प्रदक्षिणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिणम्, क्ली, पुं, (प्रगतं दक्षिणमिति । “तिष्ठद्गु- प्रभृतीनि च ।” २ । १ । १७ । इति समासः ।) दक्षिणावर्त्तेन देवादिकमुद्दिश्य भ्रमणम् । यथा, “एकं देव्यां रवौ सप्त त्रीणि कुर्य्याद्बिनायके । चत्वारि केशवे कुर्य्यात् शिवे चार्द्धप्रदक्षिणम् ॥” इति कर्म्मलोचनम् ॥ सर्व्वदेवतातुष्टिदप्रदक्षिणं यथा, -- “प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः । दक्षिणं दर्शयन् पार्श्वं मनसापि च दक्षिणः ॥ सकृत्त्रिर्व्वा वेष्टयेत्ता देव्याः प्रीतिः प्रजायते । स च प्रदक्षिणो ज्ञेयः सर्व्वदेवौधतुष्टिदः ॥ सर्व्वान् कामान् समामाद्य पश्चान्मोक्षमवा- प्नुयात् ॥ मनसापि च यो दद्याद्देव्यै भक्त्या प्रदक्षिणम् । प्रदक्षिणाद्यमगृहे नरकाणि न पश्यति ॥” इति कालिकापुराणे ७० अध्यायः ॥ * ॥ अपि च । तन्त्रसारे । “दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्भवीम् ततश्च दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् ॥ अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समारितम् । शिवप्रदक्षिणे मन्त्री अर्द्धचन्द्रक्रमेण तु ॥ सव्यासव्यक्रमेणैव सोमसूत्रं न लङ्घयेत् ॥” सोमसूत्रं जलनिःसरणस्थानम् । “प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः । दर्शयेद्दक्षिणं पार्श्बं मनसापि च दक्षिणः ॥ त्रिधा च वेष्टयेत् सम्यक् देवतायाः प्रदक्षिणम् ॥ एकहस्तप्रणामश्च एकं वापि प्रदक्षिणम् । अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम् ॥” (समर्थे, त्रि । यथा, रामायणे । ३ । ४३ । ५१ । “प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण ! ॥” “प्रदक्षिणेन समर्थेन ।” इति तट्टीकायां रामा- नुजः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदक्षिणम्¦ It is used as an indeclinable in the sense of,:--
1. From left to right.
2. Turning the right side towords.
3. In a southern direction.

"https://sa.wiktionary.org/w/index.php?title=प्रदक्षिणम्&oldid=347109" इत्यस्माद् प्रतिप्राप्तम्