प्रदक्षिण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिणम्, क्ली, पुं, (प्रगतं दक्षिणमिति । “तिष्ठद्गु- प्रभृतीनि च ।” २ । १ । १७ । इति समासः ।) दक्षिणावर्त्तेन देवादिकमुद्दिश्य भ्रमणम् । यथा, “एकं देव्यां रवौ सप्त त्रीणि कुर्य्याद्बिनायके । चत्वारि केशवे कुर्य्यात् शिवे चार्द्धप्रदक्षिणम् ॥” इति कर्म्मलोचनम् ॥ सर्व्वदेवतातुष्टिदप्रदक्षिणं यथा, -- “प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः । दक्षिणं दर्शयन् पार्श्वं मनसापि च दक्षिणः ॥ सकृत्त्रिर्व्वा वेष्टयेत्ता देव्याः प्रीतिः प्रजायते । स च प्रदक्षिणो ज्ञेयः सर्व्वदेवौधतुष्टिदः ॥ सर्व्वान् कामान् समामाद्य पश्चान्मोक्षमवा- प्नुयात् ॥ मनसापि च यो दद्याद्देव्यै भक्त्या प्रदक्षिणम् । प्रदक्षिणाद्यमगृहे नरकाणि न पश्यति ॥” इति कालिकापुराणे ७० अध्यायः ॥ * ॥ अपि च । तन्त्रसारे । “दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्भवीम् ततश्च दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् ॥ अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समारितम् । शिवप्रदक्षिणे मन्त्री अर्द्धचन्द्रक्रमेण तु ॥ सव्यासव्यक्रमेणैव सोमसूत्रं न लङ्घयेत् ॥” सोमसूत्रं जलनिःसरणस्थानम् । “प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः । दर्शयेद्दक्षिणं पार्श्बं मनसापि च दक्षिणः ॥ त्रिधा च वेष्टयेत् सम्यक् देवतायाः प्रदक्षिणम् ॥ एकहस्तप्रणामश्च एकं वापि प्रदक्षिणम् । अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् ॥” (समर्थे, त्रि । यथा, रामायणे । ३ । ४३ । ५१ । “प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण ! ॥” “प्रदक्षिणेन समर्थेन ।” इति तट्टीकायां रामा- नुजः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिण¦ न॰ प्रगतो दक्षिणाम् अत्या॰ स॰। दक्षिणपार्श्वानु-गते देवेभ्यः स्वदक्षिणदर्शनेनं प्रणामभेदे तल्लक्षेणफला-दिकं यथा
“प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराःपुनः। दक्षिणं दर्शयन् पार्श्वं मनसापि च दक्षिणः। सकृत्त्रिर्वा वेष्टयेत्तु देव्याः प्रीतिः प्रजायते। स च प्रद-क्षिणी ज्ञेयः सर्वदेवौघतुष्ठिदः। अष्टोत्तरशतं यस्तुदेव्याः कुर्य्यात् प्रदक्षिणम्। सवान् कामान् समासाद्यपश्चान्मोक्षमवाप्नुयात्। मनसापि च यो दद्याद्देव्यै भक्त्याप्रदक्षिणम्। प्रदक्षिणाद्यमगृहे नरकाणि न पश्यति” कालिकापु॰

७० अ॰।
“एकं देव्यां रवौ सप्त त्रीणि कुर्व्या-द्विनायके। चत्वारि केशवे कुर्य्यात् शिवे चार्द्ध प्रदक्षि-णम्” कर्मलोचनम्।
“दक्षिणाद्वायवीं गत्वा दिशं तस्याश्चशाम्मवीम्। तनश्च दक्षिणां गत्वा नमस्कारस्त्रिकोण-वत्। अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समीरितम्। शिवप्रद-क्षिणे मन्त्री अर्द्धचन्द्रक्रमेण तु। सव्यासव्यक्रमेणैवसोमसूत्रं न लङ्घयेत्”। सोमसूत्रं जलनिःसरणस्थानम्।
“प्रसार्य्य दक्षिंणं हस्तं स्वयं नग्नशिराः पुनः। दर्शये-द्दक्षिणं पार्श्वं मनसापि च दक्षिणः। त्रिया च वेद्ध-येत् सम्यक् देवतायाः प्रदत्तिणम्” तन्त्रसारः। [Page4469-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिण¦ mfn. subst. (-णः-णा-णं) Reverential salutation, by circumam- bulating a person or object, keeping the right side towards them. E. प्र before, दक्षिण the right.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिण [pradakṣiṇa], a.

