार/ प्रत्य्-आहार m. withdrawing (of created things) , re-absorption or dissolution of the world MBh.

प्रत्याहार/ प्रत्य्-आहार m. (in gram.) the comprehension of a series of letters or roots etc. into one syllable by combining for shortness the first member with the अनुबन्ध( s.v. )of the last member

प्रत्याहार/ प्रत्य्-आहार m. a group of letters etc. so combined (as अच्or हल्in the शिवसूत्रs) Pa1n2. 1-1 , 1 etc.

प्रत्याहार/ प्रत्य्-आहार m. (in dram. ) N. of a partic. part of the पूर्व-रङ्ग( s.v. ) Sa1h.

प्रत्याहार/ प्रत्य्-आहार m. speaking to , address( रं-कृ, with gen. , to speak to a person) Ka1ran2d2. (prob. w.r. for प्रव्याह्)

प्रत्याहार/ प्रत्य्-आहार m. sound ib. (prob. w.r. for id. )

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the stage of the dissolution or with- drawal of creation on the commencement of प्रलय at the end of Kali; then the primordial spirit (अव्यक्त) swallows that which is manifest (व्यक्त): waters swallow the गन्- ध quality of the earth thus plunging the earth in waters; then the रस quality of the waters gets merged in fire which spreads in all directions; the रूप quality of fire is in turn eaten away by wind; this permeates all the ten directions, both above and below; the स्पर्श quality of wind is swal- lowed by आकाशा; the शब्द (sound) quality of which is over- whelmed by भूत and other gross elements; the great souls absorb these (महा); seven प्रकृतिस् one covering the other. Br. II. 6. १४; IV. 3. 1-२१; वा. १०२. 1-2, 5.
(II)--a dharma of the yoga, ruins all विषयस् or sense pleasures. फलकम्:F1:  M. १८३. ५४. वा. १०. ७६ and ९३. Vi. VI. 7. ४५.फलकम्:/F The yogin sees God in himself. फलकम्:F2:  वा. ११. १८-9, ३०; १०१. २११; १०४. २४.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=प्रत्याहार&oldid=502060" इत्यस्माद् प्रतिप्राप्तम्