Being placed or standing on the right, moving to the right; प्रदक्षिणार्चिर्हविरग्निराददे R.3.14.

Respectful, reverential.

Auspicious, of good omen; सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् Mb.3.36.7; तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः Bhāg.1.54.16.

Clever, sharp; तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः Rām.2.16.5.

Amenable, favourable; अभिवाद्यभ्यनुज्ञाता प्रदक्षिणमवर्तत Mb.1.122.44. -णः, -णा, -णम् Circumambulation from left to right, so that the right side is always turned towards the person or object circumambulated, a reverential salutation made by walking in this manner; प्रदक्षिणप्रक्रमणात् कृशानोरुदर्चिषस्तन्मिथुनं चकासे Ku.7.79; Y.1.232; अष्टोत्तरशतं यस्तु देव्याः कुर्यात् प्रदक्षिणम् । सर्वान् कामान् समासाद्य पश्चान्मोक्षमवाप्नुयात् ॥ Kālikā P. -णम् ind.

From left to right; एवं सम्यग्घविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् Ms.3.87.

Towards the right side, so that the right side is always turned towards the person or object circumambulated.

In a southern direction, towards the south.

All right, O. k.; श्रमो नाशमुपागच्छत् सर्वं चासीत् प्रदक्षिणम् Mb.3.151.2. (प्रदक्षिणीकृ or प्रदक्षिणयति Den. P. means 'to go round from left to right' as a mark of respect; प्रदक्षिणीकुरुष्व सद्योहुताग्नीन् Ś.4; प्रदक्षिणीकृत्य हुतं हुताशनम् R.2.71). -Comp. -अर्चिस् a. flaming towards the right, having the flames turned towards the right; प्रदक्षिणार्चिर्हविरग्निराददे R.3.14. (-f.) flames turned towards the right; प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ R.4.25.-आवर्त, -आवृत्क a. turned towards the right. -क्रिया going round from left to right, keeping the right side towards one as a mark of respect; प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः R.1.76. -नम् same as ˚क्रिया; किं प्रदक्षिणनकृद्- भ्रमिपाशं जाम्बवानदित ते बलिबन्धे N.21.97. -पट्टिका a yard, court-yard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिण/ प्र-दक्षिण mf( आ)n. moving to the right S3a1n3khGr2.

प्रदक्षिण/ प्र-दक्षिण mf( आ)n. standing or placed on the right (with कृ, or प्र-कृ, " to turn towards persons or things so as to place them on one's right " , " turn the right side towards " as a token of respect) Mn. MBh. etc.

प्रदक्षिण/ प्र-दक्षिण mf( आ)n. auspicious , favourable MBh. R.

प्रदक्षिण/ प्र-दक्षिण mf( आ)n. respectful , reverential MBh.

प्रदक्षिण/ प्र-दक्षिण mf( आ)n. towards the south Mn. Var. (634604 णेणind. = अम्in both meanings BhP. Var. )

प्रदक्षिण/ प्र-दक्षिण mfn. turning the right side towards , circumambulation from left to right of a person or object( gen. or comp. ; with कृor 1. दाdat. gen. or loc. )as a kind of worship R. Katha1s. Pan5cat. RTL. 68 , 2 ; 145 etc.

"https://sa.wiktionary.org/w/index.php?title=प्रदक्षिण&oldid=502126" इत्यस्माद् प्रतिप्राप्तम्